________________
कातन्त्रव्याकरणम्
यद् वा तात्पर्यार्थमाह- केन पुनरित्यादि इत्यनेन इत्यर्थः । अस्मिन् पक्षे न पुनरन्यथोपदेष्टव्य इति कश्चित् पञ्जिकापाठोऽपि संगच्छते, तव्प्रतिषेधार्थमिदमिति । यद्यपि सूत्रेण प्रत्याहाररूपस्यैव निषेधः क्रियते, तथापि प्रत्याहारस्याजादीनां संज्ञाकारणीभूतत्वात् कारणनिषेधेनैव कार्यनिषेधः सुतरामेव संगच्छते इत्यजादिसंज्ञानिषेधो युक्त इति न दोषः ।
३८
1
अथ अप्रसिद्धाभिः संज्ञाभिः साध्यमानाः कथं सुबोधा न भवन्तीति अज्ञातार्थत्वादिति चेत्, तदा आदौ संज्ञां विधाय ज्ञातार्थायां सत्यां पश्चाद् विधिसूत्रतयैव व्यवहारः क्रियतामिति मनसि कृत्वा आह - अथ संज्ञा इति । साधितया प्रसिद्धार्थतया ज्ञानार्थतयेति यावत् तात्पर्यार्थं विविच्य समुदायार्थं सङ्कलयन्नाह - तेन इत्यादि । परिषीदन्ति अस्यामिति परिषत् सभा, सम्पदादित्वादधिकरणे क्विप् । सर्वेषां परिषत् सर्वपरिषत् तत्रोपस्थितं व्याकरणं सर्वपारिषदम्', तस्य भावस्तस्मात् सर्वसभायामुपस्थितत्वादित्यर्थः। अर्थत्रयं घटते इति, सिद्धशब्दस्येति शेषः ।
त एव के इति शिष्यजिज्ञासायामाह - ये तु इति । किं तर्हि प्रसिद्धा इति शेषः । नित्या एव कथन्न भवन्तीत्याह - तल्लक्षणायोगादिति । सदकारणवन्नित्यमित्यस्यायमर्थः- सत् सत्ताशालि, अकारणवत् कारणरहितं यत् तन्नित्यमिति । केवलं सदित्युक्ते घटादीनामपि नित्यत्वप्रसङ्गः । केवलमकारणवदित्युक्ते प्रागभावस्यापि स्यात् । नहि तस्य किमपि कारणमस्ति । अनादित्वाद् इत्युक्तं पदद्वयोपादानम् । नाप्यन्योऽन्याभावात्यन्ताभावयोरव्याप्तिः, सत्पदेन महाप्रलयकालीनस्य विवक्षितत्वात् । तर्हि प्रागभावेऽप्यव्याप्तिरिति चेत्, न । महाप्रलये सति पुनः सृष्ट्यभावात् तस्य प्रतियोगिजनकत्वाभावेऽपि सत्यभावात् ।
एवं सत्यकारणवद्ग्रहणं व्यर्थमिति चेत्, न । ध्वंसाभावव्यावर्तनार्थत्वात् । ताल्वादि इति । विधायो विधानं तदस्यास्तीति विधायि । ताल्वादिकारणक्रमेणानुविधायि कण्ठदेशसंयोगस्य पश्चाद्भावि जन्म येषां ते तथा इत्यर्थः । कारणवत्तोपपत्तौ नित्यत्वाभावे किं प्रमाणमित्याह - व्योमादिषु इति । नित्यस्य सर्वसम्मतम् उदाहरणमिदम्, अत्र तथानुपपत्तेः कारणवत्तोपपत्तेरभावादित्यर्थः । अनुभूतस्यानुभूयमाने अभेदबुद्धिः प्रत्यभिज्ञा, यथा 'सैवेयं प्रदीपज्वाला, स एवायं रवेरातपः' इत्यादि ।
१. सर्ववेदपारिषदं हीदं शास्त्रम् (म० भा० २|१ | ५८ ) ।