________________
साहित्यदर्पणः।
द्वितीय:'सङ्केतस्थानमेतत्' इति कयाऽपि सन्निहितं प्रच्छन्नकामुकं प्रत्युच्यते, अत्रैव स्थाननिर्जनत्वरूपं व्यङ्गयार्थवैशिष्टयं प्रयोजनम् ।
'भिन्नकण्ठध्वनिर्धारैः काकुरित्यभिधीयते ।' इत्युक्तप्रकारायाः काफोर्मेंदा आकरेभ्यो ज्ञातव्याः। एतद्वैशिष्टये यथानिर्जनत्वम् । 'विजनत्व' मिति पाठान्तरेऽप्ययमेवार्थः । 'व्यज्यत' इति शेषः । अतोऽस्मात् कारणादित्यर्थः । 'सङ्केतस्थानं सङ्केतस्य रमणौचित्यस्य स्थानम् । एतत् ।' इति ‘एव' मिति शेषः । कयाऽपि कयाचित् कामिन्येति भावः । सन्निहितं समीपे एव स्थितम् । प्रच्छन्नकामुकं प्रच्छन्नो निलीय स्थितोऽसौ कामुक: कामी तम् । कामयत इति कामुकः । 'लषपतपदस्थाभूवुषहनकमगमशृभ्य उकञ् ।' ३।२।१५४ इत्युकञ् । 'लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपय॑नवः ।' १४९० इति द्वितीया । प्रति । उच्यते । अयम्भाव:-'उअ (पश्य ) इत्यस्य सम्बुद्धिपदानुपलम्भात् कामुकस्य प्रच्छन्नत्वं सन्निहितत्वं च व्यक्तम् , अतः-तदभिधानं तं प्रत्येव । इति । तथा-अत्रास्मिन्नुदाहृते पद्य इति यावत् । एव न 'वन्यत्रे'ति शेषः । स्थाननिर्जनस्वरूपं स्थानस्य निर्जनत्वद्योतनरूपम् । व्यङ्गयार्थवैशिष्टयं व्यङ्गयार्थेन बलाकाया निश्चलनिस्पन्दत्वाभिधानाभिव्यजिताधिष्टिते देशेविश्वस्तत्वद्योतनेन वैशिष्टयम् । प्रयोजनम् । 'सङ्केतस्थानमेत' दिति प्रत्यायिकाया व्यञ्जनायास्तृतीयव्यञ्जनायाः प्रयोजकमिति भावः । इदमवधेयम्-अत्र बलाकाया निश्चलनिस्पन्दतया सन्निधिवैशिष्टयेनाभिव्यक्तिरिति वक्तृबोद्धव्यवाक्यातिरिक्तवैशिष्टयं प्रतिभासते । इति ।
वाच्यवैशिष्टये यथा-'यमुनातीरवानीरनिकुञ्जस्तन्वि ! मञ्जुलः । मालतीनतनं कुर्वन् सरतीह समीरणः ॥' इति । अत्र हि-मालतीनर्तकसमीरणरूपविशेषणप्रकाशिताद्वाच्यस्य कुञ्जस्य वैशिष्टयात् 'रमणार्थमिह प्रविशे'ति न्यज्यते । प्रस्ताववैशिष्टये यथा-'तल्पगताऽपि च सुतनुः श्वासासङ्गं पुरा न या सेहे। सम्प्रति सा हृदयगतं प्रियपाणिं मन्दमाक्षिपति ॥' इति । अत्र हि प्रस्तावः पूर्व 'प्रातरह देशान्तरं यास्यामी'ति प्रियां प्रति प्रियस्याभिधानम् , तद्वैशिष्टयात् प्रवत्स्यत्पतिविषयको रत्याख्यो भावोऽभिव्यज्यते । देशवैशिष्टये यथा-'एतत्तदेव कदलीवनमध्यवर्ती कान्तासखस्य शयनीयतलं सुखं ते । अत्र स्थिता तृणमदाद् बहुशो यदेभ्यः सीता ततो हरिणकैन विमुच्यते स्म ।' इति । अत्र वासन्त्या रामं प्रत्युपवेशनार्थं शिलातलस्य निदर्शनम् , इत्येवं तस्य वैशिष्टयाद् रामगतशोकोद्दीपनमभिव्यक्तम् । अत एव-'इत्यन्यतो रुदन्नुपविशती' ति उत्तरग्रन्थः सङ्गच्छते । कालवैशिष्टये यथा-'गुरुअणपरवस पिअ ! किं भणामि तुह मंदभाइणी अहकम् । अज पवासं वचसि वच्च स जेव्व सुणसि करणिज्जम् ॥' इति। अत्राद्यपदाभिधेयवसन्तकालवैशिष्टथात् त्वयि प्रयाते मम जीवितं न भविष्यतीति निश्चितम् , 'अथ तव भविष्यति न वेति तु न जानामी' तिव्यज्यते ।
अथ काकुवैशिष्टये व्यञ्जनामुदाहर्तुकामः काकुपदार्थ प्रथमं निर्दिशति-भिन्न..' इत्यादिना ।
'भिन्नकण्ठध्वनिर्भिन्नो भेदं प्राप्तो यः कण्ठध्वनिः कण्ठस्योपलक्षणेन ताल्वादेर्ध्वनिरुच्चारणमिति तथोक्तः । कण्ठादिना यस्य वर्णस्य यथोच्चारणं सम्भवति तस्य वर्णस्य तथोच्चारणमकृत्वाऽन्यथोच्चारणं भिन्नकण्ठध्वनिरिति भावः। अत एव'वाक्याभिधेयमानेऽर्थे येनान्यः प्रतिपद्यते।' इति पूर्वांशोऽपि सङ्गच्छते। काकुः कायति उच्चरति अर्थान्तरमिति तथोक्ता । यद्वा-'काकुर्जिह्वा' इति भाष्यकारः, अभेदोपचारात्तव्यापारसम्पाद्यः शोकहर्षरागद्वेषभयनिषेधानिषेधादिप्रत्यायको ध्वनेर्विकार इत्यर्थः । इति । अभिधीयते । ‘स काकुरभिधीयते।' इति पाठान्तरे तु 'तच्छब्दस्य सादीनां पायेणोद्देश्यविधेयलिङ्गभाकत्वम् ।' इति नयेनोद्देश्यलिङ्गत्वम् । एवं च-काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्वनेः ।' इत्यमरा
१ 'गुरुजनपरवश ! प्रिय ! किं भणामि तव मन्दभागिनी अहम् । अद्य प्रवासं व्रजसि व्रज स्वयमेव श्रोयसि करणीयम् ॥' इति संस्कृतम् । गीतिश्छन्दः ।