________________
कातन्त्रव्याकरणम्
श्रुतिभेदः संभवति, येनानयोर्जातिभेदं प्रतिपद्यामहे । कथं पुनर्हस्वदीर्घयोरवर्णादिव्यपदेशः, नहि तत्रात्वादिसामान्यमस्तीति ? सत्यम् । नायं वर्णशब्दो जातिमाह, अपि तु यस्य वर्णस्य येन वर्णेन सवर्णसञ्ज्ञा, तयोः समुदायोऽवर्णादिव्यपदेशं लभते । यदि पुनर्वर्णशब्दो जातिमभिधत्ते, सन्ध्यक्षरेष्वपि समुदायमभिदधीत । विसर्जनीयोपदेशात् तदादेशयोरपि जिह्वामूलीयोपध्मानीययोरुपदेशो वेदितव्यः। कस्मात् पुनर्तृकार उपदिश्यते ? नहि धात्वादिषु लुकारः प्रयुज्यते । ननु लुकारम् उच्चारयतीति किमिदं नाम न भवतीति । तथा च -
समालम्बितकौपीनसत्करण्डकशोभिना।
लुकाराकारदण्डेन धर्मावासमुपागतः॥ इति सकललोकप्रसिद्धश्चायम् । वर्णसमाम्नाये 'लकारस्य प्रयोजनं चिन्त्यम्, न पुनरपह्नवो विधेय इति । सिद्ध इति अकर्मकलक्षण एव कर्तरि क्तप्रत्ययः, तदन्तश्च मङ्गलमप्याविष्करोति । यथा दधि, दूर्वा इति । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते । तथा च “अथ परस्मैपदानि" (३।१।१) इति मध्ये अथशब्दो मङ्गलार्थः, “आरुत्तरे च वृद्धिः" (३।८।३५) इति अन्ते च वृद्धिशब्दः ।।१।
[वि० प०]
सिद्धः । सिद्ध इत्यादि । अस्यैव तात्पर्यार्थमाह - न पुनरन्यथोपदेष्टव्य इति । अयमर्थः- पूर्वाचार्यप्रसिद्धां स्वरव्यञ्जनादिसञ्ज्ञामपनीय केचिदपूर्वामेव अज्झलादिसंज्ञां प्रणीतवन्तस्तत्प्रतिषेधार्थमिदमुच्यते । कुतः ? यतः शब्दाः खल्विह साध्यत्वेनाभिमताः । ते च लोकप्रसिद्धाभिरेव संज्ञाभिः साध्यमानाः सुबोधा भवन्ति, नाप्रसिद्धाभिरिति । अथ संज्ञापि कथन्न साध्यते इति चेत्, नैवम् । प्रथमतः सञ्ज्ञा साध्या साधितया च पश्चात् तया शब्दा व्युत्पाद्या इति यत्नगौरवम् आपद्येत । एतेन प्रतिषेध एव साध्यत्वेन परिणत इति । यथा 'दक्षिणेन चक्षुषा पश्यति' इत्युक्ते वामेन न पश्यतीत्यवगम्यते । ननु "तत्र चतुर्दश०" (१।११२) इत्यादिभिर्योगैः स्वरादिसंज्ञा
१. लृकारोपदेशो यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः (म०भा० - प्रत्याहारा०, ऋ लुक् - वा० १)। २. पाणिनिस्तदनुसारिणोऽन्ये चन्द्रजिनेन्द्रप्रभृतयः शाब्दिकाचार्याः ।