________________
साहित्यदर्पणः।
[द्वितीयः३२ अभिधाऽदित्रयोपाधि-वैशिष्टयात् त्रिविधो मतः ।
शब्दोऽपि वाचकस्तद्व-लक्षको व्यञ्जकस्तथा ॥ २२ ॥ अभिधोपाधिको वाचकः, लक्षणोपाधिको लक्षकः, व्यञ्जनोपाधिको व्यञ्जकश्च । किश्च
३३ तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।
तात्पार्थं तदर्थ, च वाक्यं तद्बोधकं परे ॥ २३ ॥ अभिधाया एकैकपदार्थबोधनविरामाद् वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पर्य नाम वृत्तिः । तदर्थश्च तात्पर्य्यार्थः, तद्धोधकं च वाक्यम् ; इत्यभिहितान्वयवादिनां मतम् ।
ननु ११ अर्थो वाच्यश्च लक्ष्यश्चेत्यादिनाऽर्थस्य त्रैविध्यं पूर्वमुक्तम् , किन्तु शब्दस्य कतिविधत्वम् ? इत्याशङ्कामपहरति-३२ अभिधाऽऽदि.. इत्यादिना ।
__३३ अभिधाऽदित्रयोपाधिवैशिष्ट्यात् अभिधाऽऽदीनामभिधालक्षणाव्यञ्जनानां त्रयं तदेवोपाधिस्तस्य वैशिष्टयं तस्मात् । शब्दः । अपि न केवलमर्थ इति भावः । वाचकः । तद्वत् । लक्षकः। तथा । व्यअकः । 'इत्येव' मिति शेषः । त्रिविधः। मतः ॥ २२ ॥
तदेव निर्दिशति-अभिधोपाधिक इत्यादिना । स्पष्टम् ।
अभिधाऽऽदिवृत्त्या शब्दैः प्रत्येक पदार्था उपस्थाप्यन्ते, तेषां च संस! वाक्याद्भासमानोऽपि न वृत्तिमन्तरेण सङ्गच्छते, तदन्या काऽपि वृत्तिः स्वीकार्य्या ? इत्याशङ्कायामाह-किश्चेति ।
किञ्च अन्यदपि बोद्धव्यमिति भावः । किं तदित्याह-३३ तात्पर्य्याख्यामित्यादि ।
३३ परेऽन्येभिहितान्वयवादिन इति यावत् । एतेनात्मन औदासीन्यं सूचितम् । पदार्थान्वयबोधने पदानां 'गामानये' त्यादौ 'गा' मित्यादीनामा अभिधया प्रतिपाद्यमानाः सास्नाऽऽदिमदादिरूपास्तेषामन्वयो योग्यत्वादिनाऽन्योऽन्यं संसर्गस्तस्य बोधनं तत्र तन्निमित्तमित्यर्थः । निमित्ते सप्तमीयम् । तात्पर्य्याख्यां तात्पर्य्यमाख्यातीति ताम् । तस्मिन्नभिहिते वाक्ये परा योग्यत्वादिनाऽन्वयबोधनार्थ संसक्तेति तस्या भावस्तात्पर्य्यम् । भावे प्यञ् । वृत्तिम् । आहः तदर्थ । तस्यास्तात्पर्याख्यवृत्तेरथः प्रतिपाद्योऽर्थस्तं तथोक्तम् । तात्पर्य्यार्थम् । च 'आहुः' इति अनुवर्तते । ननु केनेयं बोधयतीत्याह-तरोधकं तस्य तात्पर्य्यार्थस्य बोधकं तत्तथोक्तम् । 'चे' ति देहलीदीपकन्यायेनानुषज्यते । वाक्यम् । 'आहुः' इति पूर्वतोऽनुवृत्तम् ॥ २३ ॥
तदेवाह-अभिधाया इत्यादिना।
अभिधाया अभिधावृत्तेरुपलक्षणेन लक्षणावृत्तेर्व्यञ्जनावृत्तेश्वेत्यर्थः । एकैकपदार्थबोधनविरामात स्वस्वबोध्यतत्तत्पदार्थानामनन्विततया बोधनानन्तरं विरामादिति भावः । वाक्यार्थरूपस्य । पदार्थान्वयस्य पदानामन्वितार्थस्य । बोधिका । तात्पर्यम् । नाम । वृत्तिः। तदर्थस्तत्प्रतिपाद्योऽर्थः । च । तात्पर्य्यार्थः। तद्बोधकं । तस्य तात्पर्य्यार्थस्य बोधकमित्यर्थः । वाक्यम् । इति । एवम्भूतमित्यर्थः । अभिहितान्वयवादिनामभिहितानाम् अभिधया लक्षणया व्यञ्जनया वा वृत्त्योपस्थापितानां तेषां पदार्थानामन्वयस्तात्पर्य्यवृत्त्या वाक्येन संसर्गस्तं वदन्तीत्येवंशीलास्तेषां तथोक्तानाम्, प्राचीननैयायिकानामित्यर्थः । मतम् । 'अस्ती' ति शेषः । अयम्भावः-लाघवात्पदानां पदार्थमात्रे शक्तिः, न तु अन्वयांशेऽपि गौणत्वात् , अनन्यलभ्यत्वाच्च । अन्वयांशो हि वाच्यादिविसदशशरीरो योग्यताऽऽकाइक्षाऽऽसत्तिवशात् प्रतीयमानोऽप्यपदार्थः । तथा च 'घटं करोति' इत्यत्र घटवृत्तिकर्मत्वानुकूला कृतिरिति बोधः, तत्र घटपदस्य घटपदार्थः, अम्-प्रत्ययस्य च कर्मता, वृत्तिता पुनर्न कस्यापि; इत्यवश्यं वृत्त्यन्तरस्वीकार्ये 'तात्पर्य' मित्याल्यैषपतिः स्वीकार्य्या, तशादेव संसर्गोपपत्तेः । इत्यभिहितान्वयवादिनः प्राहः । नन्वेवं यदि ? तत्कथं