________________
६६ साहित्यदर्पणः।
[ द्वितीयः'निशि चित्रभानुः' इति कालेन चित्रभानुर्वहिमेव, मित्रो भाति' इतिपुंन्यक्क्या मित्रः सूर्यमेव । * स्वरस्तु वेद एव विशेषप्रतीतिकृत , न काव्ये, इति तस्य विषयो नोदाहनः । इदं केप्यसहमाना आहुः-'स्वरोऽपि काकादिरूपः काव्ये विशेषप्रतीतिकृदेव । उदात्तादिरूपोऽपि मुनेः पाठोक्तदिशा शृङ्गारादिविशेषप्रतीतिकृदेव, इत्येतद्विषय उदाहरणमुचितमेव ।' इति, तन्न; तथाहि-स्वराः
'निशि रात्रौ। चित्रभानुरग्निः । 'चित्रभानुः पुमान् वैश्वानरे चाहस्करेऽपि च ।' इति मेदिनी ।' इति । 'अत्रेति शेषः । चित्रभानुः । कालेन निशासमयेन । वह्निम् । एव न तु सूर्यम् । 'अभिधत्ते' इति शेषः । यथा वा-'पर्वणिपर्वणि चन्द्रो मुदितो भवतीति विश्रुतं भुवने । अथ तव वदनं दयिते सदैव पश्यामि संहृष्टम् ॥' इति, अत्र हि पर्वणा चन्द्रः सुधांशुमेवामिधत्ते । इति दिक् । मित्रः सूर्यः । 'मित्रं सुहृदि मित्रोऽर्के' इति गोपाल: ।भाति ।' इति 'अत्रे'ति शेषः । पुव्यक्त्या पुँल्लिङ्गरूपया व्यक्त्या। मित्रः । सूर्य्यम् । एव न तु सुहृदम्। 'अभिधत्ते' ही पूर्वतोऽन्वेति । यथा वा-'सुरा सेव्यते,' 'सुरान् सेवते,' 'पद्मं पद्माऽधितिष्ठति,' 'सुमनांसीव सुमनसः,' 'चक्र, 'चक्रः' इति दिक् ।
प्रसङ्गप्राप्तं स्वरेणाभिधानियमनस्योदाहरणमुपेक्षमाणस्तत्र हेतुं दर्शयति-स्वरस्त्विस्यादिना ।
स्वरः श्रूयमाणशब्दस्य ध्वनिविशेषः । तु (एतेन संयोगादीनां व्यवच्छेदो दर्शितः)। वेदे । एव । विशेषप्रतीतिकृद्विशेषस्य शब्दस्यानेकेष्वर्थेषु मध्ये यस्य कस्यचिदेकतरस्य प्रतीतिस्तां करोतीति तथोक्तः । न नत्वित्यर्थः । . काव्ये उपलक्षणेन तादृशे सर्वस्मिन्नपि लौकिके वाक्य इत्यर्थः । 'विशेषप्रतीतिकृ'दिति पूर्वतोऽन्वेति । अयम्भावः'शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः । इत्युक्तदिशा यद्यपि स्वरस्यापि संयोगादेरिव विशेषस्मृतिहेतुत्वमभिधातुं शक्यम् , तथाऽपि तद्वेद एव न पुनर्लोके । इति । इति 'अस्मात् कारणा'दिति शेषः । तस्य स्वरस्येत्यर्थः । विषयो लक्ष्यम् । न । उदाहतः । इदमुक्तम्-'इन्द्रशत्रो विवर्धख'इत्यादौ इन्द्रशत्रो' इत्यादेः इन्द्रः शत्रुः शातयिता यस्येति बहुव्रीहौ बहवीही प्रकृत्या पूर्वपदम् ।' ६।२।१ इति पूर्वपदप्रकृत्तिखरे 'अनुदात्तं पदमेकवर्जम् ।' ११५८ इति शेषनिघाते आद्यपदान्तोदात्तत्वे इन्द्रस्य शातनकर्तृत्वम् , 'इन्द्रः शत्रुः शातयिता'इति तत्पुरुषे तु'समासस्य' ६।१।२२३ इत्यन्त्यपदान्तोदात्तत्वे इन्द्रस्य शातनकर्मत्वं लभ्यते । इत्येवं वेद एवाचाय्र्यैः स्वरस्य पार्थक्येनाभिधेयपार्थक्यमानातम् । तथाहि-'मन्त्रो हीनः खरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रु: खरतोऽपराधात् ॥' इति ।
. असतूपक्षनिराकरणपूर्वकं सत्पक्षसमर्थनं निर्णय इति सिद्धान्तमनुसृत्योक्तमेवार्थ द्रढयितुं तावत् पूर्वपक्षपातिनामभिप्रायमाविष्करोति-इदमित्यादिना ।
इदं प्रदर्शितपूर्व सिद्धान्तितं तात्पर्य्यम् , स्वरस्याभिधानियामकत्वं लोकातिरिक्त विषयमित्यभिधानमिति यावत् । (च) केऽपि । असहमानाः। केऽपि । आहुः। किमित्याह-'स्वरः। अपि । काक्वादिरूपः। सन्निति शेषः । काव्ये। विशेषप्रतीतिकृत् । एव । 'अस्ती'ति शेषः । उदात्तादिरूपः। अपि स्वर' इति शेषः । मनेर्भरतस्योपचारात्तदीयग्रन्थस्येत्यर्थः । पाठोक्तदिशा पाठप्रकारेणेति भावः । शारादिविशेषप्रतीतिकृत शृङ्गारादिषु विशेषोऽन्यतमस्तस्य प्रतीतिस्तां करोतीति तथोक्तः । 'अस्ती'ति शेषः । एव । इति इत्यस्मात् कारणात् । एतद्विषय एतस्य स्वरस्य विशेषप्रतीकत्वस्य विषयस्तत्र । उदाहरणम् । उचितम् । एव नात्र कोऽपि विप्रति
* 'सश खचको हरिः' इत्यत्र शङ्खचक्रसंयोगेन हरिशब्दो विष्णुमेवाभिधत्त । 'अशखचक्रो हरिः' इति तद्वियोगेन तमेव । 'भीमार्जुनौ' इति अर्जुनः पार्थः । 'कर्णार्जुनौ इति कर्णः सूतपुत्रः। 'स्थाणुं वन्दे' इति स्थाणुः शिवः । 'सर्वे जानाति देवः' इति देवो भवान् । 'कुपितो मकरध्वजः' इति मकरध्वजः कामः। 'देवः पुरारिः (पुरारातिः) इति पुरारिः शिवः । 'मधुना मत्तः कोकिलः (पिकः )' इति मधुर्वसन्तः । 'यातु वो दयितामुखम् ,' 'दयिता यातु वो मुखम्' इति मुखं सम्मुखम् । 'विभाति गगने चन्द्रः' इति चन्द्रः शशी । 'निशि चित्रभानुः' इति चित्रभानुर्वह्निः । 'भाति रथाङ्गम्' इति नपुंसकव्यक्त्या रथाचं चक्रम् । इति पाठान्तरं प्रायो मुद्रितपुस्तकेषु ।