________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यते । ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहबोधः १ इत्युच्यते--
४३ उत्साहादिसमुद्रोधः साधारण्याभिमानतः ॥ ३३ ॥
नृणामपि समुद्रादि-लानादौ न दुष्यति । ते तथोक्ताः । “कबन्धमुदकं पाथः...''इत्यमरः । 'कर्मण्यधिकरणे च ।' ३।३।९३ इति धानः किः । आसन् । 'व्यापारा'इति शेषः । तदभेदेन तस्य तादृशचारतस्य रामादेरभेद ऐक्यमिति यावत्, तेन तथोक्तेन । स्वात्मानम् । प्रतिपद्यते । अयम्भावः-यद्यपि"अयं रामः, इयं च सीता" "अयमहम्, इयं च मे प्रिया"इति, 'अयं रामः सीताविषयकरतिमान् सेतुबन्धादिविधाता, अहं दीनः शत्रुभिरनेकशः पराजितः प्रेष्यः प्रेष्याविषयकरतिमान् इति च यथाऽवगम आपामरमिति साधारणः । तथा 'अयं रामोऽहमिव प्रियानिरतः, तत एव-प्रियाविरहेण विलापादिविधाता' इत्यपि, एवं तत्तद्भेदकांशपरित्यागपुरस्कृतः 'अयमहं रामः' इत्यादिरवगमोऽसाधारणः, तथाऽपि-अत्र, असाधारणो नाम, "अयं परमेश्वरो रामः । इत्येवंज्ञानविषयो रामादिः, "अहं दीनः"इत्येवंज्ञानविषयः स्वात्मा पुनः साधारण इति विवक्षितः, एवं च-लोकोत्तरचारततयाऽसाधारणस्य रामादेलौकिकव्यापारकारितया साधारणस्य स्वात्मनोऽभेदाध्यवसायः साधारणीकरणम् । असाधारणेन रामादिना च समं यदा प्रमात्राऽभेदोऽध्यवसीयते, तदा तत्तदनुभावव्यभिचारिभावानामपि सीताऽऽदिविषयकरत्यादीनां च स्वत एवाभेदः । न च तदानी किश्चिन्मात्रं स्वात्मानं स्वात्मतयाऽवैति । इदमुक्तम्असाधारणेषु रामादिविभावतदनुभावादिषु साधारण्याभिमानात् 'रामोऽहमिति प्रतिपत्तौ श्रीरामागुत्साहादेरभेदेन स्वादनाभिधेयेन व्यापारेण स्ववासनैव सर्वैः सामाजिकैरास्वाद्यते । इति । न चैवं सामाजिकेष्विव तदितरेष्वपि विभावादे
ापारः प्रभवेदिति शङ्कथम्, मण्यादिसन्निधाने पावकीयशक्तेरिव निर्वासनत्वसन्निधाने तेष्वपि विभावादिव्यापारस्य प्रबद्धताकल्पनात् ॥ ३२॥
ननु भवतु तथा विभावादिव्यापारेण सामाजिकानां नायकायभेदायव्यवसायः, किन्तु कर्तुमशक्ये समुद्रोल्लङ्घनादौ कथमुत्साहादिः सम्पत्स्यते इत्याशङ्कते-नन्धित्यादिना ।
नन । मनुष्यमात्रस्य। 'विभावादेर्व्यापारेण रामादिनाऽभेदाध्यवसायं नीतत्वेऽपि मनुष्यतामपरित्यज्यावस्थितत्वादिति शेषः । समुद्रलङ्घनादौ । कथम् । उत्साहबोधः 'सङ्गच्छते' इति शेषः । इत्यतः । उच्यते-४३ उत्साहादि..इत्यादिना ।
४३ नृणाम् । अपि । साधारण्याभिमानतः साधारण्यस्य विभावादिव्यापारेण समर्पितस्य रामहनुमदादिनाऽभेदाध्यवसायस्याभिमानस्तस्मात् । पञ्चम्यास्तसिल् । समुद्रादिलङ्घनादौ । अत्रायेनादिना पर्वतशकुन्तलादीनां ग्रहणम् , अन्त्येनोत्फाल्यालिङ्गनादीनाम् । उत्साहादिसमुद्धोधः । आदिना रत्यादर्ग्रहणम् । न नैव । दुष्यति विरुध्यते । यद्वा-'अपी' ति 'समुद्रादिलङ्घनादौ' इत्यनेन योज्यम् । तथा सति, किम्पुनः सुखसम्भोगादावित्यर्थः पर्यवसीयते। 'नृणामपी' ति पक्षे तु यद्यपि सहृदयानां विभावादिव्यापारेण लोकोत्तरतां नीतत्वे नृतयाऽभिमननमनुचितं, तथाऽपि तथा नृतयैवाभिमतानामिति भावः ॥३३॥
अत्रायं निष्कर्षः-तत्र ताक्त् विभावादिसम्बन्धिनः साधारणीकरणाख्येन व्यापारेण नृणां रामादिभिः समं साधारण्याभिमानः, ततश्च तत्तदुत्साहादिप्रत्ययः सम्पद्यते । इति । अत्र तर्कवागीशा:-"ननु ज्ञानप्रत्यासत्या सनिकृष्टस्योत्साहादेः साक्षादेव सामाजिके प्रकारत्वमस्तु, किं वासनायाः प्रकारत्वाङ्गीकारात् ? "पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम् ।" इत्यादिना प्राचीनव्यवहारेण "धर्मिणि सर्वमभ्रान्तम् , प्रकारे तु विपर्ययः ।" इत्युक्तदिशा रसबोधस्य वासनांऽशे प्रमा त्वङ्गीक्रियते, एतदभिप्रायेणैव पूर्वकारिकायां प्रमातृपदोपन्यासः ।" इत्याहुः ।