________________
६९
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । यथा मम तातपादानां महापात्रचतुर्दशभाषाविलासिनीभुजङ्गमहाकवीश्वरश्रीचन्द्रशेखरसा. न्धिविग्रहिकाणाम्। 'दुर्गालचितविग्रहो मनसिज सम्मीलयंस्तेजसा, प्रोद्यद्राजकलो गृहीतगरिमा विश्वग्वृतो भोगिभिः । नक्षत्रेशकृते क्षणो गिरिगुरौ गाढांरुचिं धारयन् गामाक्रम्य विभूतिभूषिततनू राजस्युमावल्लभः॥११॥'
उदाहरनाह-यथेत्यादि ।
मम विश्वनाथस्येत्यर्थः । तातपादानां पितृचरणानाम् । अत्र पादशब्दः पूज्यार्थः । यथोक्तम्। 'एकत्वं न प्रयुञ्जीत गुरावात्मनि चेश्वरे । उत्तमानां स्वरूपं च पादशब्देन पठ्यते ॥' इति महापात्र (प्रधानामात्य)चतुर्दशभाषा (मागध्यादिभाषा ) विलासिनीभुजङ्ग (जार ) महाकवीश्वरश्रीचन्द्रशेखरसान्धिविग्रहिकाणां सन्धिविग्रहविधानाविधानयोर्दक्षाणां.) 'कृता' विति शेषः । यथा
_ 'दुर्गालचितविग्रहः' इत्यत्रेति शेषः । दुर्गालवितविग्रहो दुगैईरत एवायान्त्याः शत्रुसेनाया विनाशाय कारितैर्दृढः सशस्त्रसैन्यावासविशेषैरलवितोऽव्यवहितो विग्रहः सङ्ग्रामो यस्य सः, दुर्गाश्रयमन्तरैव योद्धेत्यर्थः । यद्वादुर्गया पार्वत्या लधित आक्रान्तोऽधिकृत इति यावद् विग्रहः शरीरं यस्य सः (अर्द्धाङ्गतया पार्वत्या अङ्गीकारादिदमुक्तम्) 'दुर्गोमानील्योः स्त्री, दुर्गमे त्रिषु ।' इति, 'विग्रहः कायविस्तारविभागे ना, रणेऽस्त्रियाम् ।' इति च मेदिनी । तेजसा दीप्त्या कान्त्येति यावत् , यद्वा-तृतीयनेत्रोत्थेन ज्योतिषा । 'तेजः प्रभावे दीप्तौ च बले शुक्रेऽपी'त्यमरः । मनसिजं कामम् । शम्वरारिर्मनसिजः कुसुमेषुरनन्यजः ।' इत्यमरः । सम्मीलयन् अधिक्षिपन्, यद्वा-संहरन् । 'स्थित' इति शेषः । कान्त्या मदनस्य पराजेता, तेजसा मदनस्य दग्धा वेत्यर्थः । प्रोद्यद्राजकलः प्रोद्यन्ती प्रकर्षणोल्लसन्ती राजकला राज्ञः कला राजोचितमैश्वर्य्य चातुर्य्य वा यस्य सः' प्रचण्डप्रतापशाली राजनीतिज्ञप्रवरो वेत्यर्थः । यद्वाप्रोद्यन्ती सकलङ्कत्वक्षयिष्णुत्वदोषापरामृष्टतयोल्लसन्ती राजकला चन्द्रकला यस्य ( ललाटे) सः, अर्द्धचन्द्रशेखर इति भावः । 'राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ।' इति मेदिनी। 'प्रोक्ता कला स्त्रीचन्द्रेश-मात्रे शिल्पे च पाटधे। कालमाने मूलवृद्धौ' इति गोपाल: । गृहीतगरिमा गृहीतोऽधिकृतो गरिमा गुरुत्वं पूज्यत्वं येन सः, सर्व राजचक्र पराजित्य पूज्यत्वं प्राप्त इति भावः । 'अगृहीतगरिमे' ति पाठे तु न गृहीतो गरिमा स्वस्मिन् पूज्यत्वमूलो गर्वः येन सः, इत्यर्थः । अन्यत्र गरिम्णा' गृहीत इति गृहीतगरीमा । 'वाऽऽहितान्यादिषु ।' २॥२॥३७ इति पूर्वनिपातः । गरिम्णा स्वयं सेवित इति भावः । पाठान्तरे तु-न गृहीतः स्वीकृतः केनाप्यादतो गरिमा गुरुभावः अज्ञाननिवर्तकत्वादिपुरस्कृतपूज्यत्वसम्भारो यस्मात् यदपेक्षयाऽन्यस्येति तथोक्त इति भावः । 'प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धसृप्रदीर्घवृन्दारकाणां प्रस्थस्फवबहिगर्षित्रदाधिवृन्दाः ।' ६।४।१५७ इति गुरोर्गरादेशः । भोगिभिः क्षुद्रनृपैः सर्वा । 'भोगी भुजङ्गमेऽपि स्याद्रामपात्रे नृपे पुमान् ।' इति मेदिनी । विष्वक् सर्वतः । वृतः परिवेष्टितः । नक्षत्रेशकृते नक्षत्राणामीशोऽधिपतिश्चन्द्रस्तस्य कृते तदर्थम् । क्षण उत्साहरूपश्चन्द्रवंश्यतया चन्द्रस्यामोदयितृत्वनिर्बाधम् । 'अथ क्षण उद्धर्षः..' इत्यमरः । यद्वा-नक्षत्रेशवत् कृते क्षणशान्तदृष्टिः । कृतमीक्षणं दृष्टिभक्तेषु येन स कृतेक्षणः । 'ईक्षणं दर्शने दृशि । इति मेदिनी। गुरौ मान्यायाम् । गिरि वाण्यां वाक्य इति यावत् । गिरि गानादिरूपायाम्भागवतचारतकीर्तनरूपायां वा वाचि, गुरौ 'चेति शेषः । यद्वा-समस्त एवायं पाठः, तथा च-गिरेः पर्वतस्य कैलासस्येति यावत् , गुरुरधीशस्तत्र, कैलासाधीशे महादेव इति भावः । पर्वताधीशत्वं च तस्य 'गिरीशो गिरिशो मृडः।' इत्यमरायुक्त्या विदितचरम् । गिरीणां पूज्यानां गुरुः पूज्यः तत्र, परमात्मनीत्यर्थों वा । अन्यत्र-गिरीणां पर्वतानां गुरुरधिपतिस्तत्र, हिमालये इत्यर्थः । हिमालयस्य पर्वतेषु मुख्यत्वं 'स्थावराणां हिमालयः ।' 'हिमालयो नाम नगाधिराजः' इत्याद्यक्त्याप्रसिद्धम् । असमस्तपाठे तु-गिरि 'ओमित्युद्गीथमुपासीते' त्याद्युक्त्या ओङ्काररूपायां वाचि, गुरौ महति निर्विशेषे ब्रह्मणीति यावत् । 'चेति शेषः । 'गीर्वाग्वाणी सरखती।' इत्यमरः । 'गुरुस्त्रिलिङ्गयां महति दुर्जरालधुनोरपि । पुमानिषेकादिकरे पित्रादौ सुरमन्त्रिणि ॥' इति मेदिनी। 'गिरिः, पूज्येक्षिरुजि कन्दुके। शैले गैरेयके गीर्णावपी'ति हैमः । अत्र विषये सप्तमी । गाढामत्यन्तं घनरूपेणावस्थिताम् । रुचि प्रीतिं प्रकाशं वा । 'रुचिः स्त्री दीप्तौ शोभायामभिष्वङ्गाभिलाषयोः।' इति मेदिनी । धारयन् स्थापयन् । विभूतिभूषिततनुर्विभूत्या सम्पदा मुक्ताभरणादिनेति यावत् भूषिता तनुः शरीरं यस्य सः । यद्वा-विभूत्या