________________
७४
साहित्यदर्पणः ।
मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञातपीडाऽऽगमे !, वापीं नातुमितो गताऽसि न पुनस्तस्याधमस्यान्तिकम् ॥'
[ द्वितीय:
अत्र - ' तस्यान्तिकमेव गताऽसी 'ति विपरीतलक्षणया लक्ष्यम्, तस्य च ' रन्तुम्' इति व्यङ्गयं प्रतिपाद्यं दूतीवैशिष्ट्याद् बोध्यते ।
देश: । निश्शेषच्युतं चन्दनं निःशेषं निरवशेषं यथा भवेत्तथा च्युतं स्खलितं चन्दनं यस्माद् यस्य वा तथोक्तम् । न तु वक्षःस्थलं, न वा सन्ध्यादिरूपनिम्नोन्नतभागः । वापीगतानामनेकेषां युवजनानां सम्मर्देन त्रपापारवश्यतया च अंसद्वयलग्नाप्रस्वस्तिकीकृताभ्यां भुजाभ्यां पुनःपुनः स्तनयोस्तटस्यैवोन्नततया परामर्शात् स्तनतटं च्युतचन्दनमित्युक्तम्, न तु च्यावितचन्दनं नापि क्षालितचन्दनं वा तत्राप्यनवकाशात् इति भावः । अन्यत्र तु स्तनतटस्यैव मुहुर्मर्दनात्, सन्ध्यादौ च नायककरपरामर्शासम्भवात् तत्तथाभूतमिति बोध्यम् । एवम् अधरोऽधरोष्ठः । निर्मृष्टरागो निःशेषं यथा स्यात्तथा न तु किञ्चिन्मृष्टः शुद्धः रागस्ताम्बूलरक्तिमा यस्य तथोक्तः । अधरोष्ठ स्यैवोत्तानतया तत्रैव बहलजलसम्बन्धात्, न तूत्तरोष्ठस्य; न्युब्जतया तस्य जलासम्पर्कान्निर्मृष्टरागत्वमिति बोध्यम् । अन्यत्र तु अधरोष्ठस्यैव वात्स्यायना - युक्तनयेन चुम्बनविधेः सम्भवात् उत्तरोष्ठस्य च चुम्बन विधेर्निषेधात्तथोक्तमिति बोध्यम् । तथा नेत्रे । दूरं न तु तयोरन्तः । अत एव - ' दूरं प्रान्तभागे' इति व्याचख्युः । अनञ्जने नाञ्जनं यत्र तथोक्ते कज्जलरहिते इत्यर्थः । स्नानावसरे नेत्रयोर्मुद्रणात् मध्ये सलिलप्रवेशासम्भव इति प्रान्तभाग एव नेत्रयोरनञ्जनत्वमभिहितमिति बोध्यम् । अन्यत्र तु नेत्रयोः प्रान्तभाग एव चुम्बनं विहितमन्यत्र च तन्निषेध इति तथोक्तमिति बोध्यम् । किञ्च - इयं दृश्यमानाऽत एव अनपचनीति भावः । तनुः शरीरमित्यर्थः । ' तनुः काये त्वचि स्त्री स्यात् त्रिष्वल्पे विरले कृशे ।' इति मेदिनी । त वी कृशा शैत्योद्रेकात् तत्र युवजनन्त्रपावशाद्वा सङ्कुचितेति यावत् । अत एव - पुलकिता रोमाञ्चितेति, उपचारात् कम्पमानेति वा भावः । पुलका जाता अस्या तथाभूता । 'पुलकः कृमिभेदे प्रस्तरभेदे च मणिदोषे । रोमाञ्चे हरिताले गजान्नपिण्डे च गन्धर्वे ॥' इति मेदिनी । अन्यत्र तु कृशात्वं सुरतश्रमात्, पुलकितात्वं च तदानीमद्भुतानन्दोल्लासात् नायके वाऽनुरागोद्रेकादिति बोध्यम् । अत एव - मिथ्यावादिनि ! 'मया तत् सविधमुपेत्यानेकशः प्रार्थितोऽपि नाया' इति असत्यभाषिणि ! बान्धवजनस्य मद्रूपस्य सुहृज्जनस्येति भावः । बध्नाति स्नेहेनेति बन्धुः बन्धुरेव बान्धवः । 'बान्धवो बन्धुमित्रयोः । ' इति हैमः | अज्ञातपीडाऽऽगमे ! अज्ञातः स्वमनोरथपूर्ति परतया ज्ञातोऽप्यज्ञात इव कृत इति भावः पीडाऽऽगमः क्लेशोपस्थितिर्ययेति तथोक्ते । इतो मत्सकाशात् । स्नातुं स्नानार्थम् । वापीं वापिकाम् । गता । असि । त्वम् । न पुनर्न त्वित्यर्थः । तस्य बहुधा कृतापराधतया प्रसिद्धस्य । अत एव - अधमस्य नानाक्लेशावह कर्मकारिण इत्यर्थः । अन्तिकं समीपमित्यर्थः । ' उपकण्ठान्तिकाभ्यर्णा व्यग्रा' इत्यमरः । 'गताऽसी 'ति देहलीदीपन्यायेनात्राप्यनुषज्यते । नायकमानेतुं प्रेषितां तमनानीय तं स्वयं सम्भुज्यायातां 'मया बहु प्रसादितोऽपि नायात' इति निवेदयन्तीं दूतीं प्रति तत्सर्वमवगम्यापि वाप्यां स्नानकार्य्यजन्य चिह्न प्रकाशनापदेशेन सम्भोगमुद्भावयन्त्याः कस्याश्चित् विदग्धाया उत्तमाया नायिकाया उक्तिरियम् । अमरुशतकस्येदं पद्यम् । अत्र शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणं चोक्तं प्राक् ११ पृष्ठे ॥ १३ ॥ इति ।
अथोदाहरणीयं सूचयति - अत्रेत्यादिना ।
अत्रास्मिनुदाहृते पद्य इति यावत् । ' तस्य । अन्तिकं समीपम् । 'तदन्तिक' मिति पाठान्तरेऽप्ययमेवार्थः । एव । गता । 'अथागते 'ति शेषः । असि । इति । 'तात्पर्य्य' मिति शेषः । विपरीतलक्षणया वापीगमननाय - कान्तिकगमनाभावाभिधानतो विरुद्धस्य नायकान्तिकगमनवापीगमनाभावरूपस्यार्थस्य बोधिकया लक्षणयेति भावः । 'कर्तृकरणयोस्तृतीया ।' २।३।१८ इति तृतीया । लक्ष्यं बोध्यम् । तस्य लक्ष्यस्य ( लक्षणया बोध्यस्य ) इत्यर्थः । च । प्रतिपाद्यम् । 'रन्तुम्' इति । व्यङ्ग्यम् । तच दूती वैशिष्ट्याद् दूत्या बोद्धव्याया नांयकं सम्भुज्यागतायाः सन्देशहारिण्या वैशिष्टयं वैलक्षण्यं तस्मात् तदाश्रित्येति भावः । बोध्यते । 'व्यञ्जनये 'ति शेषः । अयम्भाव:- दूत्याः