________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । इति चेत् ? सत्यमुक्तम् । अत एवाहुः-'विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद् व्यापारः।' इति । अत एव-रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशाः । इति । अभिधाऽऽदिविलक्षणव्यापारमात्रप्रसाध(द)नग्रहिलैस्त्वस्माभी रसादीनां व्यङ्गयत्वमुक्तम् । इति ।
ननु तर्हि करुणाऽऽदीनां रसानां दुःखमयत्वाद् रसत्वं न स्यात् ? इत्युच्यते
मतस्य चमत्कारस्येत्यर्थः । कथम् 'व्यञ्जनाया अपि ज्ञानविशेषात्मनाऽभिमतत्वेन रसव्यञ्जनयोरभेदापत्ता' विति शेषः । व्यङयता?न केनापि प्रकारेण व्यङ्ग्यता सम्भवतीति भावः । इति । चत् ? सत्यम (अत्राङ्गिीकारेऽव्ययमिदम्)। उक्तम् । तदेव समर्थयते-अतः अस्मात् कारणात् रसस्यैवं व्यङ्गयत्वासम्भवात् हेतोरिति यावत् । एव । आहुः 'अभिनवगुप्तपादाचार्य्याः' इति शेषः । किमित्याह-'अयं रससाक्षात्कारानुकूल इति भावः । स्वादनाख्यः स्वादनं चर्वणाऽऽख्या नाम यस्येति तथोक्तः । कश्चित् अनिर्वचनीयात्मा सहृदयहृदयैकप्रमाणक इत्यर्थः । व्यापारः शक्तिविशेषः । कृतिज्ञप्तिभेदेभ्यः कृतिः प्रयत्नश्च ज्ञप्तिर्ज्ञापनं चेति तद्भेदेभ्यः । तत्र कृतेर्भेदा नानाशरीरादिचेष्टाविशेषसाध्याः, ज्ञप्तेर्भेदाः ज्ञानानुकूलव्यापारविशेषाः । पुनर्व्यञ्जनाऽऽदय इति बोध्यम् । विलक्षणो विभिन्नः । ब्यापारः।' इति । एतेन फलितं निर्दिशति-अतोऽस्मात् कारणात् । एव । रसनास्वादनचमत्करणादयो रसनमास्वादनं चमत्करणं चेत्येतान्यादयो येषां तादृशा रसास्वादचमत्कारा इत्यर्थः । विलक्षणा अद्भुता अनिर्वचनीया इति यावत् । एव । व्यपदेशा उक्तिसिद्धान्ताः । इति । तादृशं सिद्धान्तमनुसृत्यैव रसस्य विलक्षणत्वं तैय॑पदिश्यत इति हृदयम् ।
अथ खमतं निर्दिशति-अभिधाऽऽदि..इत्यादिना ।
अभिधाऽऽदिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरभिधाऽऽदिभ्योऽभिधालक्षणातात्पर्य्याख्याभ्यो वृत्तिभ्यो विलक्षणो यो व्यापारो व्यजनव्यापारः स एवेति तस्य प्रसाध (द)नं युक्त्यादिना सिद्धान्तरूपेण स्थापनं तत्र प्रहिलाः सयत्नास्तैस्तथाभूतैः । तु पुनः । अस्माभिः। रसादीनां शृङ्गारादीनां निर्वेदादीनां तदाभासादीनां चेत्यर्थः । व्यङ्गयत्वं व्यञ्जनाजन्यबोधविषयत्वम् । उक्तम् 'व्यक्तः सञ्चारिणा तथा ।' इत्यादिनेति शेषः ।
अत्रेदं तत्त्वम्-"प्रथम काव्यनाट्यश्रवणदर्शनाभ्यां विभावानुभावयोरुपस्थितिः, एवमाक्षेपेण क्वचिच्छब्देन च झटिति एव व्यभिचारिस्थायिभावयोः । सा च दोषविशेषमहिना सम्भवति, ततः साधारणीकरणव्यापारबलेन शकुन्तला मम दुष्यन्तस्य वेति विभावादिचतुष्टये साधारण्येन प्रत्ययः, ततश्च व्यञ्जनया रससदशाकारः प्रत्ययः, तदनन्तरं व्यञ्जनासहकृतेन वादनाख्यव्यापारविशेषेण 'दुष्यन्तोऽहं शकुन्तलाविषयकरतिमान्' इत्यात्मकः खवासनायां रत्यभेदं स्वस्मिंश्च नायकाभेदमवगाहमानः साक्षात्कारं लभते । 'भूतलं रजतवत्' इति भ्रमे शुक्तित्वमिव वासनात्वादिकमत्र न भासते।" इति प्राश्चः, नव्यास्त्वाहुः-"व्यञ्जनयैव रसादीनां प्रतिपत्तिरङ्गीकाऱ्यां। किमधिकेन वासनाऽऽदिनानापदार्थकल्पनाव्यापारेण ? तथाहि-व्यञ्जनया दुष्यन्तादौ प्रतीयमानो रत्यादिज्ञानसम्बन्धेन सामाजिकवृत्तिः रसः, रत्यादिज्ञाने च 'दुष्यन्तः शकुन्तलाविषयकरतिमान् इत्यात्मकमेव, यथा-चिरविनष्टस्यापि यागादेः स्वजन्यापूर्वसत्त्वेनैव स्वगोंद्यव्यवहितपूर्ववृत्तित्वं कल्प्यते, तथाऽतीतस्यापि रत्यादेः खगोचरज्ञानसत्त्वेनैव सामाजिकवृत्तित्वं कल्प्यते।" इति । ननु "रसव्यञ्जनयोः पूर्वोक्तदिशा ऐक्यं कथं न तर्हि समापतेत् ! इति चेत् ! न, व्यञ्जनाया वक्तृतात्पर्य्यरूपज्ञानात्मना निरूपणाद्रसस्य च तद्भिन्नत्वात् विभावादीनां प्रत्येकं ज्ञानं जनकं, विशिष्टज्ञानं च जन्यमिति भेदाङ्गीकाराद्वा । न च साक्षात्कारस्यैवास्वादरूपत्वं, नतु 'व्यजनाजन्यबोधस्येति वाच्यम्, व्यङ्गयचारुतयैव व्यञ्जनाजन्यबोधस्यापि आस्वादरूपत्वसम्भवात् । ननु वासनाया अनङ्गीकारेऽपि श्रोत्रियादीनां रसाभिव्यक्तिः कथं न सम्पद्यते ? इति चेत् ? न, पुण्यविशेषवत्त्वाभावात् ।" इति ।
अथ रसस्यानन्दमयत्वं साधयितुं तत्र तावत्पूर्वमवतारयति-नन्वित्यादिना ।
ननु । तर्हि 'यदि रस आनन्दमय इति स्वीक्रियते इति शेषः । करुणाऽऽदीनां करुणबीभत्सभयानकादीनाम् अनिष्टावेगादीनां च । रसानामादःखमयत्वात दुःखप्रधानत्वात्। (तच तेषां शोकादिस्थायिकत्वेन स्पष्टम्।) रसत्वम। न । स्यात 'आनन्दमयत्वाभावादिति शेषः । इति इत्याशङ्कायाम्, उच्यते । ३६ करुणादौ.. इत्यादिना ।