________________
साहित्यदर्पणः।
[तृतीयः३६ करुणादावाप रसे जायते यत् परं सुखम् ।
सचेतसामनुभवः प्रमाणं तत्र केवलम् ॥ २७ ॥ आदिशब्दाद् बीभत्सभयानकादयो गृह्यन्ते । तथापि, असहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते--
३७ किञ्च तेषु यदा दुःखं न कोऽपि स्यात्तदुन्मुखः । ___ नहि कश्चित् सचेतन आत्मनो दुःखाय प्रवर्तते, करुणादौ च सकलस्यापि साभिनिवेशं प्रवृत्तिदर्शनात् सुखमयत्वमेव । अनुपपत्त्यन्तरमाह
३८ तथा रामायणादीनां भविता दुःखहेतुता ॥ २८ ॥ ___३६ करुणाऽऽदौ करुणबीभत्सादौ अनिष्टावेगादौ चेत्यर्थः । अपि किं पुनः सम्भोगशृङ्गारादौ हर्षादौ चेत्यर्थः । रसे । यत् किञ्चिदनिर्वचनीयमिति शेषः। परं सातिशयम् । सुखम् । जायते। तत्र तस्मिन् जायमाने सुखे उपचारात्तत्सत्तायामित्यर्थः। सचेतसां सहृदयानां तदनुभवामोदितहृदयानां विदुषामिति यावत् । अनुभवः। केवलम् । 'सर्वोत्कृष्ट मिति शेषः । प्रमाणम् । यद्यपि 'रसो वै सः' 'रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति।' इत्यादिश्रुत्यादिरपि प्रमाणम् , तथाऽपि तदविश्वासिनं प्रतीयमुक्तिरिति प्रतीयते ॥ २७ ॥
आदिपदार्थ विबोधयति-आदिशब्दादित्यादिना ।
आदिशब्दात् तदुपादानादिति भावः । 'करुणाऽऽदा' वित्योति शेषः । बीभत्सभयानकादयः। अत्राप्यादिशब्दात् अनिष्टावेगादीनां ग्रहणम् । गृह्यन्ते । नन्वेतद् वञ्चनमात्रम् ! यदि शोकादिस्थायिभावानां करुणादीनामनिष्टादिमूलानामावेगादीनामपि आनन्दमयत्वं निर्बाधं ? तर्हि किन्न परेषामपि अनुभवविषयमित्याशङ्कामुन्मूलयन्नाह-तथापीत्यादि ।
तथाऽपि यद्यपि सहृदयहृदयप्रमाणको रस आनन्दरूप एवतदपीत्यर्थः । असहदयानामनुभवविधुरतया तथा तथा स्वपक्षोपन्यासमात्रपराणां मन्दधियामित्यर्थः । मुखमुद्रणाय मुखस्योपचारात्तद्वाचो मुद्रणं तस्मे, ता मित्यर्थः । मुद्रयितुं तद्वयापारमवरोद्धमिति भावः । पक्षान्तरम् । उच्यते । ३७ किश्चेत्यादिना।
३७ किश्च । तेषु करुणाऽऽदिष्वनिष्टावेगादिषु च रसभावेष्वित्यर्थः । यदा यदि । दुःखम्। 'वस्तुतोऽ स्त्येवेति शेषः । तर्हि-तदुन्मुखस्तेषु करुणादिषून्मुख उद्युक्त इति तथोक्तः। उत्कृष्टं मुखमुपायो यत्नो यस्येति तथोक्तः । 'मुखं निःसरणे वक्र प्रारम्भोपाययोरपि ।' इति मेदिनी। कोऽपि कश्चिदपि प्राणीत्यर्थः। न । स्यात् यत् करुणादौ सर्वोऽप्युन्मुखस्तस्मानास्य दुःखहेतुत्वमिति भावः ।
तदेव स्पष्टयति-नहीत्यादिना ।
हि यतः । कश्चित् । सचेतनश्चेतनेन जीवात्मना सह वर्तत इति तथोक्तः सन् । आत्मनः खस्य । दुःखाय कष्टलाभार्थम् । न। प्रवतंते यतत इति भावः। अत एव-'आत्मनः कामाय सर्व प्रियं भवतीत्यादिः श्रुतिरपि स्वात्मनः प्रेम्णे एवेतरेषां प्रेमाह । ननु कथमेतावता करुणादीनामानन्दहेतुत्वं समर्थितमित्यत आह-करुणादौ । च। सकलस्य कलाभिनानादाक्षिण्यसम्पत्तिभिः सह वर्त्तत इति तस्य तथोक्तस्य । अपि किं पुनरन्यस्येति भावः । साभिनिवेशं साग्रहम् । प्रवृत्तिदर्शनात् । सुखमयत्वं प्रचुरसुखरूपत्वम् । एव निश्चितम् ।
करुणादेवुःखमयत्वाङ्गीकारेऽनिष्टान्तरं दर्शयितुं प्रतिजानीते-अनुपपत्त्यन्तरमित्यादिना ।
अनुपपत्त्यन्तरमन्या प्रदर्शिताया अनुपपत्तेर्भिन्नाऽनुपपत्तिरिति तत्तथोक्तम् 'मयूरव्यसकादयश्च ।' २०७२ इत्यनेन निपातात्साधुः ॥ आह-३८ तथा.. इत्यादिना ।।
३८ तथा पुनः रामायणादीनां करुणादिरसप्रधानानां महाप्रबन्धानाम् । दुःखहेतुता दुःखकारकत्वम् । भविता भविष्यति ॥ २८ ॥