________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। विभावादयो वक्ष्यन्ते । सात्त्विकाश्चानुभावरूपत्वान्न पृथगुक्ताः । व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसः । न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते । तदुक्तं
रस:'इत्यपरे । 'विभावादयः समुदिता रसाइति कतिपये । 'त्रिषु य एव चमत्कारी स एवं रसोऽन्यथा तु त्रयोऽपि न'इति बहवः । 'भाव्यमानो विभाव एव रसः'इत्यन्ये । 'अनुभावस्तथा तथा'इतीतरे। व्यभिचार्येव तथा तथा परिणमति' इति केचित् । तंत्र विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः'इति सूत्रं तत्तन्मतपरतया व्याख्यायते-'विभावानुभावव्यभिचारिभिः संयोगाद् व्यञ्जनाद्रसस्य चिदानन्दविशिष्टस्थाप्यात्मनः स्थाय्युपहितचिदात्मनो वा निष्पत्तिः स्वरूपेण प्रकाशनम्' इत्याये। 'विभावानुभावव्यभिचारिणां सम्यक्साधारणात्मतया योगाद्भावकत्वव्यापारेण भावनाद्रसस्य स्थाय्युपहितसत्त्वोदेकप्रकाशितस्वात्मानन्दरूपस्य निष्पत्तिभॊगाख्येन साक्षात्कारेण विषयीकृतिः । इति द्वितीये । 'विभावानुभावव्यभिचारिणां संयोगाद्भावनाविशेषरूपादोषाद्रसस्यानिर्वचनीयदुष्यन्तादिरत्याद्यात्मनो निष्पत्तिरुत्पत्तिः । इति तृतीये । 'विभावादीनां संयोगाज ज्ञानाद्रसस्य ज्ञानविशेषात्मनो निष्पत्तिरुत्पत्तिः'इति चतुर्थे । 'विभावादीनां सम्बन्धाद्रसस्य रत्यादेर्निष्पत्तिरारोपः।' इति पञ्चमे । 'विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैः संयोगादनुमानाद्रसस्य रत्यादेर्निष्पत्तिरनुमितिर्नटादौ 'पक्षे इति शेषः ।' इति षष्ठे । 'विभावादीनां त्रयाणां संयोगात् समुदायाद्रसनिष्पत्ती रसपदव्यवहारः । इति सप्तमे। 'विभावादिषु सम्यग्योगाचमत्कारात्'इत्यष्टमे । तदेवं पर्य्यवसितस्त्रिएं सूत्रविरोधः । विभावानुभावव्यभिचारिणामेकस्य तु रसान्तरसाधारणतया नियतरसव्यञ्जकताऽनुपपत्तेः । सूत्रे मिलितानामुपादानम् । एवं च-"प्रामाणिके मिलितानां व्यञ्जकत्वे यत्र क्वचिदेकस्मादेवासाधारणाद्रसोद्बोधस्तत्रेतरद्वयमाक्षेप्यम् । अतो नैकान्तिकत्व । इत्थं नानाजातीयाभिः शेषीभिर्नानारूपतयाऽवसितोऽपि मनीषिमिः परमाहादाविनाभावितया प्रतीयमानः प्रपञ्चेऽस्मिन रसो रमणीयतामावहतीति निर्विवादम् ।" इति।
अथ स्वाभिमतम्मतं दर्शयन् कारिकाथै सुगमयति-विभावादय इत्यादिना ।
विभावादयो विभाव आदौ येषां (विभावानुभावसञ्चारिणाम् ) ते तथोक्ताः । विभावानुभावसञ्चारिण इत्यर्थः । वक्ष्यन्ते ६५ रत्यायुद्धोधका-इत्यादिनेति शेषः । 'ननु विभावा अनुभावाश्च सात्त्विका व्यभिचारिणः ।' इत्यादिना 'स्तम्भः स्वेदश्च रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥' इत्यादिना च भरसाद्यभिहितानामपि सात्त्विकभावानामपि रसघटकत्वाद्रसघटकत्वेन प्रतिपादनीयत्वेऽपि कथं नैतेषां विहितं प्रतिपादनमिति चेदेवमित्याहसात्त्विकाः सत्त्वेनेमे निष्पन्ना इति तथोक्ताः । च पुनः । अनुभावरूपत्वादनुभावो रूपं येषां तेषां भावस्तत्त्वं तस्मात्तथोक्तात् । पृथक् 'अनुभावेभ्य' इति शेषः । न नैव । उक्ताः । इति । व्यक्तः 'विभावेनानुभावेन सञ्चारिणा च सम्भूय' इति शेषः । दध्यादिन्यायेन दव्यादिसादृश्यहेतुकेन मार्गेणेति भावः । रूपान्तरपरिणतो रूपान्तरमन्यस्वस्माद्भिनं रूपं परिणतं परिणमनं यस्य सः । आहिताम्न्यादित्वात्परनिपातः । यद्वा-रूपान्तरं परिणतः प्राप्त इति तथोक्तः । व्यक्तीकृतोऽव्यक्तोऽपि व्यक्तः कृतः । एव । 'रत्यादि' रिति शेषः । रसो रसपदवाच्यः । अयम्भावःयथा पयःप्रभृति तक्रादिसंयोगाद्रूपान्तरं प्रति नीतं दध्यादिव्यपदेश्यं भवति, तथा सहृदयहृदयं विनिविष्टः प्राग्वासनारूपो रत्यादि म स्थायी भावो विभावादिसंयोगाद्रूपान्तरं प्रति नीतो रस इति व्यपदिश्यते । इति । 'व्यक्तीकृत एवे' त्येवकारव्यवच्छेद्याथै दर्शयति-न । तु पुनः । दीपेन दीपकप्रकाशद्वारेत्यर्थः । पूर्वसिद्धः पूर्व सिद्धः । घटः । इव । 'रस' इति शेषः । व्यज्यते व्यजनया प्रतिबोध्यते इति भावः । ननु 'दध्यादिन्यायेन
१ 'भाव्यमान' इति शेषः । २ 'रस' इति शेषः ? ३ तथा भाव्यमानोऽनुभाव एव रसरूपतया परिणमतीतीतरेषां सिद्धान्त इति भावः । ४ 'भाव्यमान इति शेषः । ५ रसरूपतयेत्यर्थः । ६ एवमनेकजातीयेषु मतेविति शेषः । तत्र तेष्विति भावः । ७ प्रथममभिहितेऽभिनवगुप्तमते इत्यर्थः । ८ भटनायकमते । ९ नव्यमते १० परेषां मते । ५१ एकेषां मते । १२ अपरेषां मते। १३ कतिपयानां मते। १४ बहूनां मते। १५ 'अन्येषामितरेषां केषाश्चिचे'ति शेषः । १६ 'मध्ये' इति शेषः । १७ सिद्धान्तखरूपत्वम् । १८ बुद्धिभिः । १९ मनीषिभिर्बुद्धिमद्भिरवसितो निश्चितोऽपीत्यर्थः ।