________________
परिच्छेदः ]
रुचिराख्यया व्याख्यथा समेतः। करुणादिरसस्य दुःखहेतुत्वे करुणादिरसप्रधानरामायणादीनामपि दुःखहेतुता स्यात् । ननु कथं दुःखकारणेभ्यः सुखोत्पत्तिरित्याह
३९ हेतुत्वं हर्षशोकादेर्गतेभ्यो लोकसंश्रयात् ।
हर्षशोकादयो लोके जायन्तां नाम लौकिकाः ॥ २९ ॥ अलौकिकविभावत्वं प्राप्तभ्यः काव्यसंश्रयात् ।
सुखं प्रजायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः ॥ ३०॥. ये खलु वनवासादयो लोके दुःखादिकारणान्युच्यन्ते, त एव काव्यनाट्ययोः समर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते
तदेव विवृणोति-करुणादिरसस्येत्यादिना।
करुणादिरसस्य करुणाद्यनिष्टावेगादिरूपस्य रसस्य (भावानामपि रसत्वप्रतिपादनादिदमुक्तम्)। दुःखहेतुत्वे दुःखस्य हेतुभूतत्वे सति । करुणादिरसप्रधानरामायणादीनां करुणादिरसः प्रधानं प्रधानतया वर्तमानो यत्र तानि रामायणादीनि तेषां तथोक्तानामार्षकाव्यानामिति भावः । अपि । दुःखहेतुता दुःखकारकत्वम् । स्यात् । न चास्तीति तदत्याहितं वच इति भावः । ___ ननु कारणानुकूलं कार्योत्पत्तेर्नियतत्वात् कथं शोकादिस्थायिभावेभ्यः करुणादिभ्यः सुखं समुत्पद्यत इत्याशङ्कयोत्तरयितुं प्रतिजानीते-नन्वित्यादिना ।
ननु । दःखकारणेभ्यो दुःखस्य क्लेशस्य कारणानि तत्स्वरूपभूताः करुणादिरसानां स्थायिभावाः शोकादयस्तेभ्यः । कथं केनोपायेन । सुखोत्पत्तिः ? इत्याह, इत्येवमाशङ्कायामुत्तरयति-३९ हेतुत्वमित्यादिना ।
३९ लोकसंश्रयालोकः संसारस्तस्य संश्रय आश्रय आनुकूल्यमिति यावत् तस्मात् । यो हि यादशखभावस्तस्य तादशखभावानुकूल्यमवलम्व्येति भावः । 'लोकस्तु भुवने जने'इत्यमरः । हर्षशोकादेः । आदिना क्रोधजुगुप्सारतिहास्यादीनां ग्रहणम् । हेतुस्वं कारणत्वम् । गतेभ्यः प्राप्तेभ्यः । 'शत्रुस्ते परास्तः' 'पुत्रस्ते मृतः'इत्यादिवाक्येभ्यः शत्रुपराजयपुत्रमरणादिभ्यो दृश्येभ्यो वेति शेषः । लोके जगति । लौकिका लोके भवाः सर्वलोकसाधारणा इति यावत् । 'तत्र भवः ।' ४।३।५३ इत्यण् । हर्षशोकादयो 'मुखविकासादिलक्ष्याः'इति शेषः । जायन्तामुत्पद्यन्ताम् । नाम ॥ अथ यदि-काव्यसंश्रयात काव्यस्य कविचारुत्वोत्तम्भितालम्बनादेः संश्रयः सम्बन्धस्तस्मात् । अलौकिकविभावत्वमलौकिकालौकिकेभ्यः पुत्रजन्मादिभ्यो विलक्षणाः ये विभावा वर्ण्यमाना आलम्बनोद्दीपनरूपाः पुत्रजन्ममृत. पुत्रदेहादयस्तेषां भावस्तत्त्वं तत् । प्राप्तेभ्यः। तेभ्यः 'लोके हर्षशोकादेर्ये हेतवोऽभिमता'इति शेषः । सर्वेभ्यः । अपि न केवलं हर्षहेतुभ्य इति भावः । सुखमालादः । प्रजायते उत्पद्यते । 'सजायते इति पाठान्तरम् । इत्येवं लौकिकत्वालौकिकत्वाभ्यां हर्षशोकादेर्हेतूनां वैलक्षण्ये सतीत्यर्थः । का। क्षतिः ? न काऽपीत्यर्थः । अयम्भावःलौकिकेभ्यो हर्षहेतुभ्यो हर्ष एव शोककारणेभ्यः पुनः शोक एव जायतां नाम, किन्तु अलौकिकेभ्यः शोकादिहेतुभ्योऽपि सुखमेव, किं पुनः साक्षात् सुखहेतुभ्यः सुखं जायतेति, अत एवैतेषां भेदः ॥ २९ ॥३०॥
तदेव विवृणोति-ये खल्वित्यादिना ।
लोके जगति । ये । खलु । वनवासादयो वनवासराज्यलाभादयः । दुःखादिकारणानि दुःखहर्षादिकारणानि । उच्यन्ते । 'इत्युच्यन्ते' इति पाठान्तरम् । ते । एव न त्वन्य इति भावः । काव्यनाट्ययोः काव्यं श्रव्यकाव्यं च नाट्यं दृश्यकाव्यं चेति तयोः । समर्पिता निरूपिताः । समस्तं पाठान्तरम् । 'सन्त' इति शेषः । अलौकिकविभावनव्यापारवत्तयाऽलौकिकस्य लौकिकात् (दुःखादेः ) विलक्षणस्य (दुःखादेः मालम्बनतासम्पादनमुद्दीपनतोत्पादनं वा तदेव व्यापार इति, स एवैषामस्तीति तेषां भावस्तत्ता तयेति तथोक्तया। विभाव्यते आलम्ब्यते उद्दीप्यते इति वा विभावनम्। भावे ल्युट । कारणशब्दवाच्यतां कारणपदवाच्यताम् । लौकिकस्य दुःखादेः कारणभूतो यो वनवासादिस्तत्स्वरूपतामिति भावः। विहायोत्सृज्य । अलौकिकविभाव