________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः। कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तं-'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम् ।' इति । यद्यपि 'स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः ।' इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वम्, तथाऽपि ‘रसः स्वाद्यते' इति काल्पनिकं भेदमुररीकृत्य, कर्मकर्त्तरि वा प्रयोगः । तदुक्तम्-'रस्यमानतामात्रसारत्वात्प्रकाशशरीरादनन्य एव हि रसः' इति । एवमन्यत्राप्येवंविध
रसः शृङ्गारादिः । अद्भुत इत्याहुः । तस्मादसजातस्याद्भुतत्वादित्यर्थः । नारायणः। कृती विद्वान् । 'धीमा
शूरः कृती कृष्टिः' इत्यमरः । अद्भुतम् । एव नत्वन्यविधम् । रसं शृङ्गारादिम् । आह । अत्राहुस्तर्कवागीशाः- 'वस्तु. तस्तु रत्याय॑शस्यानुभूयमानत्वे यथायथं शृङ्गारादिव्यपदेशः, तस्य (रत्याग्रंशस्य) अननुभावेऽद्भुतव्यपदेशः । इति । अन्ये तु-'अपि सर्वेषु रसेषु विलक्षणैवास्वादप्रतीतिरिति भवतु नाम सर्वेषामेव तत्तेषामद्भुतत्वादद्भुतव्यपदेशः । प्रतीतिश्चैषा.सत्यपि स्वगतत्वेन परगतत्वेन च विकल्पास्पदमपरिहार्थेति पिशाचवदकथनीया, अथ च-यथा प्रतीत्यन्तरेण प्रतीतिमात्रतया विलक्षणत्वासद्भावेऽपि प्रात्यक्षिक्यानुमानिक्यागमोत्पन्ना प्रतिभानकृता योगिप्रत्यक्षोत्पन्ना, तथा चर्वणास्वादनभोगाद्यपरनामधेयोपायवैलक्षण्याद्विलक्षणा ।' इत्याहुः । इति ।
कैश्चिदिति 'अस्य पदस्य'ति शेषः । प्राक्तनपुण्यशालिभिः। इत्यर्थः । अयम्भावः-अत्र प्राक्तनपद फलाभिमुखं कर्म, एतेन सञ्चितक्रियमाणयोर्निरासः । तथा च-फलाभिमुखपुण्यशालिभिरिति कैश्चिदितिपदस्यार्थ इति निष्कृष्टम् । इति । एतत्प्रमाणयति-यद् यतः । उक्तम् । किमित्याह-'पुण्यवन्तः पुण्यं प्रकृष्टं प्रारब्धमस्त्येषामिति ते तथोक्ताः । योगिवद योगिनः समाहितचेतसस्तद्रत । तुल्यार्थ वतिः । रससन्ततिं रसस्य शङ्गारादेब्रह्मानन्दस्य वा सन्ततिरव्यवधानेनास्वादपरम्परेति तां तथोक्ताम् । 'रसोवै सः' इत्यादिः श्रुतिः । प्रमिण्वन्ति निश्चिन्वन्त्यनुभवन्तीति यावत्।' इति । ननु को नाम रसः 'रस्यत आस्वाद्यते स्वयमेवेति रस' इति चेत् ? 'कैश्चित् .. अयमास्वाद्यते' इति कथं रसास्वादयोः कर्मक्रियाभावेनोल्लेखो भेदग्रहणमन्तरा सम्भवेत् ? यदि तु-'रस्यते आस्वाद्यते प्रमातृविशेषैरिति रस' इति, तर्हि रसास्वादयोः पार्थक्यमन्तरा कथं ? पार्थक्ये च को नाम रसः को वाऽऽस्वाद इति सन्देहदैर्ध्यमित्याशङ्कय समाधत्तेयद्यपि। 'काव्यार्थसम्भेदात काव्यस्यार्थास्तात्पर्य्याणि विभावादय इति यावत् , तेषां सम्भेदः सङ्गः परिशी. लनजन्मैकात्म्यमिति यावत् तस्मात्तथोक्तात् । 'सम्भेदा'दित्यत्र 'संवेदा' दिति 'सम्मेला' दिति वा पाठान्तरम् । संवेदात्परिशीलनादिति, सम्मेलान्मेलनादित्यर्थश्च । आत्मानन्दसमुद्रव आत्मनो बुद्धेरानन्दो विषयान्तरास्फुरणेनानन्दात्मनाऽवस्थानं तस्मात्समुद्भवतीति तथोक्तः । स्वाद आखादः। यद्वा-काव्यार्थसम्भेदात्, (यः) खाद आनन्दानुभवः (सः) आत्मानन्दसमुद्भव आत्मनः स्वखरूपस्यानन्दो वासनापरित्यागपुरःसरं भेदाग्रहेणानुभवविशेषस्तस्मात्समुद्भवतीति तथोक्तः, तदात्मेति यावत् । तत्र को मोहः, कः शोकः' इत्याद्युक्त आत्मज्ञानानन्दः काव्यार्थसम्भेदात्प्रतिपद्यमानः खादश्च न पृथगिति भावः ।' इत्युक्तदिशेत्युक्तमार्गप्रदर्शनेन । रसस्य शृङ्गारादेः। आस्वादानतिरितत्वमास्वादाभिन्नत्वम् । उक्तं प्रतिपादितमिति भावः । तथाऽपि तथा सति 'रसः स्वाद्यते' इति वक्तुमयुक्तत्वे. ऽपीति भावः । 'रसः शृङ्गारादिः । स्वाद्यते 'कैश्चि' दिति शेषः ।' इति । प्रयोगः। काल्पनिकं कल्पनासिद्धं न त वास्तविकमित्यर्थः । भेदं भिन्नत्वम् । उररीकृत्याङ्गीकृत्य । 'ज्ञेय' इति शेषः । वाऽथवा । कर्मकर्तरि कम्मैव ( विवक्षया) कर्तेति तत्र । 'सती'ति शेषः । 'ज्ञेय' इति शेषः । अयम्भाव:-'कैश्चित् .. अयमास्वाद्यते' इति प्रयोगो रसाखादयोः काल्पनिकं भेदमनुसृत्य क्रियते, 'रसः खाद्यते खयमेव' इति प्रयोगः पुनः कर्मण: कर्तृत्वविवक्षया । इति । तदू 'यत्समाधानं दत्त'मिति शेषः। उक्तमाचार्यै' रिति शेषः । किमित्याह-'प्रकाशशरीरात्प्रकाशः संवेदनं स एव शरीरं शरीरवत्स्वरूपं यस्य तस्मात् तथोक्तात् । रस्यमानतामात्रसारत्वाद्रस्यते आखाद्यत इति रस्यमानस्तस्य भावस्तत्ता, सैवेति रस्यमानतामात्रं, तदेव सारः सामाजिकैरुपादेय आहादहेतुर्यस्य तस्य भावस्तत्त्वं तस्मात्तथोक्तात् । 'हेतो' रिति शेषः । अनन्योऽभिन्नः । एव । हि। रसः। अत्र 'एव ही' त्यव्ययद्वयं तस्य सजातीयविजातीयभेदं
१२