SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ३३ सन्धिप्रकरणे प्रथमः सज्ञापादः विधीयमाना दृश्यन्ते इत्ययुक्तम्,पूर्वाचार्यप्रसिद्धसज्ञान्वाख्यानद्वारेणेतरप्रणीतसञ्ज्ञान्तरप्रतिषेध एव तैरपि साध्यः, अन्यथा स्वरादिसञ्ज्ञा हि प्रसिद्धाः किमर्थं विधीयन्त इति । सिद्धशब्द इत्यादि । 'सर्वपारिषदत्वाद् व्याकरणस्यार्थत्रयं घटते । तत्र नित्या वर्णा इति दर्शने नित्यार्थः । अनित्यवादिनां च मते निष्पन्नार्थः । ये तु मन्यन्ते - नामी वर्णा नित्यास्तल्लक्षणायोगात्। तथाहि - सदकारणवन्नित्यमिति नित्यलक्षणम् । वर्णाश्च कण्ठताल्वादिकारणक्रमानुविधायिजन्मानः कथं नित्या भवितुमर्हन्तीति, व्योमादिष्वनुपलब्धेः । नाप्यनित्याः । स एवायं शब्दो यः पूर्वमुपलब्ध इति प्रत्यभिज्ञानादर्थप्रतिपत्त्यन्यथानुपपत्तेश्च । शब्दा हि संकेतवशादर्थे धियम् आविर्भावयन्ति । ते यद्यनित्याः स्युस्तर्हि गृहीतसङ्केतस्य शब्दस्य प्रध्वंसे सत्यगृहीत इदानीमन्य एव प्रतिपत्तिकाले शब्द उपलभ्यते, तत्कथमर्थप्रत्ययः स्यात्, न चासौ न भवतीति । तस्मान्नामी वर्णा नित्याः, नाप्यनित्याः। किं तर्हि वृद्धपरम्परयाऽनवच्छिन्नसन्तानाः प्रसिद्धा एव । न खल्वसौ कालोऽस्ति यत्रामी प्राणिनो गोशब्दादिव्यवहारविकला इति । तस्मात् प्रसिद्धार्थ एव सिद्धशब्द इति । स चायं 'षिधू शास्त्रे माङ्गल्ये च' (१।९) इत्यस्माद् “गत्यर्थाकर्मक०" (४।६।४९) अकर्मकलक्षणेन कर्तरि क्तप्रत्ययेन सिद्धः । तदन्तश्च मङ्गलमप्याविष्करोति । ततश्च मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राण्यव्याहतप्रसराण्यायुष्मद्व्याख्यातृश्रोतृकाणि च भवन्ति । तथा च "अथ परस्मैपदानि" (३।१।१) इति मध्येऽथशब्दो मङ्गलार्थः, “आर् उत्तरे च वृद्धिः" (३।८।३५) इत्यन्ते वृद्धिशब्दो मङ्गलार्थः । अथ वर्णशब्दो यदप्यनेकार्थः, यदाह - वर्णा गुणाक्षरयशःप्रकाराः स्युः, तथापि शास्त्रप्रस्तावाद् अकारादय एव वर्णा इत्याह - वर्णा अकारादयः इति । तेषाम १. २. सर्ववेदपारिषदं हीदं शास्त्रम् (म० भा० २।१।५८)। द्र०, म० भा०- पस्पशा०, पृ० ४१; १1१।१; "भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते । माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वकारमागमं प्रयुङ्क्ते । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च मङ्गलयुक्ता यथा स्युरिति" (म० भा० ११३।१)।
SR No.023086
Book TitleKatantra Vyakaranam Part 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1997
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy