________________
रुचिराख्यया व्याख्यया समेतः ।
परिच्छेदः ]
'गुरु परतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति ? सखि ! सुरभिसमयेऽसौ ॥ १५ ॥'
'यति ? अपि तर्हि एष्यत्येवे'ति काक्वा व्यज्यते ।
चेष्टा वैशिष्ट्ये यथा
'सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । हसनेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥ १६ ॥ ' इत्यत्र ' सन्ध्या सङ्केतकाल' इति पद्मनिमीलनादिचेष्टया कयाचिद् द्योत्यते ।
૭
युक्तमपि सङ्गच्छते ।' इत्युक्तप्रकाराया इत्युक्तः प्रकारः स्वरूपं यस्यास्तथाभूतायाः । ' प्रकारो भेदसदृशाभेदेषु' इति गोपालः । काकोः । भेदाः । आकरेभ्यो भरतादिशास्त्रेभ्यः । ज्ञातव्याः । एतद्वैशिष्टये एतस्याः काकोशि - टयं तस्मिन् । 'सती' ति शेषः । यथा - 'गुरुपर.. ' इत्यत्र ।' व्यञ्जने' ति शेषः ।
,
'हे सखि ! असौ नायक इत्यर्थः । गुरुपरतन्त्रतया गुरूणामनुल्लङ्घनीयाभ्यनुज्ञानां पित्रादीनां परतन्त्रता तया । बत कष्टम् । दूरतरं नितान्तदूरवर्तिनमित्यर्थः । देशम् । गन्तुम् । उद्यतः । तस्माद्गमिष्यत्येवेति भावः । किन्तु अलिकुलकोकिलललितेऽलीनां भ्रमराणां कुलं समुदायः, तच्च कोकिलाश्चेति तैर्ललितः कमनीयस्तस्मिन् । 'ललितं त्रिषु । ललिते चेप्सितेऽपि स्याद्धारभेदे तु न द्वयोः ।' इति मेदिनी । सुरभिसमये वसन्तकाले । न । एष्यति ? आगमिष्यतीत्यर्थः । 'ओमाङोश्च ।' । ६ । १ । ९५ ॥ इति पररूपैकादेशः । आय छन्दः, I तलक्षणं चोकं प्राक् ॥ १५ ॥ ' इति ।
अत्र नञि काकु:, तद्वैशिष्टयात् 'अवश्यमेष्यती 'ति व्यज्यते इत्याह- अत्रेत्यादिना ।
अस्मिन्नुदाहृते पद्ये इति यावत् । 'न । एष्यति ? आगमिष्यति । ' इत्यस्यार्थ' इति शेषः । अपि । तर्हि अपि त्वित्यर्थः । एष्यति । एव । ' इतीत्येवमित्यर्थः । काका काकुसाचिव्येन व्यञ्जनयेत्यर्थः । व्यज्यते । अयम्भावःअत्र नैष्यतीत्यस्य नञ्पदं काक्का ध्वनितमिति न तस्य निषेधार्थकत्वम्, किन्तु संशयापसारणपुरःसरं सम्भावितस्यार्थस्यावश्यम्भाविसिद्धिकत्वम् । एवं च नैष्यतीत्यस्य काक्वाऽवश्यमेष्यतीत्यर्थः प्रतीयते । इति चेष्टावैशिष्टये व्यञ्जनामुदाहर्तुमुपक्रमते - चेष्टावैशिष्ट्ये इत्यादिना ।
'चेष्टावैशिष्ट्ये । ‘व्यञ्जने' ति शेषः । यथा - 'सङ्केत..' इति ।
'विदग्धया चतुरया गूढाभिप्राय वेदनावेदनसमर्थयेति यावत् । कयाचित् कामिन्येति शेषः । सङ्केतकालमनसं सङ्केतस्य कालः समय उपलक्षणेन तदनुसन्धानं तत्र मनो यस्य तं, यद्वा - सङ्केतस्य काल: कलनं ज्ञानमिति यावत् तत्र मनो यस्य तं तथोक्तम् । विटमुपपतिम् । ज्ञात्वा तचेष्टया निश्चित्येत्यर्थः । हसन्नेत्रार्पिताकूतं हसन्ती विकसन्ती नेत्रे ताभ्यामर्पितं ( परचेतसि ) निहितमाकूतं स्वाभिप्रायो रहस्यमिति यावत् यत्र ( कर्मणि ) तद् यथा भवेत्तथेत्यर्थः । यद्वा-हसदिति पृथक् पदम्, लीलापद्ममित्यस्य विशेषणम् विकसदित्यर्थः । लीलापद्मं लीलाया लीलार्थं धृतम् पद्ममिति तथोक्तम् । निमीलितम् । यत्तु - 'हसद्भयां नेत्राभ्यामर्पितं सूचितमाकूतं रहस्यं येन त' मित्येवं कृत्वा ‘विट’ मित्यस्य विशेषणं स्वीकुर्वन्तः 'येन नेत्रेङ्गितद्वारा गूढाभिप्राय आवेदितस्तादृशम्' इति व्याचक्षते । तन्न साधु, तथा सति-अर्द्धान्तरैकपदत्वापत्तेः । अत्रोपस्थितं विटं प्रति सङ्केतसमयं निर्दिशन्तीं काञ्चित् कान्तां पश्यत इयमुक्तिः । अत्र श्लोकश्छन्दः, तलक्षणं च यथोक्तम्, श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पञ्चमम् । द्विचतुः पादयोर्हस्वं सप्तमं दीर्घमन्ययोः ॥ १६ ॥' इति ।
इह निशि कमलनिमीलनमतिशेते, सायै पुनर्नेति ईषत्कमल निमीलनेन सायमिति कयाचित् सङ्केतसमयो द्योत्यते इत्याह- इत्यत्रेत्यादिना ।