________________
कातन्त्रव्याकरणम्
तत्र नायमधिकारः- वर्णसमाम्नायो वेदितव्य इति वाक्यार्थसमाप्तावधिक्रियते इत्यनन्वयापत्तेः । नापि विधिः - वर्णसमाम्नायस्य प्रसिद्धत्वादत्यन्ताप्राप्तेरभावात् । तथा च "विधिरत्यन्तमप्राप्तौ” (द्र०, व्या० द० इ०, पृ० ३७९) इति । नापि संज्ञा - प्रयोजनाभावात् । नापि निषेधः- नञोऽनुपात्तत्वात् । यदि तात्पर्यार्थमादाय निषेधो भविष्यति, तदा तत्र चतुर्दश इत्यादिभिरपि निषेधः स्यात् । तेषामपि अच्संज्ञानिषेधार्थत्वात् । स्यादिति चेत्, न । व्यवहाराभावात् । नापि नियमः- वर्णसमाम्नायः सिद्ध एव । नापि सिद्ध इति नियमः- सिद्धस्यापि वर्णसमाम्नायस्य 'अ-इ-उ-ऋ-~-क्' इत्यादिप्रत्याहाररूपेणाप्रसिद्धीकृतस्यापि वर्णसमाम्नायवाच्यत्वात् । नापि परिभाषासिद्धान्तरम् अनूद्य नियमकारित्वाभावात् । अतः कुलचन्द्र उद्देशसूत्रमिदमित्याह । तदुक्तम् -
उद्देशोऽथ विभागश्च लक्षणं च त्रिधा मतम् ।
परीक्षा च चतुर्दा च क्वचित् केचित् प्रचक्षते ॥ प्रतिपादयितुमिष्टस्य विभागाद्यर्थस्य नाममात्रेण सङ्कीर्तनमुद्देशः । उद्देशस्य संज्ञाभिर्विभजनं विभागः । इतरव्यावृत्त्या येन स्वरूपं लक्ष्यते तल्लक्षणम् । संशये स्वरूपं परीक्ष्यते यया सा परीक्षा | एषा च क्वचिदेव, सर्वत्र संशयाभावात् । तन्न, व्याकरणसम्प्रदायसिद्धषड्विधभिन्नत्वात् ।
अपरस्त्वाह - विधिनिषेधसूत्रम् इदम्, तदप्यसङ्गतम्, वक्ष्यमाणवचनानामपि संज्ञानिषेधत्वापत्तेः । वयं तु नियम इति ब्रूमः । तथाहि ज्ञेयत्वेन द्वयमेव समुपस्थितम् - प्रसिद्धोऽप्रसिद्धश्चेति । अत्र नियमयति - सिद्ध एव वर्णसमाम्नायो ज्ञातव्यो न तु 'अ इ उण, ऋ लुक्' (मा० सू० १,२) इत्यादिप्रत्याहाररूपेणाप्रसिद्ध इति ।
यद्येवम् अजादिसंज्ञा स्वरादिसंज्ञा च द्वयमेव समुपस्थितम्, तत्र स्वरादिसंज्ञाभिरेव व्यवहर्तव्यं नाजादिभिरिति वक्ष्यमाणवचनमपि नियमार्थं स्यात् ? सत्यम् । किन्त्वेवं मन्यते - सर्वेषां वाक्यानामवधारणफलकत्वान्नियम एवेति । यद्येवमनेनैव न्यायेन वक्ष्यमाणानामपि सर्वेषां नियमत्वं स्यादिति चेत्, न । तेषां साक्षात् संज्ञादिभिविशेषवचनैरेवाघ्रातत्वात् ।
यद्यपि नियमेन निषेध एव साध्यते, यथा “जसशसौ नपुंसके" (२।१।४) इति, तथापि यत्र साक्षान्निषेधोऽवगम्यते तत्र निषेधः । यत्र तु तात्पर्यवशादेव गम्यते तत्र नियम इत्यनयोर्भेदः । यद्यपि परिभाषापि नियम एव, यथा “प्रत्ययः परः"