________________
३०६
साहित्यदर्पणः ।
[ दशम:
अत्र शङ्काऽसूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता राजविषयरतिभावस्याङ्गम् । इह केचिदाहुः -- ' वाच्यवाचकरूपालङ्करणमुखेन रखाद्युपकारका एवालङ्काराः । रसादयस्तु वाच्यवाचकाभ्यामुपकार्या एवेति न तेषामलङ्कारता भवितुं युक्ता' इति, अन्ये तु 'रखाद्युपकारम - त्रेणेहालङ्कृतिव्यपदेशो भाक्तश्चिरन्तनप्रसिद्ध्याऽङ्गीकार्य एव' इति, अपरे च - 'रसाद्युपकारमात्रेणालङ्कारत्वमुख्यता, रूपकादौ वाच्याद्युपधानम् ' अजागलस्तन' न्यायेन ।' इति । अभियुक्तास्तु -
जानीयात् ( इति शङ्का तद्धेतुश्च व्यङ्गया सङ्गोपनीय पुरुषचेष्टा ) । रे चपल स्वच्छन्दाचरणशील ! चलापयाहि ( इत्यसूया, तद्धेतुश्च परत्र रागानौचित्यं व्यज्यते ) । का । त्वरा । सत्वरं गमने को हेतुरिति भाव: ( इति धृतिः, तद्धेतुश्चानुरागप्राबल्यम् ) । अहं त्वया गृह्यमाणेत्यर्थः । कुमारी कन्या ( इति स्वात्मनस्तत्र प्रागल्भ्यज्ञानेन स्मृतिः, तद्धेतुश्च तत्कुलीनं त्वव्यङ्गयम् ) । हस्तालम्बं हस्तरूपमालम्बनम् । वितर देहि ( इति श्रमः, तद्धेतुच तत्सौकुमार्य व्यङ्गम् ) । हहहा कष्टंकष्टम् ( इति दैन्यम्, तद्धेतुश्च मदनबाधया किंकर्तव्यताविमूढत्वम् ) । युत्क्रमोऽनर्थाचरणमिदम् ( इति विबोधः, तद्धेतुश्च स्वस्वरूपपरिचिन्तनम् ) । क्व कुत्र । असि त्वमिति भावः ( इदमव्ययम् ) । यासि 'मां विहाये'ति शेषः ( इत्यौत्सुक्यम्, तद्धेतुश्च पुनः कन्दर्पोन्मादप्राबल्यम् ) । इत्थम् इत्येवम् । कञ्चित्कमपि स्वमनोहरं युवानमिति भावः । अभिधत्ते । किञ्चिदुद्भूततारुण्यायाः प्रस्तुतराजशत्रु कन्याया वनवासे फलाद्याहरणे क्रियमाणे कस्मिंश्चिज्जातानुरागाया अवस्थावर्णनमुद्दिश्य प्रकृतराजस्तुतिरियम् । मन्दाक्रान्ताछन्दः ॥ ३०४ ॥' उदाहृतमर्थ निर्दिशति - अत्रेत्यादिना । स्पष्टम् ।
सम्प्रति रसवदादीनामलङ्कारत्वं निर्णयते - इह । केचित् । आहुः । 'वाच्यवाचकरूपालङ्करणमुखेन वाध्योऽर्थश्च वाचकः शब्दश्चेति तयो रूपं स्वरूपं तस्यालङ्करणं शोभाजननं तदेव मुखं द्वारं तेन । रसाद्युपकारकाः । एव । अलङ्काराः। रसादयो रसभावरसाभासभावाभासभावप्रशमादयः । तु । वाच्यवाचकाभ्यामर्थेन शब्देन च । उपकार्याचमत्कार्याः । एव । इति । तेषां रसादीनाम् । अलङ्कारताऽलङ्कारव्यपदेशभाक्त्वम् । भवितुम् । न । युक्ता । इति । इदं तत्त्वम्- प्रकाशकारादयः - ' उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः ॥ ' इत्यादिनाऽलङ्काराणां रसाद्युपकारकत्वमात्रं, रसादीनां च तदुपकार्यत्वं मन्यमाना रसवदादीनामलङ्कारव्यपदेशभाकत्वं न मन्यन्ते । इत्येव केषाञ्चिन्मतत्वेनेह निर्दिष्टम् । इति । अन्ये रसवदादीनामप्यलङ्कारव्यपदेश्यत्वं मन्यमानाः कुवल. यानन्दकारादय इति भावः । तु । 'इह रसवदादौ । अलङ्कृतिव्यपदेशोऽलङ्कार इति व्यपदेशः । रसाद्युपकारमात्रेण । मात्रपदेन' शब्दार्थदारे' त्यस्य व्यवच्छेदः । भाक्तो गौणः । अथापि चिरन्तनप्रसिद्धया प्राचीनानाम्मतानुरोधेन । अङ्गीकार्य्यः । एव ।' इति 'आहुः' इति पूर्वतोऽन्वेति । इदं तत्त्वम् - शब्दार्थद्वारा रसाद्युपकारकत्वेनालङ्कारत्वं मुख्यम्, रसाद्युपकारकत्वमात्रेणालङ्कारत्वं पुनर्गौणम् । अत एषां गुणप्रधानभावमङ्गीकृत्य शब्दार्थोपस्कारमन्तराऽपि स्वीकार्योऽलङ्कारभावो भाक्त: 1 एतेन केषांचिन्मतं परास्तमिति बोद्धव्यम् । इति । अपरे रसक्दादीनामपि मुख्यमलङ्कारत्वम्मन्यमानाः । च । 'रस|पकारमात्रेण । मात्र पदेन शब्दार्थोपस्कारापेक्षाव्युदासः । अलङ्कारत्वमुख्यता मुख्यमलङ्कारव्यपदेश्यत्वम् । रसाद्युपकारकत्वमेवालङ्कारत्वम् नतु शब्दार्थोपस्कारद्वारेत्येवालङ्कारसामान्यलक्षणम्, एवं च-रसवदादीनां प्रधानभूतरसाद्युपकारकतयालङ्कारत्वम्मुख्यमिति भावः । नन्वेवं रूपकादेः का व्यवस्थेत्याशङ्कयाहुः - रूपकादौ । वाच्याद्युपधानं वाच्यादेः शब्दार्थयोरुपधानमुपस्कारकत्वम् । 'अतोऽत्रालङ्कारत्व' मिति शेषः । 'अजागलस्तन' न्यायेना जागले लम्बमानः स्तनो यथा दुग्धानुपयोगित्वेऽपि स्तनत्वेन यथा व्यवहियते तथा - रूपकादौ वाच्यायुपधानप्रयुक्तमलङ्कारत्वं गौणमिति भावः ।' इति 'आहु' रिति पूर्वतोऽन्वेति । इदं तत्त्वम्-रसवदादौ गौणमलङ्कारत्वन्नाङ्गीकार्यम्, प्रत्युत शब्दार्थमात्रावष्टम्भेषु । अलङ्कारत्वं हि रसाद्युपकारकत्वम्, तच - अत्राङ्गभूतस्य रसादेः प्रधानभूतरसाद्युपकारकतयाऽनुगतम् । रूपकादौ च तदभावादलङ्कारत्वस्य गन्धमात्रम् । इति । इदं चावधेयम् - रसवदादेरलङ्कारत्वं नास्त्येवेति यत् केचिदाहुः, तत्तु परास्तम् । अथात्र विप्रतिपत्तिरेषैव यत्- केचिद्रसवदादेगणम् अन्ये रूपकादेरलङ्कारत्वमाहुः । इति । एवं परेषाम्मतं निदर्श्य महनीयानाम्प्रतं दर्शयन् स्वमतस्यापि तदनुकूलत्वं सूचयति-अभियुक्ता मान्याः । तु ।