________________
८४
साहित्यदर्पणः।
[ तृतीय:लासितस्य भावनाविशेषरूपस्य दोषस्य महिना कल्पितदुष्यन्तादित्वावच्छादिते स्वात्मन्यज्ञानावच्छिन्ने शुक्तिकाशकल इव रजतखण्डः समुत्पद्यमानोऽनिर्वचनीयः साक्षिभास्यशकुन्तलाऽऽदिविषयकरत्यादिरेव रसः।' अयं च कार्यों दोषविशेषस्य । नाश्यश्च तन्नाशस्य । स्वोत्तरभाविना लोकोत्तराहादेन भेदाग्रहात् सुखपदव्यपदेश्यो भवति । स्वपूर्वोपस्थितेने रत्यादिना तदग्रहात्तदतित्वेनैकत्वाध्यवसानाद्वा व्यङ्गयो वर्णनीयश्चोच्यते । अवच्छादकं दुष्यन्तत्वमप्यनिर्वचनीयमेव, अवच्छादकत्वं च रत्यादिविशिष्टबोधे विशेष्यताऽवच्छेदकत्वम् । एतेने दुष्यन्तादिनिष्ठस्य रत्यादेरनास्वाद्यत्वान्न रसत्वम् , स्वनिष्ठस्य तु तस्य शकुन्तलाऽऽदिभिरतत्सम्बन्धिभिः कथमभिव्यक्तिः ? स्वस्मिन् दुष्यन्ताद्यभेदबुद्धिस्तु बाधबुद्धिपराहतेत्यादिकमपास्तम् । यदपि विभावादीनां साधारण्य प्राचीनरुक्तं, तदपि काव्येन शकुन्तलाऽऽदिशब्दैः शकुन्तलात्वादिप्रकारकबोधजनकैः प्रतिपाद्यमानेषु शकुन्तलाऽऽदिषु दोषविशेषकल्पनं विना दुरुपपादम् । अतोऽवश्यकल्प्ये दोषविशेषे तेनैव स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरपि सूपपादा । नन्वेवमपि रतेरस्तु नाम दुष्यन्त इव सहृदयेऽपि सुखविशेषजनकता, करुणरसादिषु तु स्थायिनः शोकादेवुःखजनकतया प्रसिद्धस्य कथमिव सहृदयाहादहेतुत्वम् । प्रत्युत नायक इव सहृदयेऽपि दुःखजननस्यैवौचित्यात् । न च सत्यस्य शोकादेर्दुःखादिजनकत्वं कृतं, न कल्पितस्य; इति नायकानामेव दुःखम् , न सहृदयस्थेति वाच्यम् , रज्जुसदेर्भयकम्पाऽऽद्यनुत्पादकताऽऽपत्तेः । सहृदये रतेरपि कल्पितत्वेन सुखजनकताऽनुपपत्तेचेति चेत् ? सत्यम् , शृङ्गारप्रधानकाटोभ्य इव करुणप्रधानकाव्येभ्योऽपि यदि केवलाहाद एव सहृदयहृदयप्रमाणकस्तदा कार्यानुरोधेन कारणस्य कल्पनीयत्वाल्लोकोत्तरकाव्यव्यापारस्यैवाहादप्रयोजकत्वमिव दुःखप्रतिबन्धकत्वमपि कल्पनीयम् । अथ यद्यालाद इव दुःखमपि प्रमाणसिद्धं तदा प्रतिबन्धकत्वं न कल्पनीयम् । स्वस्वकारणवशाच्चोभयमपि भविष्यति । अथ तत्रं कवीनां कर्तुं, सहृदयानां च श्रोतुं, कथं प्रवृत्तिः ? अनिष्टसाधनत्वेन निवृत्तेरुचितत्वादिति चेत् ! इष्टस्याधिक्यादनिष्टस्य च न्यूनत्वाचन्दनलेपनादाविव प्रवृत्तेरुपपत्तेः । केवलाहीदवादिनां तु प्रवृत्तिरप्रत्यूहैव । अश्रुपातादयोपि तत्तदानब्दानुभवस्वाभाव्यात्, न तु दु:खात् ; अत एव-भगवद्भक्तानां भगवर्णनाकर्णनादश्रुपातादय उपपद्यन्ते। नहि तत्र जात्वपि' दुःखानुभवोऽस्ति । न च करुणरसादौ स्वात्मनि शोकादिमद्दशरथादितादात्म्यादेरपि यद्यालादस्तदा स्वप्नादौ सन्निपातादौ वास्वात्मनि तेदारोपेऽपि से स्यात् ।आनुभविकं च तत्र केवलं दुःखम् , इतीहापि तदेव युक्तमिति वाच्यम् । अयं हि लोकोत्तरस्य काव्यव्यापारस्य महिमा, यत्प्रयोज्यो अरमणीया अपि शोकादयः पदार्था आह्वादमलौकिकं जनयन्ति । विलक्षणो हि कमनीयः काव्यव्यापारज आस्वादः प्रमाणान्तरजादनुभवात् । जन्यत्वं च स्वजन्यभावनाजन्यरत्यादिविषयकत्वम् । तेन रसास्वादस्य काब्यव्यापाराजन्यत्वेऽपि न क्षतिः । शकुन्तलादावगम्यात्वज्ञानोत्पादस्तु स्वात्मनि दु यन्ताद्य भेद बुद्धया प्रतिबध्यते।' इत्याहुः । परेतु व्यजनव्यापारस्यानिर्वचनीयख्यातेश्वानभ्युपगमेऽपि प्रागुक्तदोषमहिम्ना स्वात्मनि दुष्यन्तादितादात्म्यावगाही शकुन्तलाऽऽदिविषयकरत्यादिमदभेदबोधो मानसः काव्यार्थभावनाजन्मा विलक्षणविषयताशाली रसः । तेन तत्र न तादृशाहादापत्तिः । एवमपि स्वस्मिन्नविद्यमानस्य रत्यादेरनुभवः कथं नाम स्यात् ? मैवम् , न ह्ययं लौकिकसाक्षात्कारो रत्यादेः, येनावश्यं विषयसद्भावोऽपेक्षणीयः स्यात् । अपि तु भ्रमः । आस्वादनस्य रसविषयकत्वव्यवहारस्तु रत्यादिविषयकत्वालम्बनः ।' इत्यपि वदन्ति । एतैश्च स्वात्मनि दुष्यन्तादित्वधर्मितावच्छेदकशकुन्तलादिविषयकरत्यादिवैशिष्टयावगाही, स्वात्मत्वविशिष्टे शकुन्तलादिविषयकरत्यादिविशिष्टदुष्यन्तादितादात्म्यावगाही, स्वात्मत्वविशिष्टे दुप्यन्तादित्वशकुन्तलादिविषयकरत्याद्योवैशिष्टयावगाही वा त्रिविधोऽपि बोधो रसपदार्थतयाऽभ्युपेयः। तत्र रतेविशेषणीभूतायाः शब्दादप्रतीतत्वाद् व्यञ्जनायाश्च तत्प्रत्यायिकाया अनभ्युपगमाच्चेष्टाऽऽदिलिङ्गकमादौ विशेषणज्ञानार्थमनुमानमभ्युपेयम् । मुख्यतया दुष्यन्तादिगत एव रसो रत्यादिः कमनीयविभावाद्यभिनय. प्रदर्शनकोविदे दुष्यन्ताद्यनुकरि नटे समारोप्य साक्षात् क्रियते' इत्येके । मतेऽस्मिन् साक्षात्कारो दुष्यन्तोऽयं शकुन्तलादिविषयकरतिमानित्यादिः प्राग्वद्धय॑शे लौकिकः, आरोग्यांशे त्वलौकिकः । 'दुष्यन्तादिगतो रत्यादिर्नटे पक्ष दुष्यन्तादित्वेन गृहीते विभावादिभिः कृत्रिमैरप्यकृत्रिमतया गृहीतैर्भिन्ने विषयेऽनुमितिसामय्या बलवत्त्वादनुमीयमानो
१ दोषविशेषनाशस्य । २ दुष्यन्तादौ गृहीतशकुन्तलाऽऽदिरत्यादिना । ३ भेदाग्रहात् । ४ उक्तरीत्या सर्वोपपादनेन । ५ रत्यादेः । ६ सुरतकालिकदन्ताद्याघातस्येवेति शेषः । ७ करुणप्रधानकाव्ये । ८ प्रथममतपातिनाम् । ९ कदाचिदपि किञ्चिदपीति वा भावः । १० शोकादिमद्दशरथादितादात्म्यारोपेऽपीति भावः । ११ आहादः । १२ काव्यव्यापारप्रयोज्याः। १३ ‘परे तु' इत्युक्तसिद्धान्तपातिभिरिति भावः ।