________________
८२
अथ कोऽयं रस इत्युच्यते
साहित्यदर्पणः ।
तृतीयः परिच्छेदः ।
३४ विभावेनानुभावेन व्यक्तः सञ्चारिणा तथा । रसतामेति रत्यादिः स्थायी भावः सचेतसाम् ॥ २४ ॥
सनिर्विण्णत्वाद्यैः सुमहदनुभावैकविषयैर्विशिष्टैर्भावैः परमधिगतः स्यात्सुकृतिनाम् । तमेवं विज्ञेयं कमपि कमनीयं सुमधुरं प्रसादाद्याधारं स्वयमिति विभाव्य प्रणिदधे ॥
[ तृतीयः
१
एवं वाक्यस्वरूपं निरूप्य रसखरूपं निरूपयितुं तृतीयं परिच्छेदमारभते - अथेत्यादिना ।
अथ वाक्यस्वरूपनिरूपणानन्तरम् । कः किंस्वरूपः । अयं वाक्यशरीरस्य काव्यस्य साक्षादात्मभूतः । रसो रस्त आस्वाद्यत इति तथोक्तः, अत एवास्वादात्मना सामान्येन निर्दिष्टोऽपि स्फुटं निर्देश्य इति भावः । 'अस्ती 'ति शेषः । इतीत्येवं स्थिताविति भावः । उच्यते लक्षणया स्फुटं प्रत्याय्यते - ३४ विभावेनेत्यादिना ।
३४ विभावेन विभावयति विशिष्टात्मना भावनामास्वादयोग्यतां नयतीति तेन तथोक्तेन । भावना च - रत्यादी - नामेव । कारणं चोत्पादनापरपर्य्यायमालम्बनं निमित्तापरपर्य्यायं चोद्दीपनमिति द्विविधम् । तथा च - रत्यादीनां भावया आस्वादयोग्यताऽऽनयने कारणभूतो यः, तेनालम्बनोद्दीपनात्मकतया द्विविधेन विभावपदबोध्येनेति निष्कृष्टम् । अनुभावेनानुभावयति वासनारूपेणावस्थितान् रत्यादीन् स्फुटमिति तेन, अनुभवनं वासनाऽऽत्मनाऽवस्थितानां रत्यादीनां कार्यात्मना परिणमनं तेनेति वा । तथाच - स्तम्भस्वेदादिरूपतया सात्त्विकेन कटाक्षपातादिरूपतया चासात्त्विकेन त्यादीनां कार्यात्मना परिणामेनेति निष्कृष्टम् । तथा । सञ्चारिणा सम्यक् सर्वाङ्गव्यापितया कार्य्यजनने आनुकूल्येनेति यावत्, चरतीत्येवंशीलस्तेन तथोक्तेन । सहकारिणेति भावः । अत्र सहार्थे द्योत्ये तृतीया । तेन सम्भूयेति फलि - तम् । अत एवाहुः प्रदीपकाराः - ' नन्वेवं स्थायिविभावादिसमूहालम्बनात्मिका रसस्य प्रतीतिरिति पर्य्यवसन्नम्, तच्च न युक्तम्, विभावादीनां पार्थक्येन प्रतीतिप्रसङ्गात्, 'घटपटा' विति समूहालम्बनवदिति चेन्न, पानकरसन्यायेन चर्वणात् । यथा पानके कर्पूराद्यंशो न पार्थक्येनानुभूयते, तथाऽत्रापि विभावाद्यंशः ।' इति । व्यक्तो व्यञ्जितो व्यक्त्याख्यया वृत्त्या प्रतिपत्तिं नीत इत्येके, भग्नावरणया चिदा विषयीकृत इत्यपरे प्राहुः । सचेतसां चेतसा परिपक्ववृत्तिकेन चित्तेन सहिता इति तेषां तथोक्तानाम् । रत्यादिः । स्थायी । भावश्चिदवच्छिन्न इत्येके, तेदवच्छिन्नं चैतन्यमित्यपरे प्राहुः । रसतां रसस्वरूपत्वम् । एति प्रतिपद्यते ॥ २४ ॥
अत्राहुर्गङ्गाधरकारा :- "समुचितललितसन्निवेशचारुणा काव्येन समर्पितैः सहृदयहृदयं प्रविटैस्तदीयसहृदयता सहकृतेन भावनाविशेषमहिम्ना विगलितदुष्यन्तरमणीयत्वादिभिरलौकिक विभावानुभावव्यभिचारिशब्दव्यपदेश्यैः शकुन्तलाssदिभिरालम्बनकारणैश्चन्द्रिकाऽऽदिभिरुद्दीपनकारणैरश्रुपातादिभिः काय्र्यैश्चिन्ताऽऽदिभिः सहकारिभिश्व सम्भूय प्रादुर्भावितेनालौकिकेनै व्यापारेण तत्कालनिवर्तितानन्दांशावरणाज्ञानेनात एव प्रमुष्टपरिमितप्रमातृत्वादिनिजधर्मेण प्रमात्रा स्वप्रकाशतया निजस्वरूपानन्देन सह गोचरीक्रियमाणः प्राविनिविश्र्वासनारूपो रत्यादिरेव रसः । तथा चाहुः - "व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ।" इति । व्यक्तो व्यक्तिविषयीकृतः । व्यक्तिश्च भग्नावरणा चित् । यथाहिशरावादिना पिहितो दीपस्तन्निवृत्तौ सन्निहितान् पदार्थान् प्रकाशयति, स्वयं च प्रकाशते, एवमात्मचैतन्यं विभावादिसंवलितान् रत्यादीन्, अन्तःकरणधर्माणां साक्षिभास्यत्वाभ्युपगतेः । विभावादीनामपि स्वप्रतुरगादीनामिव रङ्गरजतादीनाम साक्षिभास्यत्वमविरुद्धम् । व्यञ्जकविभावादिचर्वणाया आवरणभङ्गस्यै चोत्पत्तिविनाशाभ्यामुत्पत्तिविनाशौ रस
१ तेन रत्यादिस्थायिभावेनावच्छिन्नमिति तथोक्तम् । २ अनिर्वचनीयतया दिव्येन । ३ प्रतिबन्ध कृतानिवृत्तेः ।