________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
ननु प्रत्यभिज्ञानं भ्रमज्ञानमित्याह - अर्थप्रतिपत्ति० इति । अन्यथा अन्येन प्रकारेण अर्थप्रतिपत्तेरनुपपत्तेः। ननु शब्दस्यानित्यत्वे कथमर्थप्रतिपत्त्यन्यथानुपपत्तिरित्याह - शब्दा हि इति । न चासाविति । असावर्थप्रत्ययो न च न भवति, अपि तु भवत्येवेत्यर्थः, शब्दानां नित्यत्वाद् इति । उपसंहरन्नाह - तस्मादिति । नामी वर्णा इति नित्यत्वा - नित्यत्वेन निश्चेतुमशक्या इत्यर्थः । अनवच्छिन्नसन्तानाः अनवच्छिन्नसन्ततयः इत्यर्थः ।
ननु यदि अनवच्छिन्नसन्ताना वर्णास्तर्हि कथं संज्ञा भवतीत्याह - न खलु इत्यादि । प्राणिनो लोका गोशब्दव्यवहारशून्या इत्यर्थः । स चायम् इत्यादि । अनित्यपक्षे कथं कर्तरि क्तः, धातोः सकर्मकत्वात् । यो हि अनित्यभावः सोऽन्यसाध्य इति नियमात् ततःस्वयं कर्तृत्वाभावात् । वर्णसमाम्नायो यः सिद्धोऽन्येन साधित इत्यर्थे कथमकर्मकत्वम् ? सत्यम् । अनित्यपक्षेऽपि धातोर्निष्पत्त्यर्थविवक्षया स्वयं कर्तृता विवक्षणीया । यथा विक्लित्तिवचने ओदनः पचतीति उमापतेर्दुर्बुद्धिः । तन्न । सिद्धशब्दस्य उत्पन्नत्वाभिधायकत्वात् | उत्पत्तिश्चाद्यक्षणसम्बन्धस्तस्य वर्ण एव कर्ता, नहि तत्साधकः कश्चित् । न चास्य धातोर्व्याप्यः सम्भवतीति ।
३९
धात्वर्थतावच्छेदकक्रियाफलाभावादिति कुतः सकर्मकत्वसम्भावनामात्रमपि कुतो वा स्वयं कर्तृत्वविवक्षा, अन्यथा भूप्रभृतीनामपि सकर्मकत्वं कथं न ब्रूयाः । तदन्तश्च मङ्गलमप्याविष्करोतीति, यथा दध्यानीयतां दूर्वा चेति अन्यार्थमुक्तं कार्येषु प्रवर्तमानानामपि मङ्गलाय तद् भवतीति, अत एवादौ प्रयुक्तः । अन्यथा प्रतिपाद्यत्वाद् वर्णसमाम्नायस्यादौ निर्देशो युक्त इति । एतदेव मनसि कृत्वाह- मङ्गलादीनीति ।
ननु अत्र 'सिद्धशब्दस्य मङ्गलार्थत्वाद् मङ्गलवाचकादीनि इत्येव वक्तुं युज्यते, न तु मङ्गलादीनीति। यदि तु सिद्धशब्द एव मङ्गलं तदा मङ्गलमप्याविष्करोतीति वचनमनुपपन्नम् । न चोद्यमेवम्, यतो मङ्गलशब्दः प्रारीप्सितप्रतिबन्धकविघ्नध्वंसेऽपि तदसाधारणकारणेऽपि दृश्यते ।
एवं सति मङ्गलमप्याविष्करोतीति विघ्नध्वंसं जनयतीत्यर्थः । तथा विघ्नध्वंसकारणं मङ्गलं सिद्धशब्दः, स एवादौ येषां तानीति न दोषः । अस्मिन् पक्षे सिद्धशब्दो
१.
सिद्धे शब्दार्थसम्बन्धे (म० भा०- पस्पशा०, पृ० ४१ ) -
“माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं सिद्धशब्दम् आदितः प्रयुङ्क्ते" ।