________________
साहित्यदर्पणः ।
[ तृतीय:स्थलेषूपचारेण प्रयोगो ज्ञेयः । नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवति, व्यञ्जनायाश्च ज्ञानविशेषत्वाद्वयोरैक्यमापतितम् । ततश्च
'स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः । यथा दीपोऽन्यथाभावे को विशेषोऽस्य कारकात् ॥' इत्युक्तदिशा घटमदीपवद् व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यता ? निषेधतीति बोध्यम् । तथा च रस्यमानतामात्रसारत्वाद्धेतो रसः संवेदनात्मैव भेदाभिधानं पुनरुपचारादिति निष्कृष्टम् । एवम् । अन्यत्रान्येषु । अपि । एवंविधस्थलेषु । उपचारेण गौण्या वृत्त्येत्यर्थः । प्रयोगः । ज्ञेयः ।
उत्तमर्थे द्रढयितुमाक्षेपसमाधी दर्शयति-नन्वित्यादिना ।
ननु । एतावतैतदवधिकेन प्रतिपादनेनैतेन रसस्य ज्ञानविशेषात्मताप्रदर्शनेनेति यावत् । रसस्य । अज्ञेयत्वं ज्ञेयत्वाभावः । उक्तं प्रतिपादितमिति भावः । भवति । 'अज्ञेयस्य च कथं सद्भावं प्रतीम' इति शेषः । अत्रेदमालोचनम्–ज्ञानविशेषविशिष्टास्वादमात्रात्मको रस इत्युक्तं, स च ज्ञानविषय इति वक्तुमसाम्प्रतम् । तथाहि -ज्ञानं तावद्विविधं सविकल्पकं निर्विकल्पकं चेति । नामरूपजात्यादिविशेषशालिज्ञानं सविकल्पकम्, निर्विकल्पकं पुनस्तद्विपरीतम् । अथायं कस्य विषयः स्यादिति विचार्य्यम्, नायस्य, रसमात्रविषयिण्यां चर्वणार्या प्रतीत्यन्तरासम्भवे नामरूपजात्यादिविशेषोल्लेखासम्भवात् नाप्यन्त्यस्य, विभावादिसंवेदनस्य निर्विकल्पकत्वायोगात् । इति । तर्कवागीशास्तु“ विभावादीनां प्रत्येकं पूर्व ज्ञानं ततः - विभावादिविशेषणकानन्दविशेष्यकज्ञानम्, तद्विषयत्वमेव विभावादिमेलकः, तस्मादेव य आनन्दो जायते तत्संवलितानां मिलितविभावादीनां या संवित्सैव रस इति स्थितिः । तत्र ज्ञानस्य क्षणनन्तरं त्रिक्षणानन्तरं वा पूर्वपूर्वस्य ध्वंस इति नियमाश्चरमज्ञानरूपायां रसचर्वणायां पूर्वपूर्वज्ञानस्य च ध्वंसे स्वारम्भकारणध्वंसोत्तरं कार्य्यध्वंसस्यापि नियतत्वादानन्दस्यापि ध्वंसः, तत्कथं पुनारसानुभवः स्यादित्यभिप्रेत्याशङ्कते - ननु .. ' इत्युद्घोषयन्तः प्राहुः ‘ननु विभावादिमेलकाज्जायमानानन्दसंवलित - मिलित विभावादिसंविद्रस इत्युक्तं भवति, विभावादीनां मेलकश्च विभावादिविशिष्टवैशिष्टयावगाह्येकज्ञानविषयत्वमित्यवश्यं वाच्यम्, प्रकारान्तरेण तन्निरूपणस्याशक्यत्वात्, तादृशज्ञानं च विभावादिप्रत्येकज्ञानादेव भवति । एवं च तादृशज्ञानानन्तरं रसास्वादः कथं जायतामुपायाभावादित्यभिप्रायैणाशङ्कते-ननु.. ।' इति । ननु तर्हि व्यञ्जनया रसास्वादः स्यादिति चेदेवमपि न वाच्यमित्याह - व्यञ्जनायाः । च रसस्येत्यर्थः । ज्ञानविशेषत्वा ज्ञानविशेषरूपत्वात् । द्वयोर्व्यञ्जनाया रसस्य चेत्यर्थः । ऐक्यं ज्ञानविशेषेणाभिन्नरूपत्वम् । आपतितमनभिमतमपि बलादुपस्थितमित्यर्थः । ततस्तस्माद् व्यञ्जनाया रसस्य चैक्यापातादित्यर्थः ।
"सिद्धे पूर्ववर्त्तिनि । अर्थे 'सती 'ति शेषः । स्वज्ञानेन स्वं व्यञ्जकत्वेन यदभिमतं तस्य ज्ञानेनेति भावः । अन्यधीहेतुरन्यस्य शक्यलक्ष्यतात्पर्य्यार्थेभ्यो व्यतिरिक्तस्यार्थस्य या धीर्ज्ञानं तस्या हेतुः कारणम् । व्यञ्जको व्यञ्जनया वृत्त्याऽर्थबोधकः शब्दः । मतः स्वीकृतः । तदेव स्पष्टयति-यथा । दीपः । ' सिद्धेऽर्थे खज्ञानेन ( स्वप्रकाशेन ) अन्य (घटादि ) धी (प्रकाश) हेतुर्मतस्तथे 'ति शेषः । अन्यथाभावे सिद्धार्थज्ञापकत्वाभावेऽङ्गीकृते सतीत्यर्थः । अस्य व्यञ्जकस्य । कारकाज्जनकात् । कः किंस्वरूपः । विशेषोऽवच्छेदकधर्म्मः । 'स्या' दिति शेषः ॥ अयम्भावः---जनकोऽसिद्धमर्थमुत्पादयति, व्यञ्जकस्तु सिद्धमर्थ ज्ञापयत्येव, न तूत्पादयति, असिद्धार्थस्यैव उत्पत्तिसम्भवात्, अतः यथा प्रदीपः स्वप्रकाशेन घटादेर्शापको भवति, तथा व्यञ्जकोऽपि शब्दः सिद्धस्यैवार्थस्य । अन्यथा-जनकज्ञापकयोरैक्यमापतेत् । इति ।' इत्युक्तदिशा । घटप्रदीपवत् घटप्रदीपयोरिवेत्यर्थः । ‘तत्र तस्यैव।' ५।१।११६ इति वतिः। व्यङ्ग्यव्यञ्जकयोः । पार्थक्यम् । एव न त्वैक्यमित्यर्थः । इति इत्यस्मात् कारणादित्यर्थः । रसस्य 'रस्यमानतामात्रसारत्वात् प्रकाशशरीरादनन्य एव हि रस:' इति निरूपितनयेन ज्ञानविशेषात्मनाऽभि
१ रसस्य तु संविद्विशेषात्मकत्वं विदितचरम् । अथ व्यञ्जनाया दीपकस्येव व्यञ्जक ( प्रकाशक ) स्वेन प्रकाश ( ज्ञान ) विशेषात्मकत्वं वाच्यम् । अत्र च प्रकाशः संवेदनानतिरिक्त एवाभिमतः । अत एव - 'प्रकाशशरीरा' दित्युक्तं सङ्गच्छते ।