________________
सन्धिप्रकरणे प्रथमः सजापादः इत्यादिना सत्वविषयत्वात् । न हि वर्णशब्दीयवकारस्य पवर्गत्वं नास्तीति वाच्यम्, क्तान्तस्य वृञ्धातोर्वर्ण इति निपातनात् ।
तथा च -ओष्ठ्यत्वाद् उरोष्ठ्योपधस्य च (३।५।४३) इत्यनेन प्रावुवूर्षतीत्यादिकं सिद्धमिति । यदि पुनर्वर्ण 'वर्णक्रियायामिति (९।२४३) वर्णधातोरेवेदं रूपम्, तथापि उदूटोरभावात् पवर्गीयत्वं बोध्यम् । तथा हि - उदूटो यत्रेत्यादि । नैवं प्रायिकमेतत् । किञ्च तत्राव्ययप्रकृतिविसर्गवर्जनादनव्ययस्यापि प्रकृतिविसर्गस्यायं विधिः, न प्रत्ययविसर्गस्य | “नञिवयुक्त०" (कात० परि० ५१; काला० परि० ६४) इति यादृग्जातीयस्येति न्यायात् । किञ्च कखपफेष्वेव सकारस्य विषयः । तथा च तत्रैव टीकायामुक्तम् – “घोषवति घोषवत् कार्यमेव गम्यते'। यथा अयोघोषः, पयोघोषः, पयोभोजनमित्यादीति केचित् । केचित्तु- तस्य सकारस्य समासविषयत्वाद् असमासे कथं स्यादित्याहुः। तन्न । अव्ययादन्यदनव्ययं लिङ्गमुच्यते, तस्य विसृष्ट इति विभक्तेर्न स्यात् तदा कः पठति, कः फलति इति दर्शयता टीकाकृता सह विरोधः । तर्हि कथं 'भ्रातुष्पुत्रः, शुनस्कर्णः' इत्यादौ प्रत्ययस्थस्य सकारो दृश्यते ? सत्यम्, क्वचिदधिकारादित्युक्तम् ।
यद् वा यथा 'अयोधनः, पयोवसनम्, पयोभावः' इत्यादौ घोषवति न भवति, तथात्रापीति । तत्रैव कथं न स्यादिति चेत्, तत्र टीकाकृतोक्तं घोषवत्युत्त्वमेव । तर्हि 'कखपफेषु' इति वक्तुमुचितम्, किं वर्गग्रहणेन ? सत्यम्, अनुष्टुप्पूरणार्थमेव । ननु तथापि कथमोत्वप्रसङ्गः ? असिद्धं बहिरङ्गमन्तरङ्गे' (कात० परि० ३५; काला० परि० ४२) इति न्यायादिति चेत् ? न, स्वरानन्तर्ये तस्यानित्यताभ्युपगमात् । ननु किमिदं सूत्रम् ? तल्लक्षणं चोक्तम् -
अधिकारो विधिः संज्ञा निषेधो नियमस्तथा। परिभाषा च शास्त्रस्य लक्षणं षड्विधं विदुः॥
१. २.
वर्ण क्रियाविस्तारगुणवचनेषु (कात० धा० पा० ९।२४३)। गोयीचन्द्रस्तु अतिदेशभेदं पृथक्त्वेन परिगणयति, न च निषेधम् - संज्ञा च परिभाषा च विधिनियम एव च । अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम् ॥ (संक्षिप्तसार - विवरणटीका १)।