________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः।
७३ अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखी प्रति कयाचिद् व्यन्यते । बोधव्यवैशिष्टये यथा
'निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो, नेत्रे दूरमनाने पुलकिता तन्वी तवेयं तनुः । मारुतमरुज्जगत्प्राणसमीरणाः ।' इत्यमरः । वहन्ति । इयमध्यषिता । केलीवनी केल्याः केले. क्रीडाया इति यावत् बनी उपवनं वाटिकेति यावत् प्रियरमणमात्रोपयोगिनिर्जनतारम्यं शुभवनमिति भावः । अत्र केलिशब्दात् 'कृदिकारादक्तिनः ।' इति ङीष् । वनशब्दात् तु 'षिद्गौरादिभ्यश्च ।' ४१४१ इति ङीष । 'सुवनी सम्प्रवदत्पिकाऽपिका'इत्यादि. प्रयोगदर्शनात् वनीशब्द उपवनवाचकः । अपि । अत्रापिना वसन्तादेरनात्मीयतया कदाचिदकृतापराधत्वेऽपि युज्यतां नाम कुपितत्वं दुःखावहत्वं वा, किन्तु अस्या वन्या आत्मीयत्वेऽपि ममापराधाभावेऽपि च यद्दःखावहत्वं, तदुर्दैवनिर्घातएवेति द्योत्यते । कथमेतस्या दुःखावहत्वमित्यत आह-वजुलकुञ्जमजुर्वजुलानामशोकानां कुञ्जो निकुञ्जः (न तु एककं द्विकं त्रिकं वेति भावः) तेन मजुः सुन्दरः। 'वजुलोऽशोक'इत्यमरः । 'कुजोड हनौ दन्तेऽपि दन्तिनाम् ।' इति मेदिनी । 'मनोज्ञं मञ्जु मजुलम् ।' इत्यमरः । हे सखि ! एतेन रहस्यनिवेदनयोग्यत्वं सूच्यते । पतिः परिणेता, न तु प्रियः । अत एव-दरे । 'स्थित'इति शेषः । कार्यापदेशेन पतिमिपहाय कापि दूरे गत इति भावः । अतः-अद्य एवं दुर्दैवजातभोगानामेकदैवोपस्थापकेऽस्मिन् दिवस इति भावः । किम् । करणीयम्, यस्मिन् कृते कथमपि जीवितावशेषाऽवतिष्ठेयेति भावः । इति-कथयोपदिश । इदं बोध्यम्-य एवोन्मादकः स एव वियोगे दुःसहः, तदिति सर्वेऽपि वसन्तादयोऽमी दुःखावेदकतया कोपप्रकटकाः, युज्यते चैवं वसन्तस्यावस्थाने तत्साहाय्येन प्रचण्डत्वं कामस्य, तत्सहायकानां समीरादीनां च, यत्र च कामस्य शरवणं किं पुनस्तत्र तस्य प्रचण्डत्वभूयस्त्वस्य; एवं सति प्राणापहानोपस्थितौ अन्यत् किं करणीयम्, यथा प्राणा न नश्येयुस्तथैव करणीयम् , सत्यायुष्ये पुनर्धादेः कर्तुं शक्यत्वात् प्राणानां च साम्प्रतमवस्थानोपायः केवलं मदनोपशमः,असौ च पत्युरसद्भावे परप्रसङ्गेनैव सम्भवेदिति कस्याश्चित् कामिन्याः सखीं प्रत्युक्तिरियम् ।' अत्र वसन्ततिलकं वृत्तम् , तल्लक्षणं यथोक्तम्, 'उक्तं वसन्ततिलकं तभजा जगौ गः ।' इति ॥ १२ ॥' ।
अत्रोदाहरणीयं दर्शयति-अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृते पद्य इति यावत् । 'एतमधिष्ठितमित्यर्थः । देशम् । प्रति। शीघं यावत् प्राणान्न जहामि तत्पूर्वमेव, न परमिति भावः । प्रच्छन्नकामुकः प्रच्छन्नं कामयत इति तथोक्तः । त्वया सख्या । प्रेष्यतां प्राप्तो विधीयताम् ।' इति 'एव' मिति शेषः । सखीम् । प्रति । कयाचित् कामिन्या व्यज्यते व्यक्तः क्रियते 'द्योत्यत' इति पाठान्तरेऽप्ययमेवार्थः ।
अवधेयमिदम्-उद्दीप्तकामा वियोगिनी वक्री, स च सुदूरे तस्याः पतिः, येन सह पतित्वाऽपि कालमपनयेत् । कामसायकानाम् (वझुलानाम् ) च जन्मभूमेरैश्वर्योल्लासकः सुरभिः समयोऽयं, तेन कामसायकानां क्षयासम्भवोऽपि युज्यत एव, कामं च प्रचण्डयितुं समीरा अप्येते त्वरयन्त इव वहन्ति, कामसायकाश्चाशोकादिपुष्पमया अपि 'उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा । सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥' इत्युक्तदिशा स्वभावतोऽतिभीषणाः ।
ट बोध्यते, तथा च-अत्र वश्या वियोगिन्याः कामुकाया वशिष्टयेन, वाक्यस्य 'कालो मधुः' इत्यादिरूपस्य, प्रकरणस्य 'सम्प्रति कथं कालोऽपनीयते' इत्येवमनुमेयस्य सखीप्रश्नस्योत्तराभिधानरूपस्य देशस्य जनान्तरासञ्चारतया केलियोग्यस्य कुञ्जवनस्य, वसन्तस्य च समयस्य वैशिष्टयेन कामुकस्यानयननिवेदनमभिव्यज्यते । इति ।
यथा वा मम-'प्रिययाऽपि तया निवारिता कमलं हन्त गृहीतवत्यहम् । भ्रमरेण खलेन हा पुनः परिदष्टा स्खलिताऽस्म्यचेतना ॥' इति, अत्र कस्याश्चिद्भाया वश्या वैशिष्टयेन परसम्भोगगोपनं व्यज्यते । इति ।
अथ बोद्धव्यवैशिष्टयेन व्यञ्जनामुदाहरति-बोदव्य...इत्यादिना । बोद्धव्यवैशिष्टये । यथा । 'व्याने ति शेषः । 'निःशेषच्युतचन्दनं..' इति ।
'हे दूति ! सन्देशहारिणि । एतेनास्याः परप्रतारणकर्तृत्वौचित्यं नैसर्गिकमित्यावेदितम् । तव दूत्या न तु सख्या इत्यर्थः । एवं च-दूत्याः सम्भवन्नपि क्वचित् सखीत्वभ्रमोऽपाकृतः । स्तनतटं स्तनयोः कुचयोस्तटं प्रान्तसम