________________
८६ .
साहित्यदर्पणः ।
[तृतीयःलोचनकारैः-"रसाः प्रतीयन्ते इति' ओदनं पचती' तिवद् व्यवहारः ।" इति । अत्र च-रत्यादिपदोपादानादेव स्थायित्वे प्राप्ते पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरेण्वस्थायित्वप्रतिपाद नार्थम् । ततश्च हासशोकक्रोधादयः शृङ्गारादौ व्यभिचारिण एव । तदुक्तम्-'रसावस्थः परम्भावः स्थायितां प्रतिपद्यते।' इति ।
रूपान्तरं प्राप्तो रत्यादिव रस इति स्वीक्रियते चेत् 'रसाः प्रतीयन्ते' इति व्यवहारः किम्मूलः ? न च 'प्रतीयन्ते परिणमन्तीति सचेतसा वक्तुं शक्यते, सर्वानुभवसिद्धस्यार्थस्यानपह्नवीयत्वात् । इति चेत् ? अत्रैवमभिहितमाचारित्याहतद् यदस्माभिरुक्तं 'दध्यादिन्यायेन रूपान्तरपरिणत एव रस' इतीत्यर्थः । लोचनकारैर्लोचनं तत्सादृश्येन तदाख्यया प्रसिद्धं ध्वन्यालोकस्य व्याख्यारूपं ग्रन्थं कुर्वन्तीति तैस्तथोक्तैः । अभिनवगुप्ताचारिति भावः । एतेनैतेषां मोहतमोपहर्त्तत्वं सूचितम् । उक्तं कथितं प्रतिपादितमिति भावः । 'रसाः शृङ्गारादयः । प्रतीयन्ते । इतीत्थम्भूतः । व्यवहारोऽभिधानप्रवृत्तिरिति भावः । 'ओदनं भक्तम् । 'भिस्सा स्त्री भक्तमन्धोऽनमोदनोऽस्त्री सदीदिविः ।' इत्यमरः । पचति विक्लित्तिं नयतीति भावः । इतिवदितिव्यवहारादौपचारिक इति भावः । अयम्भावः-पाकसम्पर्केण रूपान्तरतया परिणतानां तण्डुलानामोदनमिति सज्ञा, तद्वतश्च यद्यपि पाकक्रियासम्बन्धेन रूपान्तरतया परिणतत्वं न सम्भवतीति, तथाऽपि तण्डुलान् विक्लित्त्या रूपान्तरपरिणतान् सम्पादयन्नोदनसज्ञाभाजः सम्पादयतीत्यर्थकं 'तण्डुलान् पचती' त्यनभिधाय यथा 'ओदनं पचती'ति व्यवहारस्तथा प्रतीतिसम्बन्धेन रूपान्तरे परिणतानां सामाजिकवासनारूपाणां रत्यादीनां रसव्यपदेशार्हत्वेऽपि 'सामाजिकवासनामया रत्यादयः प्रतीयन्ते' इत्यनभिधाय 'रसाः प्रतीयन्ते' इति व्यवहार उपचारेण । यथोक्तं लोचनकारैः-'तनिदानभूतायाः सहृदयसंवाद्युपकृताया विभावादिसामग्र्या लोकोत्तरत्वाद्रसाः प्रतीयन्ते इति ओदनं पचतीतिवद् व्यवहारः प्रतीयमान एव हि रसः ।' इति । अत्राहुस्तर्कवागीशाः'ननु ओदनं पचतीत्यत्र पाकात् पूर्वमोदनस्यानवस्थाने क्रियानिमित्तत्वाभावेन कर्मत्वं न स्यात् । अत ओदनपदस्य तण्डुलपदे लक्षणाऽवश्यमङ्गीकर्तव्येत्यसिद्धो दृष्टान्त इति चेत् ? उद्भाव्यते तर्हि 'कटं करोती'ति दृष्टान्तो द्रष्टव्यः । 'क्रियानिमित्तं हि कारक' मिति प्रवादस्य प्रायिकत्वमिति भावः । यद्यपि रत्यादीनां नायकादिनिष्ठतया पूर्वसिद्धत्वमस्त्येव, तथाऽपि सामाजिकनिष्ठतया ज्ञानात् पूर्वमिहासत्त्वं विवक्षितम् । यथा तण्डुलानां पाकात्पूर्वमोदनत्वं नास्ति तथा रत्यादीनामपि प्रत्ययात् पूर्व रसत्वं नास्तीप्यर्थः ।' इति । वस्तुतस्तु-यथा 'ओदनं पचती' त्यादौ ओदनादिपदे तण्डलादिपदलक्षणा तथा ‘रसाः प्रतीयन्ते'त्यादावपि रसादिपदे रत्यादिपदलक्षणेति दृष्टान्तस्य सिद्धत्वम् । नच रत्यादीनां नायकादिनिष्ठत्वमात्रेण रसत्वं, किन्तु सामाजिकनिष्ठत्व एवेति रत्यादीनां रूपान्तरे परिणततया रसपदव्यपदेशाईत्वेऽपि सम्पन्ने ‘रसाः प्रतीयन्ते' इति व्यवहार ‘ओदनं पचती'ति व्यवहारवदुपचारानुगृहीत इति न काऽपि विप्रतिपत्तिः । वक्ष्यमाणया २०५ ‘रतिर्हासश्च..' इति कारिकया रत्यादीनां स्थायित्वे सम्पाद्ये किमिति पुनारह स्थायित्वेन निर्देश इति चेदेवमित्याह-अत्र । च । रत्यादिपदोपादानात् 'रत्यादि' रिति पदस्योपादानात् । एव । स्थायित्वे । प्राप्ते सिद्धे । पुनः। स्थायिपदोपादानं स्थाविपदेनोपादानं विशेषणमिति भावः। रत्यादीनाम् । अपि । रसान्तरेषु भिन्नेषु रसेषु । अस्थायित्वप्रतिपादनार्थम् । अयम्भावः-रत्यादयः शृङ्गारादिषु स्थायिन एव, अथाप्येषां स्थायित्वेन निर्देशो विफलो मा भूदिति प्रतिपादयति यस्य यो हि स्थायी स एव रसतामेति नान्य इति । तदेवाह-ततस्तस्मादत्यादीनामस्थायित्वप्रतिपादनादिति यावत् । चानन्तरम् । हासशोकक्रोधादयो हास्यकरुणरौद्रादीनां स्थायिभूता अपी'ति शेषः । शृ । शृङ्गारकरुणहासादावित्यर्थः । व्यभिचारिणः । एव न पुनः स्थायिन इति भावः । एतदेव प्राचां संवादेन द्रढयति-तद 'यदुक्त' मिति शेषः । उक्तमाचार्य' रिति शेषः । रसावस्थो रसोऽवस्था यस्य तादृशः । परं केवलम् । एवेत्यर्थो वाऽव्ययस्यानेकार्थत्वात् । तदाहुस्तर्कवागीशा:'परमिति मान्तमव्ययमेवकारार्थ' मिति । भावो रत्यादिरूप इति भावः। स्थायितां स्थायिस्वरूपत्वम् । प्रतिपद्यते । इति । अत्रेदं निष्कृष्टम्-वक्ष्यमाणैर्विभावानुभावसञ्चारिभिश्च सम्भूय सहृदयहृदये वासनारूपेण विनिविष्टो रत्यादिः स्थायी भावो दध्यादिवद्रूपान्तरं प्राप्तो रस इत्युच्यते । इति ।
१ अत्र 'तु'इत्यधिकः पाठः ।