________________
पारच्छेदः.]
रुचिराख्यया व्याख्यया समेतः । 'स्वव्याकवाच्यवाचकाशुपकृतैरङ्गभूत. रसादिभिरङ्गिनो रसादेर्वाच्यवाचकोपस्कारद्वारेणोपकु. र्वद्भिरळकृतिव्यपदेशो लभ्यते । समासोक्तौ तु नायिकादिव्यवहारमात्रस्यैवालङ्कृतिता, न स्वास्वादस्य, तस्योक्तरीतिविरहात् । इति मन्यन्ते । अत एव ध्वनिकारेणोक्तम्--..
'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः॥' ... यदि च रसायुपकारमाघेणालङ्कृतित्वं तदा वाचकादिष्वपि तथा प्रसज्येत । एवं च-यच्च
'स्वव्यञ्जकवाच्यवाचकाद्युपकृतैः स्वमङ्गभूतं रसादि तस्य व्यञ्जकं यद् वाच्यवाचकादि शब्दार्थकाक्वादि तेनोपकृताभिव्यक्तिं नीतास्तैः । अङ्गभूतैरप्रधानभूतैः । रसादिभिः। आदिपदेन भावादीनां ग्रहणम् । अङ्गिनः प्रधानभूतस्य । रसादेः। सम्बग्धसामान्यविवक्षया कर्मणि षष्ठीयम् । वाच्यवाचकोपस्कारद्वारेण वाच्य. वाचकयोः शब्दार्थयोरुपस्कारः साहाय्यं स एव द्वारं तेन, शब्दार्थसाहाय्येनेति भावः । उपकर्वद्धिरुपकारपरायणरिति भावः । अलकृतिव्यपदेशः। लभ्यते(रसादिभिरिति कर्तपदम्) । इदमुक्तम्-शब्दार्थादिना रसादेरभिव्यक्तिः, सोऽपि अपरस्य रसादेरभिव्यक्ती हेतुः । अतः-यस्य रसादेरभिव्यञ्जको यो रसादिस्तदपेक्षयाऽस्य गौणत्वम् ( उपकारकत्वम् ) एतदपेक्षया च तस्य प्रधानत्वम् (उपकार्य्यत्वम् ) एतदुभयापेक्षया च वाच्यवाचकादेर्गौणत्वम् (उपकारकत्वम्) एतदपेक्षयाऽप्रधानरसोद्यपेक्ष्य गौणस्य रसादेरपि प्रधानत्वम् (उपकार्यत्वम्) । एवं च रसायुपकारकर्व शब्ददि रसादेश्चेत्युभयोरपि सम्प्रतिपन्नम् । तत्र-रसादे रसायुपकारकत्वं शब्दादिद्वारकम् , शब्दादेः पुनः खखद्वारकमेवेति विशेषः । किन्तु-अलङ्काराणां रसायुपकारकत्वं शब्दादिद्वारेत्युभयोति निर्विवादम् । एवं सतिउपमादे रसवदादेश्च मुख्यमेवालङ्कारव्यपदेशार्हत्वम् । इति । ननु तर्हि समासोक्तौ कथमलङ्कारव्यपदेश्यस्वम् ? तत्र हि नायिकादिव्यवहारारोपजन्यस्याखादस्यालङ्कारत्वम् , आस्वादश्च रसाद्यभिन्न एवेत्येवं रसायुपकारकत्वाभावः। इत्याशङ्कयाह-समासोक्तौ । तु । नायिकाऽऽदिव्यवहारमात्रस्य (मात्रपदेनास्वादस्य व्यवच्छेदः पुरस्तादेव वक्ष्यते)। एव । अलकृतिताऽलङ्कारव्यपदेशभाक्त्वम् । आस्वादस्य नायिकादिव्यवहारारोपकार्याखादस्य । तु । न । नन्वत्र का बाधेत्याहुः-तस्यास्वादस्य । उक्तरीतिविरहाद् वाच्यवाचकादिद्वारा रसायुपकारकत्वाभावात् । इद. मुक्तम्-समासोक्तावपि रसायुपकारकत्वमादायैवालङ्कारत्वम् , तचीत्र नायिकाऽऽदिव्यवहारस्य । अत एव-'वाच्यवाचकाद्युपकृते रित्यत्रादिपदस्य निवेशः । आस्वादस्येति तु नास्माकं पक्षः । तस्यालङ्कारर्यत्वेनैवाभिमतत्वात् । इति ।' इति । मन्यन्ते (अभियुक्ता इत्यनेन सम्बन्धः)। ननु एकस्य रसादेरुपकारकत्वमपरस्योपकार्य्यत्वं कल्पयित्वा किमिति रसवदाद्यलङ्कारत्वं समर्थ्यतेऽत्र भवद्भिरित्याशङ्कय तदुपपादयितुमाह-अतः। यतस्तथा मन्यन्ते तत' इति भावः । एव । ध्वनिकारेण । उक्तम् । 'रसादयः। तु पुनः । यत्र । अन्यत्र स्वस्मात् ( अप्रधानापेक्षया) भिन्ने । अत एवप्रधाने ( अलङ्कार्ये )। वाक्याथै विभावादौ रसादाविति यावत् । अङ्गमङ्गभूताः । तस्मिन् । काव्ये रसादौ । रसादिरङ्गभूतः 'स' इति शेषः । अलङ्कारोऽलङ्कारव्यपदेश्यः । इति । मे मम 'ध्वन्यालोककर्तुरानन्दवर्धनाचार्यस्येत्यर्थः । मतिः सिद्धान्तः ॥' 'इति' इति शेषः ।।
एवं सर्वतोभद्रं सिद्धान्तमुपपाद्य 'इह केचिदाहु'रित्यादिना दर्शित मतं 'अन्ये तु' इत्यादिना दर्शितेन मतेन निराकृतम्, अथैतदपि निराकर्तुमभियुक्तानां च मतं प्रकारान्तरेण द्रढयितुमाह-यदि च । रसायुपकारमात्रेण । मात्रपदेन शब्दार्थद्वारे त्यस्य व्यवच्छेदः । अलङ्कृतित्वमलङ्कारव्यपदेश्यत्वं स्वीक्रियेतेति भावः । तदा । तथा रसाद्युपकारमात्रत्वमादायेति भावः । वाचकादिषु शब्दादिषु । 'वाच्यादिषु' इति पाठान्तरेऽर्थादिष्वित्यर्थः । अपि । 'अलङ्कारत्वं मुख्यतया' इति शेषः । प्रसज्येत । इदं तत्त्वम्-यदि रसायुपकारकत्वमलङ्कारत्वमिति मन्यमानैरपि भवद्भिः रूपकादिषु तु वाच्याद्युपधानम्, 'अजागलस्तन'न्यायेन इति कथमुच्यते, रूपकादीनां दूरमास्तां कथा, किन्तु तथा वाचकाद्युपधानेषु पुनरुक्तवदाभासादिष्वपि अलङ्कारत्वम्मुख्यमापद्यते, रसायुपकारकत्वमात्रस्य तत्रापि सत्त्वात् । इति अपरेषाम्मतमपि न सम्यक् । इति । एवमपरेषां मतं निरस्य मतान्तरं निराकतुमुपक्रमतेएवमभियुक्तानां सिद्धान्तस्य धनिकाराद्यनुकूलत्वेन ग्राह्यत्वोपपादनात् । च । यत् । च तु (इदं 'वाच्यवाचक