________________
सन्धिप्रकरणे प्रथमः समापहः [दु० वृ०]
सिद्धः खलु वर्णानां समाम्नायो वेदितव्यः । न पुनरन्यथोपदेष्टव्य इत्यर्थः । 'सिद्धशब्दोऽत्र नित्यार्थी निष्पन्नार्थः प्रसिद्धार्थो वा । यथा-सिद्धमाकाशम्, सिद्धमन्नम्, काम्पिल्यः सिद्ध इति । वर्णा अकारादयः, तेषां समाम्नायः पाठक्रमः ॥१।
[दु० टी०]
सिद्धः। सिद्धः प्रज्ञातश्च । वर्णा अकारादयो न तु ब्राह्मणशुक्लादयः, शब्दानुशासनत्वात् । सम्यग् आम्नायन्ते ज्ञायन्तेऽस्मिन्निति समाम्नायः वर्णानां व्यूहो लोकत एव सिद्धो न पुनरन्यथोपदेष्टव्यः। तत्रैव हि स्वरादिव्यवहारोऽनादिप्रवृत्तस्तेनैव व्यवहारेण प्रकृति-प्रत्यय-लोप-आगम-वर्णविकारैः शब्दा व्युत्पाद्यन्ते । यदि पुनर्व्यवहारोऽपि साध्यते, शब्दाश्च व्युत्पाद्यन्ते, तदा यलगौरवं प्रसज्येत । ननु "तत्र चतुर्दशादौ स्वराः, कादीनि व्यञ्जनानि" (१।१।२, ९) इति संज्ञाविधिरस्ति, नास्तीति ब्रूमः।
नायं सज्ञाविधिः, अपि तु वर्णानामन्यथोपदेशप्रतिषेधः । अन्यथोपदेशेन हि वर्णानां सञ्ज्ञा विधीयन्ते, ताः पुनरिहैव वर्णसमाम्नाये लोकप्रवृत्ताः, किमन्यथोपदेशेनेति प्रतिषेध एव साध्यत्वेन परिणत इति । किमर्थं पुनरिह दीर्घोपदेशः संवृतविवृतोदात्तानुदात्तसमाहारभेदभिन्नानामकारादीनां यथा ग्रहणमेवमिकारादीनामपि। नहि तेष्वत्वादिसामान्यं न सम्भवति, कथमिकारादिषु तर्हि तदत्वं नास्ति ? श्रुतिभेदादिति चेत्, अथ मन्यसेऽकारोऽन्यथा श्रूयते अन्यथा चेकारः, न हि भिन्नस्वभावतया श्रूयमाणयोरेव जातिरुपलभ्यते ।किमकाराकारयोरेका श्रुतिः ।न ह्यकारमुच्चरन्तमाकारतया आकारं वा अकारतया प्रतिपद्यते लोकः ।नहि आनेतव्या गावः' इति गवामानयनमानेतव्या गाव इति च गवानयनप्रतिषेधं प्रतिपद्यते ।
यद्येवं प्लुतोपदेशप्रसङ्गो नहि ते भिन्नश्रुतयो न भवन्ति । नैतदेवम्, स्वराः (दीर्घाः) एवानवच्छिन्नसन्ततयो बहुशोऽभिधीयमानाः प्लुतव्यपदेशं लभन्ते । दीर्घोपदेशाद् वा अकारादिजातयः प्लुता अपि निर्दिष्टा वेदितव्याः। नहि दीर्घप्लुतयोः
१. "सिद्धे शब्दार्थसंबन्धे" (म० भा० - पस्पशा०) इति वार्तिकसूत्रस्य महाभाष्ये नित्यानित्य
रूपमर्थद्वयमेव सिद्धशब्दस्य दर्शितम् ।