________________
३७
सन्धिप्रकरणे प्रथमः सज्ञापादः (३।२।१)। तदुक्तम् - "अनियमे नियमकारिणी या सा परिभाषा'' इति, तथापि विधीनां पाक्षिकप्रवृत्तौ सत्यां यया नियम्यते सा परिभाषा । तथाहि – “गुप्तिक्किद्भ्यः सन्” (३।२।२) इत्यादिना विहितः सन्नादिः कदाचिद् गुपादेः पार्श्वतः पृष्ठतो वा प्राप्तस्तदा “प्रत्ययः परः" (३।२।१) इत्यनेन परत्वं नियम्यते । एवं “युगपद्वचने परः पुरुषाणाम्' (३।१।४) इत्यादिष्वपि बोद्धव्यम् । अन्ये तु येन विध्यन्तरमनूद्य किञ्चिन्नियम्यते तस्य परिभाषात्वमिति भेदः । तथाहि- "प्रत्ययः परः" (३।२।१) इत्यनेन “गुप्तिक्किद्भ्यः सन्” (३।२।२) इत्यादिकमनूद्य परत्वं नियम्यते । “अनि च विकरणे" (३।५।३) इत्यादौ तु न तथा । नैवम्, तदैकवाक्यतापक्षे "शेषाः कर्मकरण०” (२।४।१९) इत्यादिसूत्रस्यापि परिभाषात्वप्रसङ्गः स्यात्, तस्यापि "तस्मात् परा विभक्तयः” (२।१।२) इत्यनूद्य प्रवर्तमानत्वात् । ___ तस्मादिदमालोचयामः- विधीनां नित्यप्रवृत्तौ सत्यां येन नियम्यते स नियमः । तथाहि – “पञ्चादौ घुट्” (२।१।३) इत्यनेन नित्यं सर्वस्मिन्नेव लिङ्गे घुट्त्व प्राप्तौ "जस्शसौ०" (२।१।४) इत्यनेन नियम्यते । एवं “शेषाः कर्मकरण०" (२।४।१९) इत्यादीनामपि बोद्धव्यम् । यच्च “विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति" इति श्रूयते, तत्तु नाम्नो विपर्ययमात्रम्, न तु वस्तुनः । तदुक्तम् – “श्लिष आलिङ्गने" (दि० २९) इति सूत्रे अर्थन्यासकृता अस्मिन् व्याकरणे नियम एव परिसंख्यायते इति परिसंख्या परिभाषा इत्यर्थ इति (टीकायां विधौ नियमकारिणीति विधिपदस्वरसादिदं व्याख्यातम्)।
इदानीं प्रकृतमनुसरामः- यद्यपीह 'वेदितव्यः' इति पदं शब्दानुपात्तम्, तथापि भगवतः कुमारस्याप्तत्वात् तद्वचनान्यथानुपपत्तिभयादिदं व्याख्यायते, तद् यथा - खलु भोः शर्ववर्मन् ! तव शिष्यैः ‘अ आ' इत्यादिरूपः सिद्धो वर्णसमाम्नायो वेदितव्य इति, न पुनर्भवता तेभ्यः पाणिनिवदन्यथाप्रकारम् ‘अ इ उण, ऋ टुक्' इत्येवं प्रत्याहाररूप उपदेष्टव्य इति ।
ननु पाणिनीयैरप्येतादृशवर्णसमाम्नायः पठ्यते, तत्कथमन्यथात्वं तस्येति चेत्, न । तादृशं पठित्वापि प्रत्याहाररूपेण यदन्यथात्वं परिकल्प्यते, तदेवात्र निषिध्यते इति भावः । ननु सूत्रे नञोऽनुपात्तत्वात् कथं वृत्तौ न पुनरित्यादिकं विवृतमित्याह - अस्यैवेति सूत्रस्यार्थः। तात्पर्यार्थो यस्मिन् वाक्ये तद् वाक्यमाह । तदेव किमित्याह - न पुनरन्यथोपदेष्टव्य इति ।
शत।