________________
३०४ साहित्यदर्पणः।
[दशम:तदाभासौ रसाभासो भावाभासश्च । तत्र-रसयोगाद्रसवदलङ्कारो यथा-- 'अयं स रखनोत्कर्षी पीनस्तनविमर्दनः। नाभ्यरुजघनस्पर्शी नीवीवित्रंसनः करः॥२९८॥' अत्र शृङ्गारः करुणस्याङ्गम् । एवमन्यत्रापि । प्रकृष्टप्रियत्वात प्रेयः। यथा मम-- 'आमीलितालसविवर्तिततारकाक्षी मत्कण्ठबन्धनदरश्लथबाहुवल्लीम् । प्रस्वेदवारिकणिकाचितगण्डबिम्बां संस्मृत्य तामनिशमेति न शान्तिमन्तः ॥२१९॥' . अत्र सम्भोगशङ्कारः स्मरणाख्यभावस्याङ्गमास, च विप्रलम्भस्य । ऊों बलम् अनौचित्यप्रवृत्तौ तदत्रास्तीत्यूर्जस्वि । यथा
'वनेऽखिलकलासक्ताः परिहत्य निजस्त्रियः।।
त्वरिवनितावृन्दे पुलिन्दाः कुर्वते रतिम् ॥ ३००॥' अत्र शनाराभासो राजविषयरतिभावस्याङ्गम् । एवं भावाभासोऽपि । समाहितं परीहारः। गुणीभूतत्वे रसवत्, भावस्य गुणीभूतत्वे प्रेयः, रसाभासस्य भावाभासस्य च गुणीभावे ऊर्जखि, भावप्रशमस्य गुणीभावे समाहितं चालकारः । इति फलितम् । अत एवालङ्कारसूत्रकारैः-'रसभावा-भास-भावप्रशमानामितरगुणीभावो रसवत्-प्रेय-ऊर्जवि-समाहितानि ।'इति सूत्रयित्वा रसाः शङ्गारादयः । विभावादिभिरपरिपुष्टा देवादिविषया रत्यादयो निर्वेदादयश्च भावाः । अनौचित्येन प्रवृत्ता रसाभावाश्च रसवद्भाववच्चावभासमाना अपि न खल्वपि परमार्थतो रसाभावाश्च भवन्तीति त इहाभासाः । भावस्य कस्यचिदुपशमो भावप्रशमः । ते खल्वमी यदेतरत्र रसादौ वाक्यार्थे वा गुणीभावमायान्ति, तदा यथाक्रमं रसवदादिनामानोऽलङ्काराः । रसस्य गुणीभावो रसवदभिधेयोऽलङ्कारः । भावस्य प्रेयोऽभिधानः । आभासस्योर्जखिनामा। भावप्रशमस्य समाहिताहः । इति विवृतम् ॥ १४८॥१४९॥
सूत्रदुर्बोधशिं परिहरति-तदाभासावित्यादिना । स्पष्टम् ।
क्रमादुदाहत्तमुपक्रमते-तत्र तेषु रसवदादिषु मध्ये इत्यर्थः । रसयोगासशालितया। रसवदलङ्कारः। यथा । 'अयं स'इत्यादि । व्याख्यातपूर्वमिदम् ॥ २९८ ॥ अत्र रसस्यालङ्कारत्वे हेतुं निर्दिशति-अत्रेत्यादिना । स्पष्टम् । नायमत्रैव नियम इत्याशयेनाह-एवमित्यादि । स्पष्टम् । वीरादेः शृङ्गाराद्यङ्गत्वेऽप्येवमूद्यमिति भावः । • भावस्य गुणीभावः प्रेय इत्युक्तं तत्र हेतुं निर्दिशति-प्रकृष्टप्रियत्वात् प्रकृष्टं रसान्तराङ्गत्वेऽपि रसान्तराङ्गत्वेनोत्कृष्ट यत् प्रियत्वं तस्मात् । प्रेयः। तच्च-यथा । मम।
आमीलितालसविवर्तिततारकाक्षीमामीलिते ईषत्सङ्कुचिते अथ च अलसं यथातथा विवर्तिते चालिते रके ययोः, तादृशे अक्षिणी नेत्रे यस्यास्तथोक्काम् । मत्कण्ठबन्धनदरश्लथबाहवल्लीं मम (प्रेयसः ) कण्ठस्तस्य बन्धन बाहुक्षपणालिङ्गनं तत्र दरश्लथेषदलसा बाहुवली बाहुरूपा लता यस्यास्तथोक्ताम् । प्रस्वेदवारिकणिकाचितगण्डविम्बां प्रस्वेदवारिकणिकाभिः सुरतश्रमात्समुद्भूतस्वेदबिन्दुभिराचितं व्याप्तं गण्डस्थलं यस्यास्तथोकाम् । ताम्। संस्मृत्य चिन्तयित्वा । अन्तरन्तःकरणम् । अनिशं निरन्तरम् । शान्तिम । न । एति प्रयाति । सखायं प्रति कस्याप्युक्तिरियम् । वसन्ततिलकं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ ९२९ ॥'
भावस्य गुणीभावं निर्दिशति-अत्रोदाहृते पद्ये । सम्भोगशृङ्गारः। स्मरणाख्यभावस्य । अमनुपोष. कम् । स स्मरणनामा भावः। च। विप्रलम्भस्य विप्रलम्भशृङ्गारस्य । 'अङ्ग'मिति पूर्वतोऽन्वेति । रसभावाभासयोर्गुणीभाव ऊर्जस्वीत्युक्तम् , तत्पदार्थ निर्दिशति-ऊर्जः । बलम् । 'ऊर्जः कार्तिके बले।' इति हैमः। तद्बलम् । अनौचित्यप्रवृत्तौ 'रसभावाभासयोः' इति शेषः । अत्र (वाक्ये) अस्ति । इति । ऊर्जस्वि।
उदाहरति-यथा। 'पुलिन्दा वनेचरा म्लेच्छविशेषाः । अखिलकलासक्ता अखिलाः खोचिताः सर्वाः कलाः सुरतविधानानि तत्रासक्तास्ताः । निजस्त्रियः। परिहत्य परित्यज्य । हे राजन् !-त्वबैरिवनितावृन्दे तव वैरिणः शत्रवस्तेषां वनितानां स्त्रीवृन्दं तत्र । वने। रति प्रेम । कुर्वते । कस्यचिद्राज्ञः स्तुतिरियम् ॥३०॥
उदाहृतं निर्दिशति-अवेत्यादिना । स्पष्टम् । अत्र परोढाविषयत्वाच्छृङ्गाराभासः, सोऽपि नीचजनस्सोऽपि पराङ्गमित्यनौचित्यमिति बोध्यम् । द्वितीयोदाहरणं तृह्यमित्याह-एवमित्यादि । स्पष्टम् । तथा च-'बन्दीकृत्य नृप!