________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
८३
उपचयैते । वर्णनित्यतायामित्र व्यञ्जकताल्वादिव्यापारस्य गकारादौ विभावादिचर्वणाऽवधित्वादावरणभङ्गस्य निवृत्तायां तस्य प्रकाशस्यावृतत्वाद् विद्यमानोऽपि स्थायी न प्रकाशते । यद्वा - विभावादिचर्वणामहिम्ना सहृदयस्य निजसहृदयतोन्मिषितेन तत्तत्स्थाय्युपहितस्वरूपानन्दाकारा समाधाविव योगिनश्चित्तवृत्तिरुपजायते । तन्मयीभवनैमिति यावत् । आनन्दोत्ययं न लौकिकसुखान्तरसाधारण:, अनन्तःकरणवृत्तिरूपत्वात् । इत्थं चाभिनवगुप्तमम्मटभादिग्रन्थस्वारस्येन भग्नावरणचिद्विशिष्टो रत्यादिः स्थायी भावो रस इति स्थितम् । वस्तुतस्तु वक्ष्यमाणश्रुतिस्वारस्येन रत्यायवच्छिन्नाभमावरणा चिदेव रसः । रत्याद्यंशमादाय तु अनित्यत्वभितरभास्यत्वं च । चर्वणा चास्य चिगतावरणभङ्ग एव प्रागुक्ता, तदाकारान्तःकरणवृत्तिर्वा । इयं च परमब्रह्मास्वादात्समाधेर्विलक्षणां विभावादिविषयसंवलितचिदानन्दालम्बनत्वात् । भाव्या च काव्यव्यापारमात्रात् । अथास्यां सुखांशभाने किं मानमिति चेत् ! समाधावपि तद्भाने किं मानमिति पर्यनुयोगस्य तुल्यत्वात् । 'सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।' इत्यादिशब्दोऽस्ति तत्र मानमिति चेत्, अस्त्यत्रापि 'सोवै सः, रसं ह्येवायं लब्ध्वाऽऽनन्दीभवति ।' इति श्रुती, सकलसहृदय प्रत्यक्षं चेति प्रमाणद्वयम् । येयं द्वितीपक्षे तदाकार चित्तवृत्त्यात्मिका रसचर्वणोपन्यस्ता सा शब्दव्यापारभाव्यत्वाच्छाब्दी, अपरोक्षसुखालम्बनत्वादपरोक्षात्मिका । तवं च वाक्यजबुद्धिवत् । इत्याहुरभिनवगुप्तपादाः । भट्टनायकास्तु- 'ताटस्थ्येन रसप्रतीतावनास्वाद्यत्वम् । आत्मगतत्वेन तु प्रत्ययो दुर्घटः । शकुन्तलाssदीनां सामाजिकप्रत्ययविभावत्वात् । विना विभावमनालम्बनस्य रसादेरप्रतीतेः । न च कान्तात्वं साधारणविभावताऽवच्छेदकमत्राप्यस्तीति वाच्यम् । अप्रामाण्यनिश्चयानालिङ्गितागम्यात्वप्रकारकज्ञानविरहस्य विशेष्यतासम्बन्धावच्छिन्न प्रतियोगिताकस्य विभावताऽवच्छेदककोटाववश्यं निवेश्यत्वात् । अन्यथा स्वस्रादेरपि कान्तात्वादिना तत्त्वापतेः । एवमैशोच्यत्वकापुरुषत्वादिज्ञानविरहस्य तथाविधस्ये करुणरसादौ । तादृशज्ञानानुत्पादस्तु तत्प्रतिबन्धकान्तर निर्वचनमन्तरेण दुरुपपादः । स्वात्मनि दुष्यन्ताद्यभेदबुद्धिरेव तथेति चेत्, न । नायके धराधौरेयत्वधीरत्वादेरात्मनि चाधुनिकत्वकापुरुषत्वादेर्वैधर्म्यस्य स्फुटं प्रतिपत्तेरभेदबोधस्यैव दुर्लभत्वात् । किंच - केयं प्रतीतिः ? प्रमाणान्तरानुपस्थानाच्छाब्दीति चेत्, न व्यावहारिकशब्दान्तरजन्यनायक मिथुनवृत्तान्तवित्तीनमिवास्या अप्यहृद्यत्वापत्तेः, नापि मानसी, चिन्तोपनीतानां तेषामेव पदार्थानां मानस्याः प्रतीतेरस्या वैलक्षण्योपलम्भात् । नच स्मृतिः, तथा प्रागननुभवात् । तस्मादभिधया निवेदिताः पदार्थों भावकत्वव्यापारेणागम्यात्वादिरस विरोधिज्ञानप्रतिबन्धद्वारा कान्तात्वादिरसानुकूलधर्मपुरस्कारेणवस्थाप्यन्ते । एवं साधारणीकृतेषु दुष्यन्तशकुन्तलादेशकालवयोsवस्थाssदिषु पङ्गौ" पूर्वव्यापारमहिमनि तृतीयस्य भोगकृत्त्वव्यापारस्य महिना निगीर्णयो रजस्तमसोरु' द्वितसत्त्वजनितेने निजचित्स्वभावनिर्वृतिविश्रान्तिलक्षणेन साक्षात्कारेण विषयीकृतो भावनोपनीतः साधारणात्मा रत्यादिः स्थायी रसः । तत्र भुज्यमानो रत्यादिः, रत्यादिभोगो वेत्युभयमेव रसः । सोऽयं भोगो विषयसंवलनाद्ब्रह्मास्वादसविधवर्त्तीत्युच्यते । एवं च त्रयो ऽशाः काव्यस्य । ‘अभिधा भावना चैव तद्भोगी कृतिरेव च ।' इत्याहुः । मतस्यैतस्य पूर्वस्मान्मताद्भावकत्वव्यापारान्तरस्वीकार एव विशेषः, भोगस्तु व्यक्तिः, भोगकृत्त्वं तु व्यजनादविशिष्टम्, अन्या तु सैव सरणिः । नव्यास्तु - 'काव्ये नाटये च कविना नटेन च प्रकाशितेषु विभावादिषु व्यञ्जनव्यापारेण दुष्यन्तादौ शकुन्तलादिरतौ गृहीतायामनन्तरं च सहृदयतो
१ आवरणभङ्गस्य विभावादिचर्वणाऽवधित्वादित्यन्वयः । २ विभावादिचर्वणायामित्यर्थः । ३ परब्रह्मास्वादसमाधौ यथा परब्रह्माकारान्तर्वृत्तिस्तथाऽऽलम्बनाकारेति भावः । ४ तस्यालम्बनस्य य आकारस्तद्वत्तत्स्वरूपाऽसावन्तः करणवृत्तिरिति तथोक्ता । तदा आलम्बनरूपेणान्तःकरणवृत्तिः परिणमते इति भावः । ५ भिन्ना । ६ तदुभयात्मकत्वम् । शाब्दीत्वमपरोक्षात्मिकात्वं चेति यावत् । ७ स्वसम्बन्धराहित्येनेत्यर्थः । ८ अनाधारस्येत्यर्थः । ९ वेषेऽपीति भावः । १० आलम्बनविभावस्वरूपत्वापत्तेः । ११ उक्तरीत्या । १२ विशेष्यतासम्बन्धावच्छिन्नप्रतियोगिताकस्य । १३ अप्रामाण्यनिश्चयानालिङ्गितागम्यात्वप्रकारकज्ञानानुत्पत्तिरिति भावः । १४ काव्यान्यव्यवहारसाधकशब्दजन्यनायिकानायकवृत्तान्तज्ञानानामित्यर्थः । १५ निरुक्तशब्दाप्रतीतेरपीत्यर्थः । १६ कान्तात्वादिरूपो यो रसानुकूलो धर्म्मस्तस्य पुरस्कारो वैशिष्टयं तेन । १७ उक्तव्यापारेणेत्यर्थः । १८ 'सती 'ति शेषः । १९ 'सतो' रिति शेषः । २० रजस्तमसी अभिभूयावस्थितेन सत्त्वेन जनितस्तेनेत्यर्थः । २१ सम्बन्धिविशेषानवच्छिन्न इत्यर्थः । २२ असौ च सत्त्वोद्रेकात्प्रकाशते य आनन्दस्तत्स्वरूपानन्यालम्बना या संवित् तत्स्वरूपः । लौकिकसुखानुभवाद् विलक्षण इति यावत् ।