________________
साहित्यदर्पणः।
[तृतीयःतेभ्यश्च सुरते दन्तघातादिभ्य इव सुखमेव जायते । अतश्च लौकिकशोकहर्षादिकारणेभ्यो लौकिकाः शोकहर्षादयो जायन्ते । इति लोक एव प्रतिनियमः। काव्ये पुनः सर्वेभ्योऽपि विभाकादिभ्यः सुखमेव जायते इति नियमान्न कश्चिद् दोषः।
कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि श्रवणदर्शनाभ्यामश्रुपातादयो जायन्ते ? इत्युच्यते
४० अश्रुपातादयस्तद्वद् द्रुतत्वाच्चेतसो मताः । कथं तर्हि काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायते-इत्याह
शब्दवाच्यत्वमलौकिको यो विभावशब्दवाच्यस्तस्य भावस्तत्त्वं तत् तथोक्तम् । दुःखशोकादेरपि सुखहर्षाद्यात्मना सङ्घटकत्वोद्दीपकत्वाभ्यामलौकिकस्य विभावशब्दवाच्यस्य स्वरूपतामित्यर्थः । भजन्ते आश्रयन्ते । अत एव-तेभ्यः पूर्वोक्तेभ्योऽलौकिकेभ्यो विभावशब्दवाच्येभ्य इत्यर्थः । च पुनः । सुरते दयितेन सह रमणावसर इति भावः । दन्तघातादिभ्यः 'दयितकृतेभ्यो दयिताया' इति शेषः । इव यथा तथा । 'काव्यनाट्ययोः श्रवणदर्शनावसरे' इति शेषः । सुखम् । एव केवलं न तु दुःखमिति भावः । जायते। अयम्भावः-लोके दुःखशोकादिहेतुभूता वनवासादयोऽ. भिमताः, तेभ्यश्च लोके यत् दुःखशोकादि जायते, तत् युक्तमेव, किन्तु काव्ये नाट्ये वा (कविना नटेन वा) वर्ण्यमाना दर्यमाना वा ये वनवासादयस्ते न तथाभूताः, यदेभ्योऽपि तथैव दुःखादि जायेत । किन्तु अलौकिकाः, अत एवैते विभावशब्देनाभिधेयाः । ननु एतेभ्योऽपि दुःखायेव किं न स्यादिति शङ्कथम् , यतः-दयितस्य दन्तघातादिभ्यः सुरते दयिताया न दुःखमुत्पद्यते, उत्पद्यते पुनः केवलं यथा सुखमेव, तथा विभावेभ्योऽपि । इदमुक्तम्-सुरतसमयापक्रमानन्तरं यथा दन्तघातादिभ्यो दुःखमेव जायते, इति तदानीन्तनानां तेषां लौकिकत्वं, सुरते च तेषां विलक्षणकार्यकारितया लोकोत्तरत्वं तथा प्रकृतेऽपि । सुरतस्य चालौकिकत्वं यथाऽऽह श्रुतिः-'तद् यथा प्रियया स्त्रिया सम्परिष्वको न बाचं किञ्चन वेद, नान्तरमेवाय, प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम् ।' इति । तदेव व्यवस्थापयतिअतः। च । लौकिकशोकहर्षादिकारणेभ्यः । 'वनवासादिभ्य इति शेषः । लौकिकाः । शोकहर्षादयः । जायन्ते । इत्येवम्भूतः । लोके । एव न तु लोकविलक्षणताऽवसरेऽपीति भावः । प्रतिनियमः प्रतिष्ठितो नियमः । काव्ये उपलक्षणेन नाट्ये चेत्यर्थः । पुनः । सर्वेभ्यो 'दुःखादिकारणेभ्य' इति शेषः । अपि । सुखम् । एव । जायते। इति एवम्भूतादिति भावः । नियमात् । न नैव । कश्चित् । दोषः।
ननु 'कायेण कारणमनुमीयते' इति नयेन करुणादो अश्रुपातादिदर्शनेन अश्रुपातादेश्च दुःखरूपकाया॑भिन्नतया करुणादेर्विभावादीनां दु:खकारणत्वमेवानुमातव्यमिति चेत् ! न; इति साशङ्काऽपोहमाह-कथमित्यादिना ।
तर्हि 'यर्हि करुणादेर्विभावेभ्योऽपि सुखमेव जायते' इति शेषः । काव्यनाट्ययोः। अपि । हरिश्चन्द्रादिच. रितस्य । आदिना नलरामयुधिष्ठिरादीनां ग्रहणम् । श्रवणदर्शनाभ्याम् 'दर्शनश्रवणाभ्याम्' इति तु पाठान्तरम् । अश्रुपातादयः । कथम् । 'करुणादेर्विभावानां दुःखदत्वमन्तरा' इति शेषः । जायन्ते सम्भवन्ति ? इति इति कृत्वेति भावः । उच्यते ४० अश्रुपातादय इत्यादिना।
४० तद्वत् यथा विभावादेरलौकिकतया सुखमेव जायते तथेत्यर्थः । चेतसोऽन्तःकरणस्य । द्रतत्वात्सर्वोपाधिपरित्यागपूर्वकं तदेकाकारणावस्थितत्वादिति भावः । अश्रुपातादयः। मताः। अतो दुःखहेतुभ्य इव तेभ्यो नाश्रुपातादयः; किन्तु आनन्दप्रेमवशादिव ते जायन्ते इति बोध्यम् ।
तदेव स्थूणानिखननन्यायेन द्रढयितुं शङ्कते-कथं तीत्यादिना ।
तर्हि यहि वस्तुतो रस आनन्दमय एव तदेत्यर्थः । काव्यतो दृश्यश्रव्योभयविधात् काव्यादित्यर्थः । दृश्यमानादृश्यकाव्यात् श्रयमाणाच श्रव्यकाव्यादिति भावः । सर्वेषां 'तत्तत्पश्यतां शृण्वतां पठतां वा' इति शेषः । ईदृशी आहादस्वरूपा। रसाभिव्यक्तिः । कथम् । न । जायते? यदि दृश्यस्य दर्शनात् श्रव्यस्य वा श्रवणाज्जायमाना