________________
स्महित्यदर्पणः।
[द्वितीयःएवं शाब्दी व्यञ्जनामुक्त्वाऽऽर्थीमाह
२९ वक्तृबोद्धव्यवाक्यानामन्यसन्निधिवाच्ययोः ।
प्रस्तावदेशकालानां काकोश्चेष्टाऽदिकस्य च ॥ १९ ॥
वैशिष्ट्यादन्यमर्थं या बोधयेत्साऽर्थसम्भवा। व्यञ्जनेति सम्बध्यते। तत्र-वक्तृ-वाक्य प्रस्ताव देश-काल-वैशिष्टये यथा मम'कालो मधुः, कुपित एष च पुष्पधन्वा, धीरा वहन्ति रतिखेदहराः समीराः केलीवनीयमपि वजुलकुञ्जमजु-र्दूरे पतिः कथय किं करणीयमद्य ॥१२॥'
एवं शाब्दीव्यअनाया निरूपणं समाप्य आर्थी निरूपयितुमुपक्रमते-एवमित्यादिना ।
एवं निरुक्तप्रकारेण । शाब्दी शब्दे वाचके लक्षके वा भवेति तां तथोक्ताम् । 'तत्र भवः ।' ४।३।५ इत्यण् । 'टिड्ढाणञ्..।' ४।१।१५ इति ङीप् । ध्यानाम्। उक्त्वा कथयित्वा निरूप्येति यावत् । अर्थे वाच्ये लक्ष्ये वा भवा तां तथोक्ताम् । 'व्यञ्जना' मिति पूर्वतोऽन्वेति । आह-लक्ष्यलक्षणनिरूपणाभ्यां निरूपयतीत्यर्थः । २९ वक्तबोद्धव्यवाक्यानामित्यादिना ।
२९ वक्तबोद्धव्यवाक्यानां वक्ता (यः कश्चित् कञ्चिदुद्धोध्य खयं वा वक्तीति तथोक्तः) च बोद्धव्यः (यमुवोध्योऽन्यो वक्ति) च वाक्यं (पदसमुदायविशेषः ) चेति तेषाम् । अन्यसनिधिवाच्ययोः अन्य (वक्तृबोद्धव्यवाक्यातिरिक्त) सन्निधिश्च वाच्योऽर्थश्चेति तयोः । अत्र वाच्यपदं लक्ष्यस्यापि लक्षकम् । प्रस्तावदेशकालानां प्रस्तावः (प्रकरणम्) च देशः (उपवनादिः) च कालः (वसन्तादिः) चेति तेषाम् । काकोर्ध्वनिविशेषस्य । चेष्टाऽऽदिकस्य । आदिना-इशितादीनां ग्रहणम् । च (इदं समुच्चयार्थमव्ययम्)। वैशिष्टयात विशिष्टबुद्धिनियामकात् सम्बन्धविशेषात् । तदाश्रित्येति यावत् । या। अन्यमभिधाऽऽदिवृत्तित्रयादिविषयम् । अर्थम् । बोधयेत् । सा। अर्थसम्भवाऽर्थमूला । 'व्यञ्जनेति शेषः । इदं फलितम्-वकादीनां प्रत्येकं वा अन्यथा वा वैशिष्टयादभिधाऽऽदिवृत्त्यविषयीभूतस्य कस्यचिदर्थस्य प्रकाशिकाऽऽर्थी व्यञ्जना नाम तुऱ्या वृत्तिः । इति ॥ १९॥
कारिकाऽर्थ स्पष्टयितुमाह--व्यअना। इति ‘पद 'मिति शेषः । सम्बध्यतेऽनुगम्यतेऽनुवर्तते इति थावत् । इति ।
उदाहरति-तत्रेत्यादिना ।
तत्र तेषु वक्रादिवैशिष्टयेषु मध्य इति यावत् । वक्त-वाक्य, प्रस्ताव,-देश-काल-वैशिष्टये 'सति व्यञ्जना' इति शेषः । यथा। मम मत् (विश्वनाथ) सम्बन्धिनि-'कालो मधुः..' इत्यत्रेति शेषः ।
'एषः। मधुः वसन्तः । 'मधुः पुष्परसे क्षौद्रे मद्ये ना तु मधुदुमे । वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति॥' इति मेदिनी। कालः समयः । कुपितः । क्लेशहेतुकः सन्त्रपस्थित इत्यर्थः। 'वर्तत' इति शेषः । एतेना- . स्यापयानं कर्तुमशक्यमिति सूचितम् । च तथा । अत एव-'कुपितः' इति 'एष' इति च पूर्वतोऽनुवर्तते । पुष्पधन्वा। पुष्पाणि अशोकादिसम्बन्धीनि प्रसूनानि एव धनुर्यस्य तथोक्तः । ‘वा सञ्ज्ञायाम्' ५।४।१३३॥ इत्यनङ् । 'पुष्पधन्वा रतिपति' रित्यमरः । इदं बोध्यम्-वसन्तमदनयोरमूर्तत्वेऽपि कुपितत्वलिङ्गेन प्रतीयमानतामेतत्पदं विशदयति । इति 'कम्पयतीति शेषः । एवम्-धीरा अचञ्चलाः । बुद्धिवृत्तेरपि क्षोभका इति तु वास्तविकोऽर्थः । 'धीरो धैर्यान्विते स्वैरे बुधे इति मेदिनी। धियं बुद्धिवृत्तिमीरयन्तीति वा धीराः। अत एव-रतिखेदहरा रतेर्विलासस्य खेदः श्रम उपचारात् तज्जन्यः स्वेदस्तस्य हरा निवर्तकाः । रतिः स्त्री स्मरदारेषु रागे सुरतगुह्ययोः।' इति मेदिनी। वचनविपरिणामेन'कुपित एष'इत्यनयोरध्याहारे-कुपिता एते इति निष्कृष्टमिति बोध्यम् । समीरा वायवो विरहिजनस्यात्यन्तमसह्या मलयचन्दनगन्धरूपविषोद्गारिणो वाता इति याक्त् । समीरयन्तीति समीराः । 'समीर