________________
२४६ साहित्यदर्पणः ।
[ दशमः'विना जलदकालेन चन्द्रो निस्तन्द्रतां गतः। विना ग्रीष्मोमणा मञ्जुधनराजिरजायत१८०' असाधु यथा--
'अनुयान्या जनातीतं कान्तं साधु त्वया कृतम् । का दिनश्रीविनाऽर्केण का निशा शशिना विना ॥ १८१ ॥' 'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् ।
उत्पत्तिरिन्दोरपि निष्फलैव दृष्टा विनिद्रा नलिनी न येन ॥ १८ ॥ अत्र परस्परविनोक्तिभङ्गया चमत्कारातिशयः। विनाशब्दप्रयोगाभावेऽपि विनाऽर्थविवक्षायां विनोक्तिरेवेयम् । एवं सहोक्तेरपि सहशब्दप्रयोगाभावेऽपि सहार्थविवक्षया भवतीति बोध्यम् ।
१३७ समासोक्तिः समैर्यत्र कार्यलिङ्गविशेषणैः॥ १०९ ॥
___व्यवहारसमारोपः प्रस्तुतेऽन्यस्य वस्तुनः। . 'जलदकालेन वर्षाकालम् । 'पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ।' २।३।३२ इति तृतीया । विना। चन्द्रः। निस्तन्द्रतां निरालस्यमुपचारादुज्ज्वलप्रकाशत्वम् । गतः । ग्रीष्मोष्मणा ग्रीष्मधर्मेण । विना । वनराजिवनानां राजिः पक्तिः । मजः सुन्दरा । 'मनोझं मञ्जु मजुलम् ।' इत्यमरः । अजायत । अत्र स्वतः सुन्दरयोश्चन्द्रवनराज्योमेघग्रीष्मोष्मसन्निधानरूपदोषापगमेन साधुत्वसिद्धिः ॥' यथा वा-'निशयेव विना सरोजिनी सरसी प्रावृषमन्तरा यथा । विशदत्वमुपैति भारती जडभावेन विना विपश्चिताम् ॥' इति ॥ १८० ॥'
एवं साधुत्वप्रत्यायिकां विनोक्तिमुदाहृत्यासाधुत्वप्रत्यायिकामुदाहरति-असाध्वित्यादिना।
असाधु अशोभनमुपचारात्तत्प्रत्यायिका विनोक्तिरित्यर्थः । एतेन-विनोक्ते दद्वयं दर्शितम् । यथा-'अनुयान्त्येत्यादि । व्याख्यातपूर्वमिदसू । पतिमन्तर योषितो व्यर्थत्वं सूचयितुमिदमुक्तम् । अत एवात्र असाधु ( अशो. भन ) त्वम् ॥ १८१॥
. उदाहरणान्तरं निर्दिशति-'यया । तुहिनांशबिम्बं तुहिनांशुश्चन्द्रस्तस्य बिम्बं मण्डलम् । न । दृष्टम् । तस्याः-नलिन्याः पद्मिन्याः । जन्म । निरर्थकं व्यर्थम् । गतं व्यतीतम् । चन्द्रदर्शनं विना नलिनीसमुत्पन्नाऽपि व्यर्थेति भावः । येन । विनिद्रा विकाशवती। नलिनी। न । दृष्टा । तस्य-इन्दोश्चन्द्रस्य । उत्पत्तिर्जन्म । अपि । निष्फला। एव । विहण-राजकन्ययोरुक्तिप्रत्युक्तिपरमिदं पद्यम् । उपेन्द्रवजेन्द्रवज्रयोरुपजातिश्छन्दः, तल्लक्षणं चोक्तं प्राक ॥ १८२॥
ननूदाहरणान्तरनिर्देशस्य किं निमित्तमित्याशङ्कयाह-अत्रेत्यादि । . अत्रोदाहृते पद्ये । परस्परविनोक्तिभड्रया परस्परं विनोक्तिर्दर्शनाभावाभिधानविशेषस्तया । चमत्कारातिशयः। यथा चन्द्रदर्शन विना कमलिन्या जन्म निरर्थ, तथा विकसितकर्मालनीदर्शनमन्तरा चन्द्रस्यापि जन्म व्यर्थमिति परस्परजन्मनिरर्थकत्वाभिधानद्वारा चमत्कारातिशय इत्यर्थमुदाहरणान्तरमिदमिति भावः ।
ननु विनाशब्दप्रयोगाभावात् कथमियं विनोक्तिरित्याह-विनेत्यादि । स्पष्टम् । अयम्भावः-नायं शब्दालङ्कारः, किन्तु अर्थालङ्कारः; अत एवात्र विनाशब्दप्रयोगाभावेऽपि विनाऽर्थकस्य नन एव प्रयोगात् तुहिनांशुदर्शनं विना नलिनीजन्मनः, नलिनीविकासदर्शनमन्तरा तुहिनांशुजन्मनोऽशोभनत्वप्रतिपत्तेः । इति । उक्तमर्थमन्यत्राप्यतिदिशति-एव. मित्यादिना । स्पष्टम् । अतः-'प्राणैश्च कोशैर्द्विषतां नरेन्द्र ! मौर्व्याः समाकृष्टिमुदाहरन्ति । टङ्कारपूर्त्यां सुहृदां जनानां प्रमोदपूर्ति च तव प्रविज्ञाः ॥' इत्यादावपि सहोक्तिः, सहप्रयोगाभावेऽपि 'वृद्धो यूना..।' १।२।६५ इति निर्देशेन सहार्थे तृतीयाया एवोपपत्तरिति स्थितम् ।
समासोक्तिं लक्षयति-१३७ यत्र यस्मिन् काव्ये। समैः प्रस्तुताप्रस्तुतसाधारणैः । कार्यलिङ्गविशेषणैः कार्याणि (व्याधुवनादीनि ) च लिङ्गानि (पुंस्त्रीनपुंसकत्वद्योतकानि चिह्नानि ) च विशेषणानि ( विकसितमुखीप्रभू तीनि) चेति तैस्तथोक्तैः, तद्वारेति भावः । प्रस्तुते प्रकृतधर्मिणि । अन्यस्याप्रकृतमिणः । वस्तुनः। व्यवहारसमारोपो व्यवहारस्य ( व्यवह्रियते विशेषेण प्रतीयतेऽनेनेति तस्य ) अवस्थाविशेषस्य समारोपः सम्यगारो.