________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
३०५ यथा--'अविरलकरवालकम्पनै(कुटीतर्जनगर्जनैर्मुहुः ।
ददृशे तव वैरिणाम्मदः स गतः क्वापि तवेक्षणेक्षणात् ॥ ३०१॥' अत्र मदाख्यभावस्य प्रशमो राजविषयरतिभावस्याङ्गम् ।
१८८ भावस्य चोदये सन्धौ मिश्रत्वे च तदाख्यकाः । तदाख्यका भावोदय-भावसन्धि-भावशवल-नामानोऽल द्वाराः । क्रमेणोदाहरणम्
'मधुपानप्रवृत्तास्ते सुहद्भिः सह वैरिणः ।
. श्रुत्वा कुतोऽपि त्वन्नाम लेभिरे विषमां दशाम् ॥ ३०२॥' अत्र त्रासोदयो राजविषयरतिभावस्याङ्गम् ।
'जन्मान्तरीणरमणस्याङ्गसङ्गसमुत्सुका ।
सलज्जा चान्तिके सख्याः पातु नः पार्वती सदा ॥ ३०३ ॥' अत्रौत्सुक्यलज्जयोश्च सन्धिर्देवताविषयरतिभावस्याङ्गम् । 'पश्येत् कश्चि, चल चपल रे, का त्वराऽहं कुमारी हस्तालम्ब वितर हहहा व्युत्क्रमः कासियासि। इत्थं पृथ्वीपरिवृढ ! भवद्विद्विषोऽरण्यवृत्तेः कन्या कश्चित् फलकिसलयान्याददानाऽभिधत्ते॥३०॥' द्विषां मृगशस्ताः पश्यतां प्रेयसीं श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः । अस्माकं सुकृतैर्टशोर्निपतितस्यौचित्यवारान्निधे! विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ॥' अत्र प्रथमार्ध सैनिकनिष्ठः शृङ्गारोऽननुरक्तस्त्रीविषयकतया परस्त्रीविषयकतया च प्रवृत्त इत्याभासः, परार्धे पुनः प्रत्यर्थिनिष्ठो रतिरूपो भावः प्रकृतराजरूपशत्रुविषयकतयाऽऽहार्यतया प्रवृत्त इत्याभासः। एवमेतौ रसभावाभासौ कविगतस्य रामविषयकस्य रति भावस्याङ्गम् । भावप्रशमे गुणीभूते समाहितमित्युक्तम् , तत्र समाहितपदार्थ निर्दिशति-समाहितमित्यादिना । स्पष्टम् । परीहारप्रशमावभिन्नार्थौ इति भावस्य प्रशमोऽपि परीहारापरपर्यायः समाहितनामाऽलङ्कार इति भावः ।
उदाहरति-यथा-'अविरलकरवालकम्पनरविरलं निरन्तरं यानि करवालकम्पनानि तलवारसञ्चारणानि तैः । तथा-कुटीतर्जनगर्जनैर्धकुटीभिस्तर्जनानि 'छिन्धिभिन्धि' इत्यादीनीङ्गितोद्भावनानि च गर्जनानि चेति तैस्तथोक्तैः । मुहः । हे राजन् !-तव । वैरिणां शत्रूणाम् । मदः । 'य' इति शेषः। ददृशे। सः। तव । ईक्षणेक्षणादीक्षणयोर्नेत्रयोरीक्षणं दृष्टिपातस्तस्मात् । यद्वा-तव । ईक्षणे दर्शने । क्षणादित्यर्थः । क्वापि । गतः। वैतालीय वृत्तम् । तल्लक्षणं चोकं प्राक् ॥ ३०१॥'
उदाहृतमथै निर्दिशति-अवेत्यादिना । स्पष्ठम्। ..
भावोदयादीन् लक्षयति-१८८ भावस्य निर्वेदादेः । च । उदये । सन्धी 'तयोरिति शेषः । मिश्रत्वे सम्मेकने 'तेषा' मिति शेषः । च । तदाख्यका रसा भावोदयादिरूपाऽऽख्या येषां तथोक्ताः।
'तदाख्यका' इति पदं व्याचष्टे-तदेत्यादिना । स्पष्टम् । उदाहर्तुमाह-क्रमेणेत्यादि । स्पष्टम् ।
'मुहद्भिमित्रैः । सह । मधुपानप्रवृत्तामद्यपानपरायणाः । हे राजन् ! ते तव । वैरिणः शत्रवः । कुतोऽपि । त्वन्नाम । श्रुत्वा । विषमां सङ्कटप्रधानाम् । दशामवस्थाम् । लेभिरे लब्धवन्तः ॥ ३०२॥
उदाहृतमथै निर्दिशति-अत्रेत्यादिना। स्पष्टम् ।
'जन्मान्तरीणरमणस्य जन्मान्तरे (दक्षगृहे जन्मनि) भव इति, तादृशोऽसौ रमणो नायकः ( महेश्वरः) तस्य । अइसनसमुत्सुकाऽजसने समुत्सुकोत्कण्ठिता । अत एव-सख्याः । अन्तिके। च ( तथा व्यापारे) सहजा। पार्वती। संदा। नोऽस्मान् । पातु रक्षतु ॥ ३०३ ॥'
उदाहृतमथै निर्दिशति-अत्रेत्यादिना । स्पष्टम् ।
है पृथ्वीपरिवृढ पृथ्व्या; पारेवुढोऽधिपस्तत्संबुद्धौ तथोक्त ! 'प्रभुः परिवृढोऽधिपः।' इत्यमरः । अरण्यवृत्तेरण्ये वने वृत्तिनिवासो यस्य तादृशस्य । भवद्विद्विषो भवतो विद्विट् शत्रुस्तस्य । कन्या। फलकिसलयानि फलानि च किसलयानि नवपल्लवाश्चेति तानि । आददाना गृह्णन्ती सती। कश्चित् कोऽपि जनः । पश्येत रहस्य