________________
साहित्यदर्पणः ।
[ द्वितीय:
अत्र प्रकरणेन अभिधेये नियन्त्रिते उमावल्लभशब्दस्य उमानाम्म्री महादेवी तद्वल्लभभानुदेवनृपत्तिरूपे नियन्त्रिते व्यञ्जनयैष गौरीवल्लभरूपोऽथों बोध्यते । एवमन्यत् ।
७०
भस्मना विभूतिभ्यां व्याप्तिसन्ततिरक्षणाभ्यां वा भूषिता तनुः शरीरम्, उपचारात्स्वरूपमिति वा यस्य तथोक्तः । 'विभूतिर्हस्तिशृङ्गारे भस्मैश्वय्र्योद्भवेषु च ।' इति गोपालः । विभवनं विभूः 'सम्पदादिभ्यः क्विप् । वयनमवनं वेति ऊतिः । ' 'ऊयी तन्तुसन्ताने,' 'अव रक्षणे' इत्यस्माद्वा तिनि रूपमिदम्, किन्त्ववते: 'ज्वरत्वर स्त्रिव्यविमवामुपधायाश्च ।' ६।४।२० इत्यू । ' तनुः काये त्वचि स्त्री स्यात्' इति मेदिनी । उमावल्लभ उमायास्तन्नाम्न्या महाराइयाः, अन्यत्र भगवत्याः पार्वत्याः वल्लभः प्रियः पतिरिति यावत् । 'वल्लभो दयितेऽध्यक्षे सलक्षणतुरङ्गमे ।' इति मेदिनी । गां पृथिवीम्, अन्यत्र वृषभं नन्दिकेश्वरमिति यावत् । 'स्वर्गेषुपशुवाग्वज्र दिङ्नेत्रघृणिभूजले ।' इत्यमरः । आक्रम्य वशीकृत्य, अन्यत्र उपविश्य । राजति विभाति । अत्र शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणं चोक्तं प्राक् ॥ ११ ॥ इति ।
लक्ष्यं सङ्गमयति-अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृते पद्य इति यावत् । उमानाम्म्री । महादेवी महत्यसौ देवी अभिषिक्ता राज्ञीति तथोक्ता । 'देवी कृताभिषेकाया' मित्यमरः । तद्वल्लभभानुदेवनृपतिरूपे तस्या उमाया महादेव्या इति यावत् वल्लभः पतिः, सोऽसौ भानुदेवनृपतिस्तद्रूपे । उमाशब्दस्य । अभिधेयेऽभिधया प्रतिपाद्येऽर्थ इति यावत् । प्रकरणेन राजस्तवनपर काव्यसम्वन्धितयाऽस्य पयस्य राजस्तवनमात्रपरेण प्रस्तावेन । नियन्त्रिते 'संयोगो विप्रयोगश्चेत्याद्युक्तदिशा नियम्योद्भाविते सतीत्यर्थः । गौरीवल्लभरूपो गौर्या उमापरपर्य्यायाया महादेव्या वल्लभः प्रियः शङ्कर इति यावत् तद्रूपः । अर्थः । व्यञ्जनयाsभिधामूलया व्यञ्जनाशक्त्येति भावः । एष । बोध्यते ।
इदमुक्तम् - एकत्र उमाया देव्या वल्लभो राजा, अन्यत्र शङ्कर इत्यर्थः, अत्राद्यो वाच्यः अन्त्यः पुनर्व्यङ्गयः । अत वाद्यस्य प्राकरणिकत्वम्, अन्यस्याप्राकरणिकत्वम् । तथाहि 'दुर्गालङ्घितविग्रहः' इत्यादीनामनेकार्थानां पदानां प्रकरणेन - प्राकरणिके तस्मिन् राज्ञि तदन्वययोग्येऽर्थे च अभिधाया नियन्त्रितत्वेऽपि सहृदयानां हृदये प्रतिभासामर्थ्यात् महेश्वरस्य तदन्वयोचितस्य चार्थस्य प्रतीतिर्या, सा व्यञ्जनयैव सम्पादितेति अप्राकरणिकस्य द्वितीयस्यार्थस्य तात्पर्यविषयस्यापि तात्पर्यग्राहकप्रकरणाद्यसद्भावात् व्यङ्गथावबोधविषयत्वम् उभयोरप्येतयोरर्थयोर्मिंथ एकवृन्तगतफलद्वयवदेकत्रैव समुल्लासे उपमयोपमेयभावः पुनर्व्यज्यते, अन्यथाऽसम्बद्धयोस्तयोर्बोधकत्वपार्थक्येन वाक्यभिन्नत्वमापद्येत । अनुभूयमानस्य च सादृश्योत्तम्भितोपमाऽऽस्वादस्य व्यवच्छेद एव स्यात् । इति । इदं बोध्यं च भानुदेवरूपमर्थ प्रकरणसाचिव्येन उपस्थाप्याभिधाया विरतत्वात्, लक्षणायाश्च मुख्यार्थबाधहेतुकतया मुख्यार्थबाधस्य च प्रकृतेऽसम्भवात् तात्पर्यायाश्चाभिहितलक्षित संसर्गमात्रबोधन नियतत्वात् या हि प्रकृते द्वितीयार्थ प्रतीतिस्तद्धेतुभूता तुरीया व्यञ्जनैव वृत्तिः । न चार्थभेदेन शब्दभेद' इति नयेन अत्रापि शब्दद्वैविध्यमङ्गीकार्य्यम्, एवं च अर्थयोः साजात्याभावान्नाप्यैकात्म्य भ्रान्तिः तदिति तेन तेन शब्देन तंतमर्थमुपस्थाप्य प्राथमिकायामभिधायां विरतायाम्, अपरा बोधयतु नाम तेन तेन द्वितीयमर्थम् । किं वृत्त्यन्तरकल्पनाऽऽडम्बरेणेति वाच्यम्, तयोर्द्वयोरेवार्थयोरभिधेयत्वे पूर्वपश्चाद्भावस्यानैयत्यापत्तेः द्वितीयार्थबोधने च 'धमिकल्पनातो वरं धर्म्मकल्पने' ति नयेन शब्दद्वैविध्यकल्पनापेक्षयाऽपरस्या वृत्तेरेव कल्पनौचित्याच 'उपस्थितं परित्यज्य अनुपस्थितकल्पने भानाभाव' इति नयेन तथा निर्वाहस्य दूषितत्वाच्च । इति दिक् ।
एवमुदाहृत्योदाहरणान्तरविषये प्राह- एवमित्यादि ।
एवम् | अन्यत्, 'उदाहरणमूह्य' मिति शेषः । यथा - 'अधिगम्य जगत्यधीश्वरादथ मुक्ति पुरुषोत्तमासतः । बचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः । ' इति । अत्र हि कस्यचिद्राह्मणस्य मुक्तेर्वर्णनं केवलं प्रतीयते । यदि तु एवं यथेदं व्यङ्गयोदाहरणं तथा अन्यत् अव्यङ्गयमित्यर्थः, तदा- 'भजन्ते भारतीलक्ष्मीपार्वत्यो याननन्तरम् । गुरून् देवीसहायांस्तान् प्रणमामि पुनः पुनः ॥' इति । अस्य हि मङ्गलाचरणपरिपूततया गुरोर्देवीसहायस्य ब्रह्मादीनां च देवानां स्मरणाभिधानपरत्वम् इदं मम ।