________________
कातन्त्रव्याकरणम्
तथा दीर्घोऽप्यस्तीति मतम् । स्वरप्रदेशाः - "स्वरोऽवर्णवर्जी नामी " (१।१।७)
इत्येवमादयः ।। २ । [दु० टी०]
तत्र । तत्रेत्यनेन विषयो निर्दिश्यते । अर्थवशाद् विभक्तिविपरिणामो हि गरीयान् । चत्वारश्च दश चेति, चतुर्भिः सह दश, चतुर्भिरधिका दशेति विग्रहः सम्भवति । तत्राद्ये त्वपेक्षया आदावित्यनेन सह सम्बन्धः स्यात् । द्वितीयेऽपि सहार्थतृतीयायाः समासस्यानभिधानात् । तृतीयस्तु पक्षो न्याय्य एव, सद्य आद्यत्वाद् ( २ | ६ |३७) अध्यारूढस्योत्तरपदलोपः कश्चान्तो निपात्यते । स पुनरिह कर्मसाधनः समासे गत्यर्थ इति न प्रयुज्यते, तेन सम्बन्धाच्चतुर्भिरिति कर्तरि तृतीया । आदिशब्दादिह तु भेदवृत्तेर्विषयलक्षणैव सप्तमी ।
૪૪
स्वयं राजन्त इति स्वराः, एकाकिनोऽप्यर्थप्रतिपादने समर्था इत्येवं पदानि सिद्धानि । लोके ह्यर्थवन्त्यनर्थकानि च वाक्यानि दृश्यन्ते । यथा - देवदत्तो गामभ्याज शुक्लां दण्डेन | अनर्थकानि च - नदीतीरे दश दाडिमानि षट् प्रपा इति । तत्र भगवत्कुमारसूत्रानन्तरं तदाज्ञयैव श्रीशर्ववर्मणा प्रणीतं सूत्रं कथमनर्थकं भवतीति | अर्थान् सूत्रयति, सूते, सूचयति वा सूत्रम् । तच्च भिद्यते -
1
सञ्ज्ञा च परिभाषा च विधिर्नियम एव च ।
प्रतिषेधोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥ इति ।
तत्र परिभाषा द्विविधा – लिङ्गवती, विध्यङ्गशेषभूता च । विधौ नियमकारिणी । विधिरपि भिद्यते प्रत्ययागमादेशपूर्व परनिपाततया । संज्ञानियमप्रतिषेधभेदा विधेरेव भिदा । अधिकारोऽपि गङ्गास्रोतोमण्डूकप्लुत्यादिभेदभिन्नः पदार्थ इति । तथा च यथास्थानमेते निगदिष्यन्ते - संज्ञाधिकारमन्तरेणापि संज्ञासूत्रमिदं परिशिष्यते । प्रसिद्धा हि स्वरादिसञ्ज्ञा आवर्जनीयाः “स्वरोऽवर्णवर्जी नामी " ( १|१|७) इत्यादिषु । साकाराः सञ्ज्ञिनो निराकाराश्च संज्ञा इति । सम्यग् ज्ञायतेऽनयेति संज्ञा, संज्ञेयश्च संज्ञी, सतोऽपि भेदस्याविवक्षितत्वात् प्रथमा । यथा ' पुरुषोऽयं देवदत्तः' इति ।
अथ किमर्थं 'लवर्णस्य स्वरसंज्ञोपदिश्यते ? लृकारः क्लृपिस्थ एव युज्यते, तत्र न किञ्चित् फलम् । तर्हि यदशक्तिजमसाधुशब्दरूपं तदनुकरणस्यापि साधुत्वम् इष्यते,
१.
. महाभाष्यकारेण द्वितीये प्रत्याहाराह्निके "ऋ लृक्" इति माहेश्वरसूत्रव्याख्यानप्रसङ्गे विषयोऽयं विस्तरेणोपन्यस्तः ।