________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः ।
लक्षणामूलामाह-- ___२८ लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनम् ।
यया प्रत्याय्यते सा स्याद्, व्यञ्जना लक्षणाऽऽश्रया ॥१८॥ 'गङ्गायां घोष' इत्यादौ जलमयाद्यर्थबोधनादभिधायां, तटाद्यर्थबोधनाच्च लक्षणायां, विरतायां यया शीतलत्वपावनत्वाद्यतिशयादिर्बोध्यते, सा लक्षणामूला व्यञ्जना।
अथ लक्षणामूलां लक्षयितुं प्रतिज्ञायोपक्रमते-लक्षणामूलाम् । आह-२८ लक्षणेत्यादिना ।
२८ यस्य । कृते ( इदमव्ययम् ) । लक्षणा 'प्रयोजनवती' ति शेषः । उपास्यते शब्दवृत्तित्वेनाङ्गीक्रियते । तत् । तु प्रयोजनम् । प्रत्याय्यते । सा । लक्षणाश्रया लक्षणाऽऽश्रयो यस्याःसा । व्यञ्जना । स्यात् ॥१८॥
__ अत्रेदं प्रतिभाति-'गङ्गायां घोष' इत्यादौ मा भूदभिधाप्रसङ्गः, मुख्यार्थबाधस्य सद्भावात् , गङ्गादिपदस्य गङ्गाऽऽ. दितीरादौ च सङ्केतितत्वाभाव इत्यास्तां लक्षणाऽपि सम्प्रवृत्ता वृत्तिः। सैव यदि गङ्गाऽऽदिपदस्य गङ्गाऽऽदितीराद्यर्थमुप. स्थाप्योपस्थापयन्त्येव वा शीतलत्वपावनत्वाद्यर्थमुपस्थापयेत् तत् किं व्यञ्जनयाऽपरया वृत्त्या, किन्तु-लक्षणाऽसौ मुख्यार्थबाधे बाधितमुख्यार्थमनुसृत्य रूढेः प्रयोजनाद्वा प्रवर्तते, न ततः सा तीराद्यर्थमुपस्थाप्य शीतलत्वपावनत्वाद्यर्थमपि प्रभवत्युपस्थापयितुम् । गङ्गाऽऽदिपदं हि घोषाद्यधिकरणत्वासम्भवे यथा तीरादौ सबाधं, तथा तत्रापि लक्ष्ये चेत्स्यात्सबाधं, लक्षयेत् तत्प्रयोजनम् । न च लक्ष्यो मुख्योऽर्थस्तीरादिः, न पुनस्तस्य कश्चिद्वाधः, न च तस्य शीतलत्वपावनत्वादिना कश्चित् सम्बन्धः, न च प्रयोजने तस्मिन् किमप्यवशिष्यते प्रयोजनम, येन तदाश्रित्य प्रभवेत् सा, प्रयोजने प्रयोजनमप्यन्यदिति चेत् ? भवेदानवस्थ्यम्, न च शीतलत्वपावनत्वादिविशिष्टस्यैव तीरादेर्लक्षणया प्रथमतो बोध इति वक्त शक्यम्, हेत्वसद्भावे तस्या एवाप्रवृत्तेः । न च तर्हि रूढिरेवास्तु हेतुरिति वाच्यम्, 'गङ्गातीरे घोष' इत्याद्यपि वक्तं शक्यत्वात् , प्रयोजनं च बोधयितुं वृत्त्यन्तरस्वीकारस्य विरहाच्च, घोषाद्यधिकरणत्वाद्यसम्भवे तीरादावेव लक्षणायाः प्रवृत्तेश्च । न च 'गङ्गातीरे घोष' इत्यादिप्रयोगापेक्षया 'गङ्गायां घोष' इत्यादिप्रयोगे शीतलत्वपावनत्वादिवैशिष्टयरूपस्याधिकस्यार्थस्य प्रतीतिः प्रयोजनं स्याद्धेतुरिति वाच्यम् । लक्षणाजन्यज्ञानविषयस्य तीरादेः प्रयोजनीभूतज्ञानविषयेण शीतलत्वादिना सहान्वयानुपपत्तेः नहि ज्ञानाद् ज्ञानस्य, विषयात् फलस्येव विभिन्नत्वादेककालभवत्वं सम्भवति, इत्यवश्यं तत्र तदा वृत्तिः स्वीकार्य्या, इत्येवं चेत् ? लक्षणामूला व्यन्जनोद्दीप्तरूपा । अत एव शीतलत्वपावनत्वादिरूपं सर्व प्रयोजनं व्यङ्ग्यम् । लक्ष्यं पुनः शक्यसम्बद्धम् (तीरादि) इत्यनैकात्म्येऽपि एतस्य शीतलत्वपावनत्वादिबोधनिमित्तमेव, रूढेरपि तत्सम्भवात् । अथ लक्षणया प्रतिपाद्य तीरादौ शीतलत्वादिबोधनरूपं यत् प्रयोजनं व्यङ्ग्यमन्तरेण नान्यत् । इति तत्र लक्षणामूला व्यजना नाम वृत्तिः । इति ।
खयमपि तदेव निदर्शयति-'गङ्गायां घोष' इत्यादिना ।
'गङ्गायाम् । घोषः।' इत्यादौ 'वाक्य' इति शेषः । जलमयाद्यर्थबोधनाजलमयाद्यर्थबोधनं कृत्वा । • जलमयाधिकरणको ग्रामविशेष इत्याद्यर्थ बोधयित्वेति भावः । अभिधायाम् । विरतायां विरतव्यापारायां सत्याम् । तथा-तटायर्थबोधनात् तटाद्यर्थबोधनं कृत्वा । ल्यपो लोपे पञ्चमी। लक्षणायाम् । लक्षणवृत्तौ विरतायामित्यर्थः । 'तथैवं वाक्यतात्पर्य्य बोधयित्वा तात्पर्य्यवृत्तावपि विरताया' मिति शेषः । यया। शीतलत्वपावनत्वातिशयादिः 'लक्ष्यमाणस्य तीरादे' रिति शेषः । बोध्यते । सा । लक्षणामूला । व्यञ्जना 'तुर्या वृत्ति' रिति शेषः ।
इदं निष्कृष्टम्-यानि प्रयोजनमूलाया उदाहरणानि दर्शितानि, तानि खलु तन्मूलाया व्यजनाया अपि अयानि । यथा वा-'बधान द्रागेव द्रढिमरमणीयं परिकर, किरीटे बालेन्दु विनिमय पुनः पन्नगगणैः । न कुर्य्यास्त्वं हेलामितरजनसाधारणधिया, जगन्नाथस्यायं सुरधुनि! समुद्धारसमयः ॥' इत्यादि। अत्र हि जगन्नाथपदस्यात्यन्तं पापिष्ठमर्थ बोधयित्वा लक्षणायां विरतायां, तदितरापेक्षया तस्य सुरधुनीमात्रशरणत्वमत एवास्यावश्यं रक्षणीयत्वातिशयो व्यजनया बोध्यते । इति दिक्।