________________
६८
साहित्यदर्पणः ।
[ द्वितीय:
आदिशब्दात्'हमेतत्थ एद्दहमेतेहिं अच्छिवत्तेहिं । एद्दहमेत्तावत्थ एद्दहमेते हिं दिअएहिं ॥ १० ॥ ' इत्यादौ हस्तादिचेष्टादिभिः स्तनादीनां कमलकोरकाद्याकारकत्वम् । एवमेकस्मिन्नर्थेऽभिधया नियन्त्रिते या शब्दस्य अन्यार्थधीहेतुः शक्तिः, साऽभिधामूला व्यञ्जना | तानाम् अत एव मान्यानाम् । चण्डीदासादीनामिति भावः । व्याख्यानेषु । कटाक्ष निक्षेपेणापाङ्गपातेनोपचारादालोच नार्थ दृष्टिदानेनेत्यर्थः । अलम् । पर्याप्तम्, मन्दप्रयोजनमिति यावत् । अयम्भावः- “अर्थभेदेन शब्दभेदः" इति नयेन शब्दा भिन्नाः, 'काव्यमार्गे स्वरो न गण्यते' इति नयेन च युगपदुच्चारणविषयतया यत् श्लिष्यन्ति भिन्नं स्वरूपमपहुवते 'एकत्रुन्त गतं फलद्वय' मिति नयेन पुनर्यत्रार्थानेकत्वं स श्लेष इति सिद्धान्तानुरोधेन स्वराणामभिधानियामकत्वं न लोकेऽङ्गीकर्त्तव्यम्, अन्यथा श्लेषस्य मूलच्छेदो दुर्वारः । स्वरभेदे हि अर्थभेदः, अर्थभेदे च शब्दभेदः, शब्दभेदे च शब्दभेदस्वरूपानपह्नवेन 'एकत्रन्तगतफलद्वयवत् एकशब्दगतार्थद्वय निष्टत्वानुत्पत्तिः । इति ।
अथ 'स्वरादय' इत्यत्रादिपद निवेशस्य स्वारस्यं दर्शयति- आदिशब्दादियादिना ।
आदिशब्दात् ' खरादय' इत्यत्र पठितादिति शेषः ।
'एहमेत्तत्थणि एतावन्मात्रस्तनिका एतावन्मात्राभ्यां स्तनाभ्यां सम्पन्नेति यावत् । एद्दहमेत्तेहिं एतावन्मात्राभ्याम् । अच्छिवतेहिं अक्षिपत्राभ्यां नेत्ररूपाभ्यां पत्राभ्यामुपलक्षितेति यावत् । एद्दहमेत्तावत्था एतावन्मात्रावस्था । एद्दहमेत्तेहिं एतावन्मात्रैः । दिअएहिं दिवसकैः सम्पन्नेति शेषः । अत्रायच्छन्दः ॥ १० ॥ '
इत्यादौ हस्तादिचेष्टाऽऽदिभिः । चेष्टाssदिं विना एतावत्त्वादि प्रत्याययि तुमशक्यत्वादिदमुक्तम् । अत्रायादिपदेनाङ्गुल्यादीनां ग्रहणम्, अन्यादिपदेनाभिनयापदेशयोर्ग्रहणम् । स्तनादीनाम् । कमलकोरकाद्याकारकत्वम् । आदिपदेन उच्चत्वपुष्टत्वादीनां ग्रहणम् । 'वाच्यमि' ति शेषः । इदमुक्तम्- 'एद्दहमेत्तत्थणिआ.. ' इत्यादी [ कस्याश्चित् सौन्दर्यातिशयशालिन्याः केवलं श्रुतगुणगौरवाया नयनविषयमनुपेतायाः परिणेतुकामेन केनापि राजकुमारेण अवस्थाssदौ पृष्टे कस्यापि दूतस्योक्तौ ] कमलकोरकाकारेण हस्ताभिनयेन स्तनयो:, पद्मदलाकारेण नेत्रयोः, उच्चतापुष्टताप्रकर्ष प्रदर्शकारेण सुन्दयी उच्चतापुष्टतयोः अङ्गुल्यङ्कधारणाद्याकारेण हायन दिवससङ्ख्ययोश्च परिमाणविशेषे बुद्धिस्थ ( एतावन्मात्रांशभूत) मात्रपदशक्त्या नियमनम् । 'इतः स दैत्यः प्राप्तश्रीर्तेत एवाईति क्षयम् । विषवृक्षोऽपि संवद्ध स्वयं छेतुमसाम्प्रतम् ॥' इत्यत्र ( कुमारसम्भवीये पये ) तु स्वहृदयस्पर्शनरूपेण हस्तापदेशेन वक्तरीदं शब्दस्य शक्तेर्नियमनम् । इति ।
अथ फलितमाह - एवमित्यादिना ।
एवं निरुक्तप्रकारेण । एकस्मिन् 'विवक्षित' इति शेषः । अर्थे । अभिधया 'संयोगादिसाचिव्येन' इति शेषः । नियन्त्रिते नियम्योपस्थापित इत्यर्थः । सतिसप्तमीयम् । या । शब्दस्य 'अनेकार्थस्ये' ति शेषः । अन्यार्थधीहेतुरन्यो नियन्त्रिताद् व्यतिरिक्तोऽसावर्थस्तस्य धीर्बोधस्तस्या हेतुः कारणस्वरूपेति भावः । शक्तिः । सा । अभिधामूलाsभिधामूलमस्यास्तादृशी । व्यञ्जना । 'कथ्यत' इति शेषः । इदमवधेयम् - एकस्मिन् एव समये चमत्काराय यत्रार्थोद्भावोऽपेक्षितः, यश्चं शब्दशक्त्या साक्षाद् वाच्यः सन्नवतिष्ठते स सर्वः श्लेषस्य विषयः, यत्र तु पृथक्पृथक् समये चमत्कारायानेकार्थोद्भावोऽपेक्षितोऽपि शब्दशक्तेः सामर्थ्याक्षिप्त एव यश्चमत्कुरुते तत्र स व्यञ्जनयैवोन्नीयते । अत एवाभिधायां विरतायां व्यञ्जनाया व्यापारः सञ्चरते । यथोक्तं ध्वनिकारै: - 'यत्र शब्दशक्त्या साक्षादलङ्कारो वाच्यः सन् प्रतिभासते स सर्वः श्लेषविषयः । यत्र तु शब्दशक्त्या सामर्थ्याक्षिप्तं वाच्यव्यतिरिक्तं व्यङ्गयमेवालङ्कारान्तरं प्रकाशते स ध्वनेर्विषयः ।' इति, 'श्लेषे द्वयोरर्थयोर्वाच्यत्वम्, एककालत्वं च, इह (ध्वनौ) त्वेकस्य वाच्यत्वम्, अपरस्य व्यङ्गयत्वम्भिन्नकालवं च ।' इति गङ्गाधरकारैश्च । इति ।
१ एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतावन्मात्रावस्था, एतावन्मात्रैर्दिवसैः ॥' इति संस्कृतम् ।