________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
इति साहित्यदर्पणे वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः ।
भवताऽपि न स्वीक्रियते ! इति चेत् ? अत्राहुः प्रकाशकारी : - 'वाध्य एव वाक्यार्थः । ' इति । अयम्भावः - अस्त्येव अन्वयरूपे वाक्यार्थेऽपि पदानां शक्तिः । व्यवहारेणान्वितस्यैवोपस्थापनात्, तत्रैव शक्तिग्रहात् । तथा हि- 'देवदत्त ! गामानय' इत्युत्तमवृद्धप्रयोगात् सास्नाऽऽदिमतीं व्यक्ति मध्यमवृद्धे उपस्थापयति सति तचेष्टया तस्य वाक्यस्य तदर्थबोधकतामवगम्य पश्चात् 'गां नय, अश्वमानय' इति प्रयोगे गवापनयनमश्वोपस्थापनं चावलोक्य बालोऽन्वयव्यतिरेकाभ्यां कारकपदार्थस्य क्रियापदार्थान्विते कारके, क्रियापदस्य च कारकपदार्थान्वितायां क्रियायां शक्तिमवधारयति । ततः प्रयोगावसर एव तस्यान्वितबुद्धिर्जायते । न च गौरवेणान्वयांशपरिहारः, प्रथमगृहीतान्वयशक्तेः उपजीव्यतया तदपारेत्यागात् । शाब्दबोधे तु योग्यताऽऽदिवशात् वृत्तिताऽऽदिविशेषरूपमेव भासत इति नापदार्थो वाक्यार्थः इति । सिद्धान्तश्चायं मीमांसकगुरूणाम्, अत एव - 'पदानि अन्वितानि भूत्वा विशिष्टमर्थं बोधयन्ती 'ति वदतामन्विताभिधानवादितयैषां स्थाने प्रसिद्धिः । ननु कथमेतेषामपि मतं न दर्शितम्, कथं वा तेषामेवेति चेत् ? नेदं रुचिरम्, अन्वितत्वेम शक्तावपि अन्वय विशेषावगमाय योग्यताऽऽकाङ्क्षाऽऽदिरूपस्य कारणस्यावश्यमङ्गीकार्य्यत्वात् । एवं चैतैरपि विशेषा+ कारण शक्यस्यैव भानमित्यवश्यमभ्युपेयम् । ननु कस्तर्हि सिद्धान्तः ? इति चेत् ? यद्यपि व्यवहारेण प्रथमत एवान्वितानां पदार्थानामुपस्थानम् इति वक्तुं युज्यते, तथाऽपि योग्यताऽऽदिरूपस्य कारणस्यावश्यं स्वीकार्यत्वे तात्पर्याख्यैव वृत्तिरन्या स्वीकाय । इत्यभिप्रायेणैव कविराजा मीमांसकगुरूणां सिद्धान्तमुपेक्ष्य प्राचीन नैयायिकानामेव सिद्धान्तं . न्यस्तवन्तः किन्तु तेषां मुदे एतस्य परकीयतयाऽभिधानम् इति हृदयम् । इति दिक् ।
एवं वाक्यस्वरूपं निरूप्य प्रकरणसमाप्तिं निर्दिशति - इतीत्यादिना ।
इति समाप्तः । साहित्यदर्पणे 'श्रीविश्वनाथकविराजकृत' इति शेषः । वाक्यस्वरूपनिरूपणो वाक्यस्य स्वरूपं लक्षणं तस्य निरूपणं यत्र तादृशः । अत्र व्यधिकरणो बहुव्रीहिः । यद्वा-वाक्यखरूपं निरूपयतीति तथोक्त' । नाम । द्वितीयः । परिच्छेदः ।
अनभिधेयमलक्ष्यमबोध्यमप्रतिकृतिं प्रकृतेः परमद्वयम् । प्रतिपदं प्रथितामलवैभवं विभवदं भवदंशहरं भजे ॥ २ ॥
८१
इति श्रीभारद्वाजगोत्रप्रभूतेन सहृदयशिरोमणि श्रीशिवनाथसूरिसूनुना कविरत्नेन श्री शिवदत्तशर्म॑णा विनिर्मितायां रुचिराऽभिधेयायां साहित्यदर्पणव्याख्यायां द्वितीयः परिच्छेदः ।