________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। काकादय उदात्तादयो वा व्यङ्गयरूपमेव विशेष प्रत्याययन्ति, न खलु प्रकृतोक्तमनेकार्थशब्दस्य एकार्थनियन्त्रणरूपं विशेषम्। किश्च-यदि यब क्वचिदनेकार्थशब्दानां प्रकरणादिनियमाभावादनियन्त्रितयोरपार्थयोरनुरूपस्वरवशेनैकत्र नियमनं वाच्यं, तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः। न च तथा, अत एवाहुः श्लेषनिरूपणप्रस्तावे 'काव्यमार्गे स्वरो न गण्यते इति च नये ।' इति । इत्यलमुपजीष्यानां मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण ।
पत्त्यवसर इति भावः।' इति । इदमुक्तम्-'हास्यशङ्गारयोः कायौँ खरौ मध्यमपञ्चमौ । षड़जर्षभौ तथा चैव वीररौद्राद्धतेषु च ॥ गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे। धैवतश्चैव कर्तव्यो बीभत्से सभयानके ॥.. तत्र हास्यशृङ्गारयोः स्त्ररितोदात्तैः, वीररौद्राद्भुतेषूदात्तकम्पितैः, करुणवात्सल्ये (बीभत्स ) भयानकेष्वनुदात्तस्वरितकम्पितैर्वर्णैः (स्वरैः ) पाट्यमुपपादयति ।' इति मुनिनिर्दिष्टनयेन हास्यशृङ्गारादिषु, 'उत्तरोत्तरसजल्पे पुरुषाक्षेपणे तथा । तीक्ष्णरूक्षाभिनयन आवेगे ऋन्दिते तथा ॥ परोक्षस्य समाह्वाने तर्जने त्रासने तथा । दूरस्थाभाषणे चैव तथा निर्भत्सनेषु च ॥ सर्वेष्वेतेषु नित्यं हि नानारससमाश्रया। उच्चा दीप्ताहृता चैव काकुः कार्य्या प्रयोक्तुभिः ॥ दष्टा नष्टानुसारेण इष्टा नष्टश्रुतौ तथा । दृष्टार्थांख्यापने चैव चिन्ताग्रस्ते तथैव च ॥ उन्मादेऽसूयने चैव उपालम्भे तथैव च । यानि सौम्यार्थयुक्तानि सुखभावकृतानि च ॥ मन्द्रा विलम्बिता चैव तत्र काकुर्विधीयते । यानि स्यस्तीक्ष्णरूपाणि दीप्ता चोच्चा च तेष्वपि ॥ एवं नानाऽऽश्रयोपेतं पाठ्यं योज्यं प्रयोक्तभिः । हास्यशृङ्गारकरुणेस्विष्टा काकुर्विलम्बिता ॥ एवं भावरसोपेता काकु: कार्थ्यां प्रयोक्तृभिः ॥' इति मुनिनिरुक्तदिशा च काकूनामन्यत्रापि विशेषप्रतीतिकृत्त्वे, वेदमात्रे तथाऽभिधानान्न तेषाम्मतं ज्यायः । इति ।
उत्तरयति-तन्नेत्यादिना ।
तत् 'यदुक्तं पूर्वपक्षिणा' इति शेषः । न । 'युक्तम्' इति शेषः । उपपाद्यते-तथाहि-स्वराः। काकादयः। अनादिपदं प्रकारवचनम् । तथा च-सप्रभेदा काकुरिति निष्कृष्टम् । वाऽथवा ।उदात्तादयः। आदिपदेन स्वरितादीनां ग्रहणम् । 'ये सन्ति ते सर्वे' इति शेषः। व्यङयरूपम्। एव न त्वभिधेयरूपमिति भावः। विशेषम् । प्रत्याययन्ति प्रतीतिपथं नयन्ति । न खलु न तु प्रकृतोक्तं प्रसङ्गानुप्रसक्तम्। अनेकार्थशब्दस्य। एकार्थनियन्त्रणरूपम् । विशेषम्। देहलीदीपकन्यायेन 'प्रत्याययन्ती'ति पूर्वतोऽन्वेति। अयम्भावः-काक्कादय उदात्तादयो वा स्वरा व्यङ्गयार्थप्रत्यायन एव निमित्तीभवन्ति, न तु संयोगादय इवात्रेकार्थस्य शब्दस्य विशेषप्रत्यायन इति नैषामभिधानियामकत्वं वाच्यम् । इति । किञ्च कारणान्तरमप्यस्तीति प्रदर्श्यत इति भावः । यदि । यत्र । क्वचित् । 'येनातिनिन्द्यचरितेन मनुष्यधर्मा सम्पर्लात् कवलिता कुटिलेन हन्त। पापेन तेन सहजेन तिरस्कृतं मांश्रीरामचन्द्र ! परिपालय दीनबन्धो॥' इत्यादाविति शेषः । अनेकार्थशब्दानां 'सहजादीना'मिति शेषः । प्रकरणादिनियमाभावात् । अत्र 'संयोगादिनियमाभावादिति वक्तव्येऽपि तथाऽभिधाम प्रकरणस्याभिधानियमने प्राधान्यख्यापनार्थम् । अनियन्त्रितयोः । अपि । अर्थयोः 'सोदरस्वाभाविकादिरूपयोः' इति शेषः । अत्र द्विवचनं सजातीयविजातीयताभेदमात्रनिमित्तकम् । अनुरूपस्वरवर्शन विषक्षिताथापस्थापनानु कूलोदात्ताद्यन्यतमस्वरतन्त्रतयेति भावः । एकत्रैकस्मिन् विवक्षितेऽर्थ इति यावत् । नियमनम्। वाच्यं वाच्यत्वेनापद्यतेति भावः । कैवं क्षतिरित्याह- तदा। तथाविधस्थले 'अनुत्तमयशा लोके विलक्षणविलोचनः' इत्यादाविति शेषः। श्लेषानङ्गीकारप्रसङ्गः । 'अनभिमतोऽप्यापद्यते'ति शेषः । ननु कथं न तत्र श्लेषानङ्गीकारोऽभिमत इत्याह-न च न त्वित्यर्थः । तथा 'अभिमत' इति शेषः । आचाय्यैः स्वरभेदेऽपि श्लेषस्याङ्गीकृतत्वादिति भावः । इदं वाक्यतात्पर्य्य च-यदि स्वराणामभिधानियामकत्वमभविष्यत्, तर्हि समासभेदेनैकत्रैव यत्रानेकार्थाभिधानमभिमतं तन्नाभविष्यत् । अतः स्वरैरभिधानियमनं वेद एव, न तु काव्ये (लोके) इति। अत एव-श्लेषनिरूपणप्रस्तावे श्लेषस्य निरूपणं तस्य प्रस्तावः प्रसङ्गे। 'प्रकाशकारा' इति शेषः । आहुः। 'अर्थभेदेन शब्द' इति दर्शने इत्यभिधानानन्तरमिति शेषः । 'काव्यमार्ग काव्यस्य श्लेषादिमद्वाक्यविशेषस्य मार्गों निरूपणप्रसङ्गस्तत्र। स्वर उदात्तादिरूप इत्यर्थः । न । गण्यते। खरमनपेक्ष्यैव काव्यमार्गस्यावस्थितत्वात् । इतीत्यस्मिन्नित्यर्थः। नये। च [ एतेन 'अर्थभेदेन शब्दभेदः इति दर्शने' इत्यस्य समुच्चयः ] 'वाच्यभेदेन भिन्ना अपि शब्दा यद् युगपदुच्चारणेन श्लिष्यन्ति भिन्नं स्वरूपमपह्नवते, स श्लेषः ।' इति शेषः । इति [अस्य 'आहु' रित्यनेनान्वयः । इति 'अस्मात् कारणा' दिति शेषः । उपजीव्यानामालङ्कारिकसिद्धान्तस्थापकतया खपूर्वजवंश्यतया वाऽऽश्रयभू.