________________
रुचिराख्यया व्याख्यया समेतः ।
परिच्छेदः ]
अस्य स्वरूपकथनगर्भ आस्वादप्रकारः कथ्यते
३५ सत्वोद्रेकादखण्डस्व - प्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥ २२ ॥ लोकोत्तरचमत्कार- प्राणः कैश्चित्प्रमातृभिः ।
८७
स्वाकारवदभिन्नत्वे - नायमास्वाद्यते रसः ॥ २६ ॥
'रजस्तमोभ्यामस्पृष्टं मनःसत्त्वमिति स्मृतम् ।' इत्युक्तप्रकारो बाह्यमेयाविमुखताऽऽपादकः
अस्य स्वरूपनिरूपणं पुरस्कृत्यास्वादप्रकारं निरूपयितुं प्रतिजानीते- अस्येत्यादिना ।
अस्य रसस्य । स्वरूपकथनगर्भः स्वरूपकथनं गर्भेऽन्तर्यस्य स इति तथोक्तः । आस्वादप्रकार आस्वादस्यास्वादनस्य प्रकारो भेदो रीतिर्वेति तथोक्तः । 'प्रकारः कथ्यते रीतौ भेदसादृश्ययोरपि ।' इति माधवः । कथ्यते३५ सत्त्वोद्रेकादित्यादिनेति शेषः ।
३५ कैश्चित् कतिपयैर्न तु सर्वैरिति भावः 1 प्रमातृभिर्यथार्थ विद्वद्भिः । प्रमाबुद्धिशालिभिरिति भावः ( कर्तृभिः) । अयं “ विभावादिसंयोगात्सहृदयहृदये वासनारूपेण विनिविष्टो रत्यादिरेव परिणतो रस' इति निर्दिष्टस्वरूपः, अत एव सहृदयहृदयप्रमाणकतया सिद्ध इति भावः । सत्त्वोद्रेकात्सत्त्वस्योद्रेक उल्लासविशेषस्तस्मात् । तं निमित्तीकृत्येति यावत् । अत्र त्यपो लोपे पञ्चमी । अखण्डस्वप्रकाशानन्दचिन्मयोऽखण्डो धाराप्रवाहवदनवच्छिन्नोऽसौ स्वप्रकाशः स्वयं प्रकाशोऽसावानन्दः समस्त क्लेशोपरतिपुरःसरं पुण्यविशेषसम्पत्तिफलकः काव्यव्यापार भावनामात्रजन्माऽऽह्लादविशेष इति, स चासौ चिन्मयचित्स्वरूप इति तथोक्तः । चिच्च विभावादिसंवित् । यद्वा-आनन्देन चित् संविदानन्द ( कृता ) संविदित्यानन्दचित् । तन्मय आनन्दचिन्मय इति । ‘विशेषणं विशेष्येण बहुलम् । २ । १ । ५७ इति समासः । विशेषणविशेष्यभावश्च कामतारादिति न दोषः । वेद्यान्तरस्पर्शशून्योऽन्यद्भावनाविशेषोपस्थाप्याव्यतिरिक्तं वेद्यं विषय इति वेद्यान्तरं तस्य स्पर्शस्त्वचा साक्षात्कारो लक्षणायाऽनुभवस्तेन शून्यो रिक्त इति तथोक्तः । भावनाविशेषोपस्थाप्यमात्रतया भावनाविशेषोपस्थाप्याद्विषयाद् व्यतिरिक्तस्य विषयस्यानुभवाऽभूमिरित्यर्थः । ब्रह्मास्वादसहोदरो ब्रह्मास्वादस्य ब्रह्मानन्दानुभवस्य सहोदरः सदृशत्वात्सविधवर्त्तित्वाद्वेति तथोक्तः । अत एवाहु: - 'ब्रह्मास्वादे ब्रह्ममात्रं प्रकाशते, रसास्वादे तु विभावाद्यपीति भेदः । इति । इदमुक्तम्ब्रह्मास्वादो निर्विकल्पकः, अयं पुनः सविकल्पक इति । यद्वा-यत्र ब्रह्मास्वादस्तत्रैव रसास्वाद इति तत्सहोदरत्वमेतस्येति बोध्यम् । लोकोत्तरचमत्कारप्राणो लोकोत्तरचमत्कारस्य प्राणो जीवनमिति, लोकोत्तरचमत्कारः प्राणा यस्य यस्मिन्वेति वा तथोक्तः । रसः ( कर्म प. ) स्वाकारवत्स्वस्वरूप इवेत्यर्थः । यथा स्वस्माद्भिन्नोऽपि देहो - 's ध्यासवशाद् - 'अयं गौरः, अहं श्याम' इतिभेदाज्ञानं तथेति भावः । यद्वा-स्वस्य ज्ञानस्यैव । कारो घटादिस्तस्मादभिन्नोऽपि तद्विषयो बायैरङ्गीक्रियते यथा तथेत्यर्थः । अत्रेदं बोद्धव्यम् - स्वयंवेदनं तावन्मन्तव्यम्, अन्यथा जगदान्ध्यं प्रसज्येत; तथा च- स्वभिन्नप्राह्यविरहात्तत्तद्रूपा बुद्धिः स्वयमेव स्वप्रकाशिका, प्रकाशवत् । तदुक्तम्- 'नान्योऽनुभाव्यो बुद्धयाऽस्ति तत्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्य्यात्स्वयं सैव प्रकाशते ॥' इति । अस्य चायमर्थः - 'बुद्ध्याऽन्यो व्यतिरिक्तोऽनुभाव्यो नास्ति, तस्या बुद्धेरपरोऽनुभवो ( sपि ) न, ग्राह्यं विषयजातं, ग्राहकं पुनः स्वयंवेदनापरनामधेयं बुद्धितत्त्वं तयोर्वैधुर्य्यादभावात्सैव बुद्धिः स्वयं प्रकाशते इति ॥' इति । अभिन्नत्वेन । आस्वाद्यतेऽनुभाव्यत इत्यर्थः ॥२५-२६॥
अथ कारिकायां कठिनांशं सुगमयति- 'रजस्तमोभ्याम् ' ... इत्यादिना ।
'रजस्तमोभ्यां रजसा तमसा चेत्यर्थः । रजस्तावदनुत्कृष्टो मानसो धर्मः, तमः पुनर्निकृष्टतम इति बोध्यम् । अस्पृष्टं न स्पृष्टं सम्पृक्तमिति तथोक्तम् । मनश्चित्तमुपचारात्तदीयो धर्म्म इति यावत् । सत्त्वम् । इतीत्येवमित्यर्थः । 'हे' ति पाठान्तरम् । इह काव्यशास्त्रेऽस्माकं मते वा । स्मृतम् । 'उच्यते ' इति पाठान्तरम् । 'वचिस्वपियजादीना किति ।' ६।१।१५ इति सम्प्रसारणम् ।' इत्युक्तप्रकारः । ' शुद्धोदन्यादिभिरिति शेषः । बाह्यमेयविमुखता - ssपादको बाह्यानि यानि मेयानि वेद्यानि विषया इतियावत्, तेभ्यो विमुखताया आपादकः । विमुखता च ज्ञानानुकूल