________________
७८
साहित्यदर्पणः।
[द्वितीयःएवं धक्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यम् ।
३० त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ॥ २० ॥ अर्थानां वाच्यलक्ष्यव्यङ्यत्वेन विरूपतया सर्वा अपि अनन्तरोक्ता व्यञ्जनास्त्रिविधाः ।
तत्र वाच्यार्थस्य व्यञ्जना यथा-'कालो मधुः...' इत्यादौ । लक्ष्यार्थस्य यथा-'निःशेषच्युत चन्दनं..' इत्यादौ । व्यङ्ग्यार्थस्य यथा-'उअ णिच्चलणिफंदा...'इत्यादौ ।
इत्यत्रास्मिन्नुदाहृते पद्ये इति यावत् । कयाचित् अज्ञाताभिधानया विचक्षणविलक्षणया नायिकयेत्यर्थः । (कर्त्या)। पद्मनिमीलनादिचेष्टया। आदिना नेत्रशितग्रहणम् , (साधनेन) 'सन्ध्या 'सायङ्कालभवेति' शेषः । सङ्केतकाल: सङ्केतस्यावयोः सङ्गमस्थानस्योपचारात् सङ्गमस्य कालोऽवसरः ।' इति । 'विटमुद्दिश्ये' ति शेषः । द्योत्यते। इदं च बोध्यम्-'चेष्टाऽऽदिकस्थे' त्यत्रादिपदेन चेष्टाविरहस्य ग्रहणम् , तद्वैशिष्टये यथा-'नादत्ते भूषणं दत्तं नाहूता चिरमृच्छति। मृगाक्षी न क्षिपत्यक्षि सादरं मयि पश्यति ॥' इति । अत्र हि कोपोऽभिव्यज्यते ।
ननु वक्रादीनां केषाञ्चित् समस्तानां वैशिष्टये कस्यचित् पुनर्व्यस्तस्य वैशिष्टये व्यञ्जनैवमुदाहृतेति कियतां समस्तानां कियतां पुनर्व्यस्तानां वैशिष्टये व्यञ्जनेति नियमोऽस्ति न वेत्याकाङ्क्षायां, नैवंविधो नियमः, किन्तु यथासंभवमेवेत्यभिप्रायेणाह-एवमित्यादि।
___ एवं यथा कियतां व्यस्तानां, कियतां च समस्तानां वैशिष्टये व्यञ्जनोदाहृता, तथेति भावः । वक्रादीनाम् । व्यस्तसमस्तानां व्यस्ताश्च समस्ताश्चेति तेषाम् । वैशिष्टये । सतिसप्तमीयम् । बोद्धव्यम् । अत्र सामान्यविवक्षया नपुंसकत्वम् । इदं बोध्यम्-वक्रादीनां प्रत्येकं वैशिष्टयं व्यस्तवैशिष्टयम् , द्वियादिसङ्कीर्ण वैशिष्टयं समस्तवैशिष्टयम् । तत्र प्रत्येकं यथोदाहृता । 'निःशेषच्युतचन्दनं..' इत्यादी, समस्तानां पुनवैशिष्टये यथा ‘कालो मधु...' इत्यादौ । इति ।
अथास्या मेदानाह-३० त्रैविध्यादित्यादिना ।
३० अर्थानां वाच्यलक्ष्यव्यङ्गयानाम् । प्रत्येकम् । वैविध्यात् त्रिविधत्वात् । इयं काक्कादिवैशिष्टयसचिवा व्यजनेति भावः । त्रिविधा । मता ॥२०॥
सदेव विवृणोति-अर्थानामित्यादिना ।
अर्थानाम् । वाच्यलक्ष्यव्यङयत्वेन । वाच्यत्वेन लक्ष्यत्वेन व्यङ्गयत्वेन चेत्यर्थः । त्रिरूपतया त्रिविधतया हेतुनेत्यर्थः । सर्वा । वक्रादिवैशिष्टयानेकतया यावद्भेदाः सम्पद्यमाना इत्यर्थः । अपि । अनन्तरोक्ता अव्यवहितप्रागभिधानाः । व्यञ्जनाः। विविधाः । अयम्भावः- काकादिवैशिष्टयभेदेन भिद्यमानाः प्रागुक्ताः सर्वा अपि व्यजनावाच्यादीनामर्थानां त्रैविध्यात् प्रत्येकं त्रिभेदाः पुनः सम्पद्यन्ते । इति ।
एतासां दिङ्मात्रमुदाहरणमुपस्थापयति-तत्रेत्यादिना ।
तत्र तासु वाच्यार्थादिमूलासु वक्तृवैशिष्ट्यादिसचिवासु व्यञ्जनासु मध्य इति यावत् । वाच्यार्थस्य । व्यञ्जना वक्रादिवैशिष्ट्यसचिवेति शेषः । 'कालो मधुः...'इत्यादौ 'उदाहृते पद्ये'इति शेषः । लक्ष्यार्थस्य बोद्धव्यवैशिष्टयसचिवा 'व्यञ्जने'ति शेषः । 'निःशेषच्युतचन्दनं...'इत्यादौ 'उदाहृते पद्ये'इति शेषः । व्यङ्गार्थस्य चेष्टावैशिष्टयसचिवा व्यञ्जने ति शेषः । यथा-'उअ णिच्चलणिप्फंदा (पश्य निश्चलनिस्पन्दा)...'इत्यादौ उदाहृते पद्ये इति शेषः । इदं बोध्यम्-'कालो मधुः...,' 'निःशेषच्युतचन्दनं...', "उअ णिचलणिप्फंदा...'इत्यादीनां वक्रादीनां वैशिष्टये यथा व्यजनेति प्रागुदाहृतं, व्याख्यातानि च पद्यान्येतानि । इति ।