________________
eferrer व्याख्या समेतः ।
२४५
परिच्छेदः
'सममेव नराधिपेन सा गुरुसम्मोहविलुप्तचेतना ।
अगमत्सह तैलबिन्दुना ननु दीपार्चिरिव क्षितेस्तलम् ॥ १७९ ॥
इयं च मालयाऽपि सम्भवति, यथोदाहृते- 'सह कुमुदकदम्बैः... ' इत्यादौ । 'लक्ष्मणेन समं रामः काननं गहनं ययौ ।' इत्यादौ चातिशयोक्तिमूलत्वाभावान्नायमलङ्कारः । १३६ विनोक्तिर्यद्विनाऽन्येन नासाध्वन्यदसाधु वा ।
नाखाधु अशोभनं न भवति, एवं च यद्यपि शोभनत्व एवं पर्य्यवसानम्, तथाऽप्यशोभनत्वाभावमुखेन शोभनवचनस्यायमभिप्रायो यत् कस्यचिद्वर्णनीयस्याशोभनत्वं तत्परसन्निधेरेव दोषः। तस्य पुनः स्वभावतः शोभनत्वमेवेति, यथा
इत्यादावपि तथाकंल्पनस्य सम्भवात् व्यावृत्त्यभावेन तद्विवक्षणस्याकिञ्चित्करत्वात् ।' इति, तद्दत्तोत्तरम् । अन्यथा - 'इयं धर्मयोरभेदाध्यवसायमूला' इति विरुध्येतोयोतोऽपि ।
एवमभेदाध्यवसायमूलामुदाहृत्य द्वितीया मुदाहरति- 'ननु कष्टमाचय्यै वा । तैलबिन्दुना । सह । दीपार्चिदपरोचिः । इव । सा · इन्दुमती । नराधिपेन राज्ञाऽजेन । समम् एकदा । एव । गुरुसम्मोहविलुप्तचेतना गुरुर्महानसौ सम्मोहस्तेन विलुप्ता चेतना बुद्धिर्यस्याः सा तथाभूता सतीति भावः । क्षितेः पृथिव्याः । तलम् । अगमत् । रघुवंशस्येदं पद्यम् । अत्राजस्य पतनमिन्दुमतीपतनजन्यमपिं समकालत्वेनाध्यवसितम् । वैतालीयं वृत्तं, तलक्षणं चोक्तं प्राक् ॥ १७९ ॥
एवं कार्यकारणपौर्वापर्ण्यविपयरूपातिशयोक्तिमूलामपि सहोन्तिमुदाहृत्यास्याः सम्भवन्तं प्रकाशाद्यनुदाहृतमपि भेदमुदाहर्तुमाह- इयं चेत्यादि । स्पष्टम् । अत एवान्येऽप्याहुः - " इयं मालारूपाऽपि सम्भवति, यथा- ' उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं सुखैर्नामितं भूपानां, जनकस्य संशयधिया साकं समास्फालितम् । वैदेह्या मनसा समं तदधुना कृष्टं ततो भार्गवप्रौढाहङ्कृतिकन्दलेन च समं भग्नं तदेशं धनुः ॥' इति । "
विनोति लक्षयति-यत् यदि यत्र वेति भावः । अन्येन । विना । अन्यत् । असाधु अशोभनम् । न, किन्तु शोभनम् । वाऽथवा । अन्यत् - असाधु अशोभनम् । 'न साध्वन्यदसाधु वा इति पाठे तु यत् । अन्यत् । साधु शोभनम् । न । वाऽथवा । यत् अन्यत् असाधु अशोभनम् । 'ने'ति पूर्वतोऽन्वेति । इति योज्यम् । तर्हि । सेति वा शेषः । विनोक्तिः । अन्येन विनाऽन्यस्य यदि शोभनत्वम्, अशोभनत्वं प्रतिपाद्येत प्रतिपद्येत वा । तर्हि, यद्वा-अन्येन विनाऽन्यस्य यच्छोभनत्वमशोभनत्वं वा सेति विनोक्तिरिति भावः ।
दुर्बोध परिह कारिकायाः 'नासाधु' इति दुर्बोधं पदं विवृणोति - नासाध्वित्यादिना ।
नासाधु ' इत्यस्ये 'ति शेषः । अशोभनम् । न । भवति' इत्यर्थ' इति शेषः । अस्य तात्पय्यै निर्दिशति एवं । च । यद्यपि 'नासाध्वित्यस्येति शेषः । शोभनत्वे । एव, न त्वशोभनत्व इति शेषः । पर्य्यवसानं 'द्वौ नत्रौ प्रकृतमर्थमघगमयत' इति नयेनान्ततोऽवस्थानम् । तथाऽपि । अशोभनत्वाभावमुखेन 'न असाधु, किन्तु साधु' इत्यसाधुत्वप्रतिषेधद्वारेति भावः । शोभनवचनस्य 'साधु' इति प्रतिपादनस्य । अयम् । अभिप्रायः । यत् । कस्यचित् । वर्णनीयस्य प्रकृतस्य वस्तुनः । अशोभनत्वमसाधुत्वम् । 'प्रतिपाद्यते ' ' प्रतिपद्यते ' इति वा शेषः । तत् । परसन्निधेः परस्य दोषावहस्य सन्निधिः सन्निधानं तस्येति तथोक्तस्य । एव । दोषः । ननु वर्णनीयस्याशोभनत्वमेव किन्नाङ्गीक्रियताम् ? किं वा परसन्निधानेन शोभनत्वमित्याशङ्कयाह - तस्य परसन्निधिजातदोषस्य । पुनः । स्वभावतः । शोभनत्वं साधुत्वम् । एव । इति ( ' अभिप्राय ' इत्यनेनास्य सम्बन्धः) । इदमुक्तम् - विनार्थकं पदं प्रयोज्य यस्य साधुत्वं प्रतिपाद्यते, तस्य स्वाभाविकं साधुत्वमेव असाधुत्वं तु यस्य विनाऽर्थकेन पदेन सन्निधानं निषिध्यते तत्कृतमेव । एतेन - 'दुःखदत्वं विना पापमविद्या मोहमन्तरा । विना दुःखं च निरयः साधुः कस्य न सम्मत: ?' इत्यादौ नायमिति सूचितम्, दुःखदत्वादि विना पापादित्यस्यैवानभिमतत्वात् । इति ।
उदाहरति-यथा-विनेत्यादिना ।