________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । प्रकृतिप्रत्ययादीनां तु व्यञ्जकत्वं प्रपञ्चयिष्यते ।
३१ शब्दबोध्यो व्यनत्यर्थः शब्दोऽप्यर्थान्तराश्रयः।
एकस्य व्यञ्जकत्वे त-दन्यस्य सहकारिता ॥ २१॥ यतः शब्दो व्यञ्जकत्वेऽर्थान्तरमपेक्षते, अर्थश्च शब्दम्, तत् एकस्य व्यञ्जकत्वे अन्यस्य सहकारिता अवश्यमङ्गीकर्तव्या।
ननु व्यञ्जनास्वरूपनिरूपणप्रस्तावे प्रकृतिप्रत्ययादीनामपि व्यञ्जना स्वीकृता, किन्तु तेषां कथं पुनयंजकत्वमिति नोदीरितमित्यतआह-प्रकृति...इत्यादि ।।
प्रकृतिप्रत्ययादीनाम् । आदिना निपातादीनां ग्रहणम् । तु । व्यञ्जकत्वम् । प्रपञ्चयिष्यते प्रपत्र्य प्रदर्शयिव्यते । इदं बोध्यम्-यद्यपि-'न्यक्कारो ह्ययमेव...'इत्यादौ प्रकृतिप्रत्ययादीनां व्यञ्जकत्वं तदुदाहरतोदाहृतमेव, तथाऽपि तस्य प्रकरणान्तरीयतया, एषां च विविच्योदाहरणेषु चमत्कारातिशय इति तथा प्रतिजानीते । शाब्दया व्यजनायाः प्रकृत्यादिव्यन्जनाया भेदस्तु गोबलीवर्दन्यायेन । इति ।
ननु दुर्गालसितविग्रहो'इत्यादौ शाब्दयामार्थ्याः 'कालो मधुः...'इत्यादावार्थ्यां पुनः शाब्दद्या व्यजनायाः प्रतीतिस्तत कथं तस्यास्तस्यास्तद्व्यपदेशभाक्त्वम् ? इत्याशङ्कामपनुदति-३१ शब्दबोध्यो...इत्यादिना ।
___ ३१ शब्दबोध्यः शब्दस्य शब्देन वा बोध्यः प्रतिपाद्य इति तथोक्तः । अर्थस्य साब्दत्वानतिरेकात् इदमुक्तम् । अर्थः । व्यनक्ति संयोगाद्यनियन्त्रितमर्थं प्रत्याययतीति भावः । एवम्-शब्दः । अपि । अर्थान्तराश्रयो व्यञ्जनीयार्थभिन्नार्थमाश्रित इति भावः । 'स' निति शेषः । 'व्यनक्ती'ति पूर्वतोऽन्वेति । एकस्य शब्दार्थयोरन्यतरस्य शब्दस्यार्थस्य वेति यावत् । व्यञ्जकत्वे । सतिसप्तमीयम् । तत् तस्मात् व्यञ्जकादित्यर्थः । अन्यस्य भिन्नस्य । सहकारिता सहायकत्वमुपकारित्वमिति यावत् । 'मतेति शेषः । अयम्भाव:-शब्दार्थयोः परस्परं प्रतिपाद्यप्रतिपादकात्मा सम्बन्धः, तत्-शब्दप्रतिपाद्यस्यार्थस्य यद् व्यञ्जकत्वं, तत् शब्दाश्रितमेव, अर्थप्रतिपादकस्यैवंशब्दस्य यद् व्यञ्जकत्वं, तत् शब्दाश्रितमेव; शब्दाश्रयमन्तराऽर्थस्यार्थाश्रयममन्तरा च शब्दस्य व्यञ्जकत्वानुपपत्तेः । एष विशेष:शब्दो यदा व्यङ्क्ते तदा शब्दस्य, अर्थो यदा तदाऽर्थस्य प्राधान्यम् , अन्यत्रान्यस्य साचिव्यमेव । प्राधान्यं चाव्यवहितोपकारित्वम्, एवं च यत्र यस्य प्राधान्यं तत्र तत्सम्बन्धित्वेनैव व्यवहारः, स्थाने चैवं 'दुर्गालघितविग्रहो..' इत्यादौ व्यञ्जनायाः शाब्दीत्वम् , अपरत्रार्थीत्वं च, 'प्राधान्येन व्यपदेशा भवन्ती'ति सिद्धान्तात् । इति ॥ २१ ॥
तदेव विवृणोति-यत इत्यादिना।
यतः यस्मात् कारणादित्यर्थः । शब्दः । व्यञ्जकत्वे व्यञ्जकत्वावस्थायाम् । अर्थान्तरमन्यो व्यञ्जनीयादिन्नोऽर्थ इति तत्तथोक्तम् । मयूरव्यंसकत्वादित्वात् निपातनात्साधु । अपेक्षते साचिव्येन कामयते तत्साहाय्यमभिलषतीति यावत् । अर्थः । अपि 'व्यञ्जकत्वे' इति पूर्वतोऽनुवृत्तम् । शब्दम् एकवृन्तगतफलद्वयनयेन यस्य स्वयं प्रतिपाद्यस्तमिति भावः । 'अपेक्षते' इति पूर्वतोऽन्वेति । तत् । एकस्य शब्दार्थयोरेकतरस्येति भावः । व्यञ्जकत्वे । सतिसप्तमीयम् । अन्यस्य । सहकारिता साहाय्यम् । अवश्यम् । अङ्गीकर्तव्या । इदमुक्तम्शब्दो यदा यं कमपि अर्थमभिव्यक्ते तदा तद्भिन्नमथेमाश्रित्य, अर्थव यदाऽथोऽभिव्यक्ते तदा कश्चित् शब्दमा श्रित्यैव, असहायस्य तस्यतस्य खरूपत एवानुपलम्भे व्यञ्जकत्वस्य दवीयस्त्वात् । 'प्राधान्येन व्यपदेशा भवन्ती' ति न्यायेन यत्र शब्दस्य व्यञ्जकत्वे प्राधान्यं तत्र तत् शाब्दम्, अर्थस्य यत्र प्राधान्यं तत्र तदार्थम् । ननु नाटकादौ वेशाभिनयादेरपि व्यजकत्वमिति कथं शब्दार्थयोरेव व्यञ्जकत्वम्? इति चेत् ! तत्रापि शब्दोपहितार्थस्यैव व्यञ्जकत्वात् , वेशाभिनयादेस्तु चेष्टाऽऽदिरूपवैशिष्टयमात्रसाचिव्योपपत्तेः । तस्य शाब्दत्वेऽपि वेशाभिनयत्वव्यपदेशः प्राधान्यात् । इति ।