________________
रुचिराख्यया व्याख्यया समेतः ।
४१ न जायते तदास्वादो विना रत्यादिवासनाम् ॥ ३१ ॥
वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः । तत्र यद्याद्या न स्यात्तदा श्रोत्रियजरमीमांसकादीनामपि स स्यात्, यदि द्वितीया न स्यात्तदा यद् रागिणामपि केषाञ्चिद्रसोद्बोधो न दृश्यते तन्न स्यात् ।
परिच्छेदः ]
रसाभिव्यक्तिर्वस्तुत आह्रादरूपा, तत् कथं सा कैश्विदेवानुभूयते, न पुनः सर्वैः ? इत्यतः किमपि नियामकमभिधेयम्, अन्यथा तद्वास्तवत्वमपहास्यतीति प्रश्नाभिप्रायः । इत्यतः । आह-४१ नेत्यादि ।
४१ रत्यादिवासनां रत्यादे रतिहासादिभावस्य वासना भावना सूक्ष्मात्मनाऽवस्थितः संस्कार विशेष इति यावत्तम् । विना । तदास्वादस्तस्य रत्यादेराखादो रसात्मनाऽनुभव इति भावः । ' तस्य रसस्यास्वाद' इति केचित् ' तत्तस्मात् काव्यात् आखादो रसानुभवः' इत्यपरे व्याचक्षते । न । जायते । रत्यादिवासनावासितान्तःकरणानां रसास्वादो जायते, तद्भिन्नानां पुनर्नेति केषाञ्चिदेव रसानुभवः, सर्वेषां रत्यादिवासनाऽनुपलम्भात् । इति तात्पर्यम् ॥ ३१ ॥
इदमवगमकम् - रत्यादिरेव सूक्ष्मात्मना सहृदयहृदयं विनिविष्टो वासना, सहृदयहृदयमेव च तद्भाजनम् । इति सहृदयहृदयविनिविष्ट इत्युक्तम् । तस्याश्चाभावे श्रुतात् पठिताद्वा श्रव्यकाव्यात् दृष्टात्पठिताद्वा दृश्यकाव्यादपि न रसास्वादः सम्पद्यते । रत्यादिरेव विभावादिसंयोगविशेषाद्रसत्वेन प्रतीत्यभिमतत्वात् । इति ।
कारिकाऽर्थं समवगमयितुं भङ्गयन्तरेण स्वयं विवृणोति - वासना चेत्यादिना ।
वासना रत्यादेरन्तः सूक्ष्मात्मा संस्कारो रसास्वाद हेतुभूतः पुण्यविशेष इति यावत् । ' वासना सूक्ष्मसंस्कार' इति गोपालः । च । इदानीन्तनी अस्मिञ्जन्मनि भवा । प्राक्तनी प्राग्भवा पूर्वस्मिन् जन्मनि भवेति यावत् । ' सायंचिरंप्रागेऽव्ययेभ्यष्टयुट लौ तुट् च । ४।३।२३ इति टयुः । च । रसास्वाद हेतू रसानुभवकारणभूता । इदं बोद्धव्यम्यथातथमस्मिन् जन्मनि सम्पादिता वासनेदानीन्तनी, पुण्यविशेषात् प्राग्जन्मनि सम्पादिता पुनः प्राक्तनीत्युभयविधा मिलिता साहाय्यसहायकतां प्राप्ता वासना रसास्वादस्य हेतुः । न तु इदानीन्तनी प्राक्तनी च वासना स्वातन्त्र्येण रसास्वादहेतुः । इति । तदेवाह - तयोरिदानीन्तनीप्राक्तन्योर्वासनयोर्मध्ये इत्यर्थः । आद्येदानीन्तनी वासनेति भावः । यदि 'रसास्वादहेतु' रिति शेषः । न । स्यात् 'अभिमते 'ति शेषः । ' किन्तु प्राक्तन्येव वासना रसास्वाद हेतुरभिमता भवेदिति शेषः । तदा तर्हि । श्रोत्रियजरन्मीमांसकादीनां श्रोत्रियाः केवलं वेदाध्ययनरताः, ते च जरन्मीमांसका जरन्तो ( वृद्धा:) मीमांसकाः (कर्म्मवादरताः) चेति त आदौ येषां ( तार्किकादीनाम् ) तेषां तथोक्तानाम् । 'श्रोत्रियंश्छन्दोऽधीते ।' ५।२।८४ इति निपातात् 'छन्दोऽधीत' इत्यर्थे ' श्रोत्रिये 'ति साधु । 'प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि । ' इत्यमरः । मीमांसां जैमिनीयसिद्धान्तमधीते वेद वेति मीमांसकः । ' क्रमादिभ्यो वुन् ।' ४।२।६१ इति वुन् । 'प्राक्तनीं वासनामेवाधिगतवता' मिति शेषः । अपि किं पुनः प्राक्तन्या वासनाया हीनाना' मिति शेषः । स रसास्वाद इत्यर्थः । 'सा' इति पाठान्तरे तु रसाभिव्यक्तिरित्यर्थः । स्यात् ' किन्तु न भवतीत्यत इदानीन्तन्यनुगतप्राक्तनवासनासम्पन्नानामेव रसास्वादो जायते' इति शेषः । ननु तर्हि इदानीन्तन्येव वासना रसास्वादहेतुरित्यङ्गीक्रियतां, किं प्राक्तन्या अन्यस्या वासनायाः स्वीकारेणेति चेन्नेत्याह-यदि‘तत्रे’ति पूर्वतोऽनुक्रान्तम्, तयोर्वासनयोर्मध्ये इत्यर्थः । द्वितीया प्राक्तनी वासनेत्यर्थः । न 'रसास्वादहेतु:' इति शेषः । स्यात् । 'किन्तु इदानीन्तन्येव वासना रसास्वादहेतुरङ्गीक्रियेते 'ति शेषः । तदा । केषाञ्चित् । रागिणामनुरागिणामिदानीन्तन्या वासनया केवलं वासितान्तः करणानामित्यर्थः । अपि । रसोद्बोधो रसस्योद्बोध आस्वाद इति तथोक्तः यत् यतः ‘प्राक्तन्या वासनाया अभावरूपात् कारणा' दिति शेषः । न । दृश्यते । तत् 'कारणमि'ति शेषः । न । स्यात् । अतः - इदानीन्तनीं वासनामधिगतवतामपि प्राक्तन्या वासनायाः केवलं विरहेण तेषां रसास्वादानुभवाभाव इति फलितम् । इदं बोध्यम्-“यं यं वाऽपि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय ! सदा तद्भावभावितः ॥"," ""पुण्यवन्तः प्रमिण्वन्ति योगिवद् रससन्ततिम् ।" इत्याद्युक्त्या कृतभूरिपुण्या उत्कण्ठायास्तद्विषयिण्याः प्राक्तन्या वासनाया महिना सहृदयतां,