________________
૪૮
साहित्यदर्पणः।
(दशमःलिङ्गसाम्येन यथा'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनस्विनः।अनाक्रम्य जगत् कृत्स्नं नोसध्यां भजते रविः१८४' अत्र पुंस्त्रीलिङ्गमात्रेण रविसन्ध्ययो यकनायिकाव्यवहारः। विशेषणसाम्यं तु श्लिष्टतया, साधारण्येन,ौपम्यगर्भत्वेन च विधा। तत्र श्लिष्टतया यथा, मम'विकसितमुखी रागासङ्गाद्गलत्तिमिरावृति दिनकरकरस्पृष्टामैन्द्री निरीक्ष्य दिशं पुरः। जरठलवलीपाण्डुच्छायो भृशं कलुषान्तरः श्रयति हरितं हन्त प्राचेतसी तुहिनातिः॥१८५॥'
अब मुखरागादिशब्दानां श्लिष्टता। अत्रैव च तिमिरावृति मित्यत्र तिमिरांशुका मिति पाठे एकदेशस्य रूपणेऽपि समासोक्तिरेव, न त्वेकदेशविवर्ति रूपकम् । तत्र हि तिमिरांशुकयो रूप्यरूपकभावो द्वयोरावरकत्वेन स्फुटसादृश्यतया परसाचिव्यमनपेक्ष्यापि स्वमात्र विश्रान्त
लिङ्गसाधारण्यमूलामुदाहरति-लिडेत्यादिना । स्पष्टम् । असमाप्तेत्यादि।
असमाप्तजिगीषस्य न समाप्ता पूर्णा जिगीषा जेतुमिच्छा यस्य ताशस्य । मनस्विनो नीतिज्ञस्य । का स्त्रीचिन्ता स्त्रीविषयिणी चिन्ता । 'श्रीचिन्ता' इति पाठान्तरे 'लक्ष्मीप्राप्तिकामना' इत्यर्थः । कृत्स्नं समस्तम् । 'विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निश्शेषम् ।' इत्यमरः । जगत् । अनाक्रम्य । रविः सूर्यः । सन्ध्याम्। नो। भजते सेवत इति भावः । राजतरङ्गिण्याः पद्यमिदम् ॥ १८४ ॥'
लिङ्गसाम्येन व्यवहारारोपं निर्दिशति-अत्र । पुंस्त्रीलिङ्गमात्रेण रवेः पुंस्त्वेन सन्ध्यायाः स्त्रीत्वेन चेति भावः । रविसन्ध्ययोः। नायकनायिकाव्यवहारः। 'आरोपित' इति शेषः । 'दृष्टान्तत्वेनाप्रकृतयोरपि रविसन्ध्ययो: प्रकृताङ्गत्वेनैव प्रकृतत्वमवधेयम् ।' इति विवृतिकाराः । यथा वा-'मनस्त्वया न गन्तव्याः सङ्कल्पनविकल्पनाः । किं करिध्यसि गत्वाऽपि ततस्तूष्णी क्षणं भव ।' इति, नपुंसकस्त्रीलिङ्गाभ्यां मनोविकल्पनानां क्लीबत्वनायिकात्वप्रत्ययः ।
विशेषणसाम्यस्य त्रैविध्यं ब्रुवन्नाद्यमुदाहरति-विशेषणेत्यदिना । स्पष्टम् । 'विकसितेत्यादि।
'तुहिनद्युतिश्चन्द्रः । पुरोऽग्रतः । रागासड़ादागस्य रत्तिनोऽनुरागस्य वाऽऽसङ्गः शालित्वमावेशो वा तस्मात् । विकसितमुखी विकसितं सप्रकाशं प्रसन्नं वा मुखमेकदेशो वकं वा यस्यास्तां तथोक्ताम् । गलत्तिमिरावृतिं गलन्ती नश्यन्ती संवलन्ती वा तिमिरावृतिस्तिमिरकृतमावरणं तिमिररूपं वावरणं यस्यास्तां तथोक्ताम् । दिनकरकरस्पृष्टां दिनकरः सूर्यस्तस्य करः किरणः पाणिर्वा तेन स्पृष्टा तां तथोक्ताम् । ऐन्द्रीं पूर्वाम् । दिशम् । निरीक्ष्य । जरठलवलीपाण्डुच्छायो जरठा पक्का लवली 'हरफारेवड़ी'ति प्रसिद्ध फलं तद्वत् पाण्डः छाया यस्य स इति तथोक्तः । भृशमत्यन्तम् । कलुषान्तरः कलुषं कलङ्किततयेाषायिततया, वा मलिनमान्तरं मध्यदेशश्चित्तं वा यस्य तथोक्तः । 'स'निति शेषः । हन्त । प्राचेतसी पश्चिमाम् । हरितं दिशम् । श्रयति । हरिणीप्लुतं छन्दः, तलक्षणं चोक्तं प्राक् ॥ १८५॥'
समासोक्किं निर्दिशति-अवेत्यादिना । स्पष्टम् । अयम्भाव:-एषां श्लिष्टानां प्रस्तुताप्रस्तुतोभयानुकूलत्वेनैन्द्रया बन्धकीत्वं, चन्द्रस्य च नायकत्वं चाप्रस्तुतमारोप्यते। इति ।।
अत्र समासोक्ति स्थूणनिखननन्यायेन द्रढयितुमाह-अत्रैवेत्यादि ।
अत्रोदाहृते पद्ये । एव । च । 'तिमिरावृति' मित्यत्र 'अशे'इति शेषः । 'तिमिरांशका मिति पाठे। 'परिवर्तिते'इति शेषः । एकदेशस्य । रूपणे शाब्दे'इति शेषः। अपि । समासोक्तिः । एव । नतु 'यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत्'इत्युक्तदिशेति शेषः । एकदेशविवार्त। रूपकम। कोऽत्र हेतुरित्याशङ्कयाह-हि यतः। तत्रोदाहते पद्ये। तिमिरांशुकयोः। रूप्यरूपकभावो रूप्यमारोपविषयः (तिमिरम्) च रूपकमारोप्यमाणम्(अंशुकम् च तयोर्भाव इति तथोक्तः । द्वयोस्तिमिरांशुकरूपयो रूप्यरूपकयोः । आवरकत्वेन । एफटसादृश्यतया स्फुटं सादृश्यं ययोस्तयोः (तिमिरांशुकयोः)भावस्तत्ता तयेति तथोक्तया । परसाचिव्यं परस्य दिशि नायिकाऽऽरोपस्य (आर्थस्य रूपणस्य)साचिव्यं साहाय्यं तत् तथोक्तम् । अनपेक्ष्य । अपि । स्वमात्रविश्रान्तः स्खमात्रे तिमिरांशुकयोः रूप्यरूपकत्वरूपे शाब्दे रूपणे विश्रान्तः । मात्रपदेन दिशि नायिकात्वारोपस्यार्थस्य