________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । अत्र समेन कार्येण प्रस्तुतेऽअप्रस्तुतव्यवहारसमारोपो, यथा'व्याधूय यद्वसनमम्बुजलोचनाया वक्षोजयोः कनककुम्भविलासभाजोः।
आलिङ्गसि प्रसभमङ्गमशेषमस्या धन्यस्त्वमेव मलयाचलगन्धवाह ! ॥ १८३ ॥' __ अत्र गन्धवाहे हठकामुकव्यवहारसमारोपः। पोऽभेदप्रत्यायनम् । सा-समासोक्तिः समासेन संक्षेपेण नतु सर्वथा उक्तिः प्रस्तुताप्रस्तुतयोरभेदप्रत्यायिकानिदर्श
प्रसिद्धेति भावः । 'अलङ्कार' इति प्रकृतानुप्रसक्तम् । अयम्भावः-प्रस्तुतेऽप्रस्तुतत्वप्रत्यायनमात्रं समासेनोक्तिरिति समासोक्तिः । असौ च प्रस्तुताप्रस्तुतयोः साधारणैः कार्य्यादिभिरेव सम्भवतीति समकार्यमूला समलिङ्गमूला समव्यवहारमूला चैति त्रिविधेति । अन्ये तु-'कार्यलिङ्गविशेषणरित्यस्य 'कार्याणि च लिङ्गानि च विशेषणानि चेति, तानि च तानि चेति तैस्तथोकैः' इत्येकशेषमङ्गीकृत्य 'कार्यलिङ्गविशेषणमूला चेति चतुर्विधाममुं प्राहुः । एवं चप्रस्तुतेऽप्रस्तुतव्यवहारारोपः समासोक्तिः, असौ च केनापि कार्य्यसाम्यादिना स्यात्, न तत्राग्रहः । 'समै रित्यादिना तु केवलं तत्सम्भावनमिति द्योतितम् । इति । अत एव रसगङ्गाधरकाराः प्राहुः-'यत्र प्रस्तुतधर्मिको व्यवहारः साधारणमात्रोपस्थापिताप्रस्तुतम्मिकव्यवहाराभेदेन भासते सा समासोक्तिः ।' इति ॥ १०९॥
___अत्र विवृतिकाराः-समासोक्तिरिति । समैः प्रस्तुताप्रस्तुतसाधारणैः। यत्रेत्यव्ययं य इत्यर्थे । लिङ्गं स्त्रीत्वादि । व्यवह्रियते विशेषेण प्रतीयतेऽनेनेति व्यवहारोऽवस्थाभेदः । इह तु खावस्थासमारोपेणे'त्यादिवक्ष्यमाणखरसादत्र व्यवहारसमारोपे कृतप्रकृतविशेषाधानस्यानुभवसिद्धतया व्यवहारः । अथवा-'तत्त्वमौपम्ये यत्प्रतीयते' इति प्राचीनोक्तानुसारेण च व्यवहारसमारूपैव समासोक्तिरनेनाङ्गीकृता । ननु 'परोक्तिर्भेदकैः श्लिष्टैः समासोक्ति'रिति काव्यप्रकाशलक्षणानुसारेण प्रकृतवाचिना श्लिष्टविशेषणवशादप्रकृतव्यानरूपद्वितीयार्थस्योपमानत्वानङ्गीकारेणासङ्गतिप्रसङ्गात् । अन्यस्याप्रस्तुतस्य समासेन सकृदुच्चारणरूपसक्षेपेणावस्थाद्वयप्रतीतिः समासोक्तिरिति सज्ञाव्युत्पत्तिरवधेया । यद्वा-समस्य कार्यादेरासेनोपन्यासेनोक्तिरप्रस्तुतावस्थाव्यञ्जनम् ।' इत्याहुः।
कार्यसाम्येनामुमुदाहर्त्तमुपक्रमते-अत्रेत्यादिना । स्पष्टम् । 'व्याधयेत्यादि।
'हे मलयाचलगन्धवाह मलयाचलस्य चन्दनोत्पत्तिस्थानतया प्रसिद्धस्य मलयनाम्नः पर्वतस्य गन्धवाहो वायुस्तत्सम्बुद्धौ तथोक्त ! अम्बुजलोचनायाः कमलनेत्रायाः कान्ताया इति यावत् । कनककुम्भविलासभाजोः कनककुम्भयोः स्वर्णघटितघटयोर्विलास: शोभा तं भजत इति तयोस्तथोक्तयोः । 'भजो ण्विः ।।३।२।६२ इति ण्विः । वक्षोजयोः कुचयोः । वसनं वस्त्रम् । व्याधूय विशेषेण कम्पयित्वाऽपसार्येति यावत् । यत् । प्रसभं बलात्कारेण । अस्याः । अशेषं सर्वम् । अड्रंगात्रम् । यत्-आलिसि । तत्-त्वम् । एव 'न त्वन्य' इति शेषः । धन्यः कृतार्थः । वायुनोन्नीयमानवस्त्रां नायिकामवलोक्य वायुंस्तुवतो जनस्य कस्याप्युक्तिारयम् । वसन्ततिलकं वृत्तं, तल्लक्षणं चोक्तं प्राक् ॥ १८३॥'
अत्रास्मिन् प्रस्तुते किमारोप इत्याशङ्कयाह-अत्रेत्यादि ।
अत्रोदाहृते पद्ये । गन्धवाहे (प्रस्तुते)। हठकामुकव्यवहारसमारोपो हठेन कामुकः कामी परस्त्रीचश्चलमना इति यावत् तस्य (अप्रस्तुतस्य ) व्यवहारस्तदारोपः । 'नायिकायाः स्तनवस्त्रापक्षेपपूर्वकालिङ्गनरूपकार्य्यस्य प्रस्तुता- । प्रस्तुतोभयसम्बन्धित्वसाधारण्या'दिति शेषः ।
___ अत्राहुस्तर्कवागीशाः-'यदि पुनर्नायिकायास्तादशालिङ्गनमप्राप्नुवतः कस्यचिदात्मनोऽधन्यत्वनिवेदनमेतत् स्यात्तदा वायोरप्रकृतत्वान्नेयं समासोक्तिः; किंतु 'धन्याः खलु वने वाता' इत्यादिवक्ष्यमाणवद्वैधयेणाप्रस्तुतप्रशंसैव, 'अहमधन्य' इति प्रस्तुतस्य गम्यत्वात् । एवं च-नवा लता गन्धवहेन चुम्बिता करम्बिताङ्गी मकरन्दशीकरैः।'इत्यायुदाहरणमस्यावग'न्तव्यम्।अत्र वायोर्वर्णनीयत्वेन प्रकृतत्वाच्चुम्बनरूपकार्य्यसाम्येन शृङ्गारित्वरूपनायिकावस्थासमारोपश्चारुत्वमावहति।'इति ।
यथा वा-'देव ! त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भविताऽसि यस्य तरुणश्चापप्रतापोऽ. धुना । क्रोडान्तः कुरुतेवरा वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ॥' इति । अन हि राज्ञि दुराचारित्वव्यवहारारोपहेतुरुत्तरार्दोक्तकार्य्यसाधारण्यम् ।