SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९६ साहित्यदर्पणः । [ तृतीय: उक्तं च धर्म्मदत्तेन 7 " सवासनानां सभ्यानां रसस्यास्वादनं भवेत् । निर्वासनास्तु रङ्गान्तकाष्ठकुड्याश्मसन्निभाः ॥ " ननु कथं रामादित्याद्युद्बोधकारणैः सामाजिकरत्याद्युद्बोधः ? इत्युच्यते-४२ व्यापारोऽस्ति विभावादेर्नाम्ना साधारणीकृतिः । तत्प्रभावेण यस्यासन् पाथोधिप्लवनादयः ॥ ३२ ॥ प्रतिपद्यैव साम्प्रतमपि तद्वासनाशालिनः सन्तो रसास्वादमनुभवन्ति, नान्यथा; अतश्च - अकृतभूरिपुण्या अत एव प्राक्तन्या वासनाया बलाच्छ्रोत्रियत्वाद्येव लभन्ते, ननु सहृदयतां, न वा रसास्वादनाभ्युदयं भूरिपुण्येनैव तत्प्राप्यत्वात् । येऽप्येव कृतभूरिपुण्या अप्यकृततद्भावनाः, ते सम्प्रति कथमपि सहृदयतामधिचिकीर्षव एव भवन्ति, न पुनर्लभन्ते रसास्वादाभ्युदयम् । तस्मात् न केवलां प्राक्तनीं, न वा केवलां साम्प्रतिकीं वासनां प्रतिपन्ना रसास्वादाभ्युदयभागिनो भवितुमर्ह न्तीति प्राक्तन्या वासनाया महिना येषां कृतभूरिपुण्यानां साम्प्रतमपि जाता रत्यादिवासना त एव सहृदयाः, त एव पुनारसास्वादभागिनः । एवञ्च श्रोत्रियादीनां कृतविद्यत्वादिना रसास्वादाद्यधिकारियोग्यत्वं प्राक्तन्या वासनाया अवगमकम् अन्येषां साम्प्रतं वासनासत्त्वेऽपि यद्रसास्वादवैधुर्य्यं तदमीषां पुनः प्राक्तन्या वासनाया अभावावगमकम् । इति सूचितम् । इति । उक्तमर्थं प्राचां सम्मत्याऽनुकूलयितुमाह-उक्तश्चेत्यादि । धर्मदत्तेन तथा सुगृहीतनामधेयेनेत्यर्थः । च । उक्तम् । “सवासनानां..” इत्यादि । "खवासनानां वासनया इदानीन्तनेन प्राक्तनेन चेति द्विविधेन रत्यादितादात्म्यतः प्रतीयमानेन संस्कारविशेषेणेत्यर्थः सह वर्त्तन्त इति तेषां तथोक्तानाम् । अत एव सभ्यानां सभायां साधूनां सहृदयानामिति यावत् । 'सभाया यः ।' ४|४|१०५ इति यः । रसस्य 'राहोः शिरः' इतिवदुपचारात् षष्टी । आस्वादनमानन्दविशेषानुभवः । भवेत् । तु किन्तु । ' त्वन्ताथादि न पूर्वभाक् ।' इत्यमरः । रङ्गान्ता रङ्गो नृत्यशालोपलक्षणेन काव्यानुभवावसरश्च तस्यान्तमध्ये | 'अधिष्ठिता' इति शेषः । निर्वासना वासनाशून्या रत्यादिसंस्कार विशेषहीना इति यावत् । काष्ठकुड्यारमसन्निभाः स्तम्भभित्तिपाषाणादिसदृशाः । 'न रसास्वादं लभन्ते' इति शेषः । निर्वासनानां काष्ठादीनामिव न रसानुभवितृत्वमुपपद्यत इति भावः । एतेन - वासनैव रसास्वादहेतुः । युक्तं च, विभावादिसाहाय्येन रत्यादिरेव रस इति रत्यादिसंस्काररूपया वासनया हीनाः कथं रसं लभेरन् ? इति निष्कर्षः ॥ " इति । भङ्गयन्तरेणैतदेव पुनः स्पष्टयितुमाशङ्कते - नन्वित्यादिना । ननु । रामादित्याद्युद्बोधकारणै रामादीनां रत्यादयः संस्काररूपेणान्तरुदिता भावास्तेषामुद्बोधः प्रस्फुरणमास्वादोचितीभवनमिति यावत्, तस्य कारणानि कारणभूतास्तैस्तथोक्तैः । अत्रायेनादिना सीताssदीनां ग्रहणम्, अन्त्येन हासादीनामिति बोध्यम् । 'सीतारामादिभिः' इति शेषः । अत एव - परस्परालम्बनभूतत्वं सङ्गच्छते । सामाजिक रत्याद्युद्बोधः सामाजिकानां रत्यादिवासनावासितान्तःकरणतया सहृदयतां प्राप्तानाम् (अपि) रत्यादयः सूक्ष्मात्मनाऽन्तःस्थितास्तेते भावास्तेषामुद्बोध इति तथोक्तः । कथम् । 'जायते' इति शेषः । रामसीताss दिरत्यायुद्बोधकारणभूताः सीतारामादय एवेत्येतैर्यदि रामादीनां रत्यादय उद्बुध्यन्त इति युज्यते, किन्तु तैरेव सामाजिकानां रत्यादयः कथं रसौचित्यं प्रतिनीयन्ते इत्याशयः । इत्येवमाशङ्कायामित्यर्थः । उच्यते- ४२ व्यापारोऽस्तीत्यादि । ४२ विभावादेः । आदिनाऽनुभावसञ्चारिणोर्ग्रहणम् । साधारणीकृतिः । ' साधारणी 'ति च्वन्तम् असाधारणस्य (असदृशस्य) साधारणत्वार्थमव्ययम्, तत्पूर्वकात् कृ धातोर्भावे क्तिन् । असदृशस्य सदृशताऽऽपादनमिति भावः । नाना । 'प्रसिद्ध' इति शेषः । व्यापारः सामर्थ्यविशेषः । अस्ति वर्त्तते । विभावादेः सामर्थ्यमेवैवम्भूतम्, येन श्रूयमाणश्रोत्रो ईश्यमानद्रष्ट्रोश्चाभेदः सम्पाद्यत इति भावः । सामाजिकेतराणां तु श्रोतृत्वाद्यभाव एव, काष्ठादिसदृशतयाऽभिमतत्वात् । न तेन तेषां साधारणीकरणमिति च बोध्यम् । अत एव तत्प्रभावेण तस्य विभावादिसम्बन्धिनः साधारणीकरणरूपस्य व्यापारस्य प्रभावस्तेन । प्रमाता विभावादिव्यापारेणाधिकृतः सहृदय इति यावत् । यस्य रामादेरित्यर्थः । पाथोधिलषनादयः पाथांसि जलानि धीयन्तेऽत्रेति पाथोधिः समुद्रस्तस्य प्लवनं तरणं तदादिर्येषां (शत्रुनिहननादीनाम् )
SR No.023033
Book TitleSahitya Darpan Nam Alankar Sandarbh
Original Sutra AuthorN/A
AuthorVishvanathak Viraj, Shivdutta Kavi
PublisherKshemraj Krushnadas Shreshthi
Publication Year1838
Total Pages910
LanguageHindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy