SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् कारादीनाम् । सम्यग् आम्नायन्ते ज्ञायन्तेऽस्मिन्निति समाम्नायः । “इङाभ्यां च" (४।५।६) इत्यधिकरणे घञ्, “आयिरिच्यादन्तानाम्" (३।६।२०) इत्यायिरादेशः । पाठक्रमो नियतव्यूह इत्यर्थः ।।१। [क० च०] सिद्धः। 'राजा कश्चिन्महिष्या सह सलिलगतः खेलयन् पाणितोयैः सिञ्चस्तां व्याहृतोऽसावतिसलिलतया मोदकं देहि देव। मूर्खत्वात् तन्न बुद्ध्वा स्वरघटितपदं मोदकस्तेन दत्तो राज्ञी प्राज्ञी ततः सा नृपतिमपि पति मूर्खमेनं जगई ॥ पुरा किल श्रीशालि (सालि) वाहनाभिधानं वसुधाधिपं झटिति व्युत्पादयितुं प्रतिश्रुतवता भगवता सर्ववर्माचार्येण कुमाराभिधानो भगवान् भवानीसुतस्तपसा समाराधितः, स च तदाराधनाधीनतामुपगतः सन् निजव्याकरणज्ञानमाविर्भावयितुं पद्यपादरूपं सूत्रमिदमादिदेश- सिद्ध इत्यादि । अल्पाक्षरमसन्दिग्धं सारवद् गूढनिर्णयम् । निर्दोषं हेतुमत्तुल्यं सूत्रमित्युच्यते बुः॥ इति वररुचिः। तत्र साम्प्रदायिकमिदं व्याख्यायते - उपोद्घातः पदं चैव पदार्थः पदविग्रहः। चालना प्रत्यवस्था च व्याख्या तन्त्रस्य षड्विधा ॥ अस्यायमर्थः - तत्र व्याख्यानार्थं गुरोः समीपोच्चारणम् उपोद्घातः, विभक्त्या परिच्छेदः पदम्, प्रकृतिविभक्त्योरन्वाख्यानं पदार्थः, समासपदस्य विभागकथनं पदविग्रहः, प्रकृतिप्रत्ययाभ्यां लब्धस्यार्थस्यादेशश्चालना, चालितपदस्य प्रयोजनोपन्यासपूर्वकं स्थापनं प्रत्यवस्था । एतत्तु यथासम्भावनमूहनीयम् । षड्विधा इति । न्यूनाधिकत्वनिराकरणाय षड्-ग्रहणम् । ननु कथमस्मिन् डत्वप्रसङ्गः,"अनव्यय०" (२।५।२९) १. कथासरित्सागरे (१।६।१४) कथेयं विस्तरेणोपलभ्यते ।
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy