________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
७५
अन्य सन्निधि वैशिष्ट्ये यथा
" उअ णिच्चलणिप्फंदा भिसिणीपत्तम्मि रेहइ बलाआ । णिम्मलमरगअभाअण-परिष्डिआ संखसुत्ति व्वं ॥ १४ ॥ "
अत्र बलाकाया निश्चलनिस्पन्दत्वेन विश्वस्तत्वम् तेनास्य देशस्य निर्जनत्वम्, अतः
सम्भोग चिहोद्घाटने व यास्तात्पर्यम्, तच्च वापीगमनजन्यचिहोद्घाटनेन न सम्भवतीति तात्पर्यार्थबाधे विपरीत - लक्षणया नायकान्तिकगमनं लक्षितम्, स्वायत्ते शब्दे किमिति तथाऽभिधानम् ? इति तस्या अन्यापेक्षयाऽतिनीचत्वद्योतनपुरःसरं स्वस्याचाय्र्यात्वद्योतनपुरःसरं रमणार्थं प्रवृत्तिः प्रयोजनम्, तस्य च स्पष्टमभिधानं विदग्धाया उत्तमाया नायिकाया न शोभत इति तया तद् बोद्धव्यवैशिष्टयेन बोध्यमानं व्यञ्जनैकव्यापारविषयम् इति । अथ वाक्यवैशिष्टये यथा मम भगवत्सुधाशतके - 'जगदीश ! निजाङ्घ्रिसे विनामुचितैवार्थितया प्रतिष्ठितिः । अथ किं ददता कुचेलतां बत मय्येव निधारयते दया ॥' इति । अत्र हि जगदीशस्य सेवया धनशालित्वौचित्येऽपरापेक्षया स्वस्मिन् कुचेलता (कुचयो - रिला श्रीवत्सचिह्ना श्रीर्यस्यास्तत्ता) sऽधानातिशयः इति वाक्यस्य वैशिष्टयेन 'अर्थितये' त्यस्य याचकतया 'कुचेलता' मित्यस्य च 'जीर्णवस्त्रत्व' मित्यर्थो व्यङ्गयः । यदि तु अत्र वक्तुर्याचकस्य वैशिष्टयादेवाभिव्यज्यत इति सहृदयानां हृदयं, तदा ममेदमुदाहरणीयम् - रुक्मिणीहरणे दृश्यकाव्ये माधुर्यसम्भृते । रसविज्ञा न ये विज्ञाः सिताखण्डे च ते किमु ॥ ' इति, अत्र च रुक्मिणी हरणे रसाननुभवितारः केवलं खरा इति वाक्यवैशिष्टयेन बोध्यम् । यथा वा - 'तइआ मह गंडत्थलणिमिअं दिली णाणेसि अण्णत्तो । एहिं सच्चेअ अहं ते अ कबोला ण सा दिडी ॥' इति । अत्र हि वाक्यवैशिष्टयेन ' तवानुरागोऽन्यत्रैव मयि तु परं रागाभासः ।' इति व्यज्यते ।
अथान्यसन्निधिवैशिष्ट्ये व्यञ्जनामुदाहरति-अन्यसन्निधिवैशिष्टये इत्यादिना ।
अन्यसन्निधिवैशिष्ट्येऽन्यस्य वक्तृबोद्धव्यवाक्येभ्यो भिन्नस्य सन्निधिः तस्य वैशिष्टयं तस्मिंस्तथोक्ते 'व्यञ्जने ' ति शेषः । यथा - 'उअ..' इति ।
'अ पश्येत्यर्थः । ' दयित !' इति सम्बुद्धिपदमध्याहार्य्यम् । णिच्चलणि फन्दा निश्चलनिःस्पन्दा निश्चलाऽसौ निःस्पंदेति तथोक्ता । अत्र विशेषणोभयकर्म्मधारयः । चलनस्पन्दनरहितेति भावः । चलनं देशान्तरप्रापिका शरीरक्रिया, स्पन्दनं त्ववयवमात्रक्रिया; एवं च न पुनरुक्तिः । भिसिणीपत्तम्मि बिसिनीपत्रे नीलकमलिनीपत्रे इति यावत् । उपचारात्तत्सविधे इत्यर्थः । बलाआ बलाका बकी बकपङ्क्तिर्वेत्यर्थः । णिम्मलमरगअभाअणपरिट्ठिआ निर्मलमरकतभाजनपरिस्थिता । संखसुत्ति शङ्खशुक्तिः । व्व इव । रेहइ राजते शोभत इति यावत् । इदमुक्तम् - शङ्खघटितं शुक्क्याकारं पात्रं यथा स्वच्छनीलमणिमयपात्रोपरि स्थितं शोभते, तथा - नीलकमलिनीपत्रे बलाका सुन्दरनीलेन्द्रमणिमयभाजनोपरि स्थिता शङ्खशुक्ती राजते । इति । एवं च अचेतनोपमया नांशतोऽपि अत्र क्षोभावसरो न वा जनान्तरसचाराशङ्केति व्यज्यते । इति । आर्य्याछन्दः । तल्लक्षणं चोक्तं प्राक् ॥ १४ ॥
अथ व्यङ्गयं निदर्शयति- अत्रेत्यादिना ।
अस्मिन्नुदाहृते पद्ये इति यावत् । निश्चल निस्पन्दत्वेन निश्चलत्वेन निस्पन्दत्वेन चेत्यर्थः । ' निस्पन्दत्वेने त्येव क्वचित् पाठः । विश्वस्तत्वमनुपद्रुतत्वेन यथेष्टरमणार्हत्वमिति भावः । तेन व्यङ्गथेनेति शेषः । अस्य । देशस्य ।
,
१ 'पश्य निश्चलनिष्पन्दा बिसिनपत्रे राजते वलाका । निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥' इति संस्कृतम् । ‘२ तदा मम गण्डस्थल निममां दृष्टिं नान्वैषीरन्यत्र । इदानीं सैवाहं तौ च कपोलौ न सा दृष्टिः ॥ ' इति संस्कृतम् । अत्र गाथाछन्दः ।