________________
साहित्यदर्पणः ।
[ तृतीय:कश्चनान्तरो धर्मः सत्त्वम् , तस्योद्रेको रजस्तमसी अभिभूयाविर्भावः । तत्र हेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम् । 'अखण्ड' इति, 'एक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः।' अत्र हेतुं वक्ष्यामः । स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या । चिन्मय इति स्वरूपार्थे मयट् । चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्यायः, तत्प्राणत्वं चास्मद्धद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तम् । तदाह धर्मदत्तः स्वग्रन्थे
'रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ॥
तस्मादद्भुतमेवाह कृती नारायणो रसम् ।' इति । व्यापाराभावः । ज्ञानानुकूलव्यापाराश्चन्द्रियान्तःकरणयोः संयोगः । कश्चन । आन्तरोऽन्तर्भव इति तथोक्तः । धर्मः। सत्वम् । 'इति स्मृत'मिति शेषः । तस्य निरुक्तलक्षणस्य मानसिकस्य धर्मविशेषस्य । उद्रेकः । 'नामे ति शेषः। रजस्तमसी तन्नामानौ मानसधम्मौ । अभिभूय तिरस्कृत्यापसार्येति यावत् । आविर्भावः खस्वरूपेणावस्थानमित्यर्थः । प्रतिबन्धो भावेन खकार्यक्षमतयाऽवस्थानमिति भावः । तत्र तस्मिन् सात्त्वोद्रेके । तथाविधालौकिककाव्यार्थपरिशीलनं तथाविधं सत्त्वोद्रेकानुकूल्ये प्रयोजकत्वेन वर्तमानं यदलौकिकस्य काव्यार्थस्य(विभावादेः) परिशीलनमत्यन्ताभिनिवेशः । हेतुः । अखण्डः । इति । 'अस्य'ति शेषः । एकः खण्डत्वानवच्छिन्नः । एव सत्यपि विभावादेः प्रत्येकं खण्डत्वे समूहालम्बनविधया खण्डताया व्याहतत्वादिति भावः । अयं 'रस'इति शेषः । विभावादिरत्यादिप्रकाशसुखचमत्कारात्मको विभावादयश्च रत्यादयश्चेति तेषां प्रकाशः संवित् स एव सुखचमत्कारः सुखखरूपश्चमत्कार इति, स आत्मा स्वरूपं यस्येति तथोक्तः । 'इत्यर्थ इति शेषः । अत्र रसस्याखण्डत्वे । हेतुं कारणम् । वक्ष्यामः ६४ रत्यादिरित्यादिनेति शेषः । स्वप्रकाशत्वादि स्वप्रकाशत्वं चिन्मयत्वं चेत्यर्थः । अपि । वक्ष्यमाणरीत्या वक्ष्यमाणा ६४ रत्यादिरित्यादिना प्रतिपादिष्यमाणाया रीतिस्तयेति तथोक्तया। 'बोध्य'मिति शेषः । 'चिन्मय'इत्यत्रे'ति शेषः । स्वरूपार्थे स्वार्थे । 'न तु 'अन्नमय'इत्यादिवत्प्राचुर्यार्थे' इति शेषः । मयट् 'मयटच' ४।३।८२ इति विधीयमानः प्रत्यय इति भावः । चमत्कारस्त पदार्थ इत्यर्थः । चित्तविस्ताररूपश्चित्तस्य विस्तारोऽलौकिकार्थाकलनेन ज्ञानधाराजनने दीर्घप्रायस्त्वमिति, दृष्टहेतुभ्योऽसम्भवित्वज्ञानेन हेत्वनुसन्धाने व्यापारे विस्फार इति वा, स एव रूपं यस्येति तथोक्तः । विस्मयापरपायो विस्मयोऽपरः पर्सायो नाम यस्य सः । तत्प्राणत्वं तस्य चमत्कारस्य प्राणः प्राणस्वरूपस्तस्य भावस्तत्त्वमिति तथोक्तम् । च । अस्मद्भद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरस्माक वृद्धप्रपितामहास्ते एव सहृदयगोष्ठीगारष्ठा इति, ते च ये कविपण्डितमुख्या इति, ते चौमी श्रीमन्नारायणपादा इति तैस्तथोक्तैः । सहृदयानां गोष्ठी सभेति, तत्र गरिष्ठा अत्यन्तम्माननीया इति । कवयश्च पण्डिताश्चेति कवयश्चामी पण्डिता इति वा, तेषु मुख्याः । सहृदया मामिकाः । (कवयः प्रबन्धारः प्रतिभाचमत्कारिणो वा । पण्डिताः शास्त्राध्ययनजाततत्तत्तत्त्वावगमाः।) गौरवार्थ बहुवचनम् । उक्तम् । तद् यत्तैरुक्तं तदिति तस्मादिति वाऽर्थः । धर्मदत्तः । स्वग्रन्थे । आह-रसे...'इति ।
सर्वत्र सर्वस्मिन् । अपि । रसे रसपदार्थे । सारो वास्तविकं तत्त्वम् । 'सारो बले स्थिराशे च' इत्यमरः । चमत्कार आस्वादविशेषः । अनुभूयते विचारदृष्टया प्रतिपद्यते। 'सहृदयै' रिति शेषः । यद्वा-रस आस्वादे। सार आस्वादात्मतया व्यपदेश्यः । चमत्कारोऽलौकिकतया वाचामविषय आहादविशेषः । स च-सर्वत्र सर्वेषु । अपि । 'आस्वादनीयेषु पदार्थेषु' इति शेषः । किं पुनः शृंगारादौ रस इत्यर्थः । अनुभूयते । इति बोध्यम् । तच्चमत्कारसारत्वे तस्य (रसस्य) चमत्कारसारत्वमिति तस्मिन् । चमत्कारः सारः सारत्वेन स्थितो यत्र, तस्य भावस्तत्वम् । यद्वा-चमत्कार एव सारस्तत्त्वं, तस्य भावस्तत्त्वमिति । यद्वा-तत्तस्मात् कारणादित्यर्थः । चमत्कारसारत्वे चमत्कारः सारो यत्र (रसे) तस्य भावस्तत्त्वं तत्र । 'सती'ति शेषः । इति योज्यम् । सर्वत्र सर्वेषु साहित्यशास्त्रेषु रसेषु वा । अपि। अद्भुतो विलक्षणोऽनिर्वचनीय इति यावत् । रसः । इदमुक्तम्-रसश्चमत्कारमात्राजीव्य इति साहित्यशास्त्रेषु रसजातमद्भुतमिति झारादौ रसे यद्रसत्यं मददभुतमिति वा । इति । केचित्त-'सर्वत्र अव्ययपदमिदम् । सर्व इत्यर्थः । अपि ।